सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 979, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 979

ख्यातो भवति लोकेषु स्वर्गलोकं च गच्छति ॥ यावदक्षिनिमेषाणि दीपो देवालये ज्वलेत् ॥ २७२ ॥ तावद्वर्षसहस्राणि धर्मात्मा लोकमश्नुते ॥ महाविर्तिप्रदानेन कुले देशे तथैव च ॥ २७३ ॥ श्रेष्ठ्यमाप्नोति सर्वत्र यथा सूर्य विराजते ॥ मधुपर्कप्रदानेन परं पदमिहाश्नुते ॥२७४॥ घृतं दधि तथा क्षौद्रं मधुपर्कं विजानता ॥ ततस्त्वर्हणदानेन सर्वपापैः प्रमुच्यते ॥ २७५ ॥ तथैवाचमनीयस्य दानाद्ब्राह्मणसत्तमाः ॥ अनन्ततृप्तिमा प्नोति स्वर्गलोकं च गच्छति ॥ २७६ ॥ दत्त्वा चासंविभागाय तथैवान्नममर्तिदन्तः ॥ त्रैलोक्यतर्पिते पुण्ये तत्क्षणात्समवाप्नुयात् ॥ २७७ ॥ अक्षय्यमन्नदानं च पितृस्तस्योपतिष्ठते ॥ ओदनं व्यञ्जनोपेतं दत्त्वा स्वर्गमवाप्नुयात् ॥ २७८ ॥ परमान्नप्रदानेन तृप्तिं विन्दति शाश्वतीम् ॥ विष्णुलोकमवाप्नोति कुलमुद्धरति स्वकम् ॥ २७९ ॥ घृतौदनप्रदानेन दीर्घमायुरवाप्नुयात् ॥ दध्योदनप्रदानेन श्रियमग्र्योत्तमोत्तमाम् ॥ २८०॥ क्षीरौदनप्रदानेन दीर्घं जीवितमाप्नुयात् ॥ इक्षूणां चैव दानेन परं सौभाग्यमाप्नुयात् ॥ २८१॥ रसानां चैव भागी स्यात्स्वर्गलोकं च गच्छति ॥ सर्वान्कामानवाप्नोति क्षौद्रं यस्तु प्रयच्छति ॥ २८२ ॥ तदेव दधिनोपेतं राज्यमुग्रमवाप्नुयात् ॥ फाणितस्य प्रदानेन बह्वादायं फलं लभेत् ॥ २८३ ॥ तथा गुडप्रदानेन दशगोदो भवेन्नरः ॥ मुख्यं दण्डं तथा दत्त्वा मैत्रीं सर्वण विन्दति ॥ २८४ ॥ क्षौडू वल्लभतामेति दत्त्वा च गुडिकां तथा ॥ सितायाश्च प्रदानेन सर्वान्कामानवाप्नुयात् ॥ २८५ ॥ निवेद्येक्षुरसं भक्त्या परं सौभाग्यमाप्नुयात् ॥ वह्निष्टोममवाप्नोति यावक स्य निवेदकः ॥ २८६ ॥ अतिरात्रमवाप्नोति तथा धूपनिवेदकः ॥ वैदलानां च भक्ष्याणां दातान्ताकाममवाप्नुयात् ॥ २८७ ॥ दीर्घजीवितमा प्नोति घृतपूरनिवेदकः ॥ मोदकानां प्रदानेन कामानाप्नोत्यभीप्सितान् ॥ २८८॥ नानाविधानां भक्ष्याणां दानात्स्वर्गमवाप्नुयात् ॥ गणगंड प्रदानेन पौण्डरीकमवाप्नुयात् ॥ २८९ ॥ भोजनप्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥ तथा लेह्यप्रदानेन सौभाग्यमधिगच्छति ॥ २९० ॥ बलवर्णमवाप्नोति चोश्याणां विनिवेदकः ॥ पेयानां च प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम् ॥२९१॥ पानकानि सुगन्धीनि शीतनानि विशेषतः ॥ निवेद्य देवदेवाय वाजिमेधमवाप्नुयात् ॥ २९२ ॥ त्वगेला नागकुसुमकर्पूरसितसंयुतैः ॥ सिताक्षौद्रगुडोपेतैर्गन्धवर्णसमन्वितैः ॥ २९३ ॥ राज सूयमवाप्नोति पानकैर्विनिवेदितैः ॥ निवेद्य नालिकेराम्बु वह्निष्टोमफलं लभेत् ॥ २९४ ॥ धान्यानां क्षोद्रयुक्तानां लाजानां च निवेदकः ॥ मुख्यानां चैव सक्तूनां वह्निष्टोममवाप्नुयात् ॥ २९५ ॥ वानप्रस्थाश्रितं पुण्यं लभेच्छक्तिकनिवेदकः ॥ दत्त्वा हरितकं चैव तदेव फलमाप्नुयात् ॥ २९६ ॥ सुकुले प्राप्नुयाज्जन्म कन्दमूलनिवेदकः ॥ नीलोत्पलविदार्‍याणां तरूटस्य तथा द्विजाः ॥ २९७ ॥ कंददानादवाप्नोति वानप्रस्थ