सामग्री पर जाएँ
भारतकोश
विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)

Vishnudharmottara Purana Hindi

महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा

स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)

DevanagariHindipublished1,001 पृष्ठ

पृष्ठ 981, कुल 1001 में से

संदर्भ में पढ़ें
पृष्ठ 981

श्वापि देवैः सर्वैः समागतैः ॥ ९ ॥ एवं स देवं हि भक्तियुक्तो रसातलस्थो वसुधाधिपेश्चः ॥ भयात्सुघोरात्प्रविमुच्य युक्तो राज्येन गत्वा नमस्तस्मैव ॥ १० ॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे वसुपाख्यानं नामाष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४८॥ ॥ ॥ वज्र उवाच ॥ ॥ विश्वरूपं समाचक्ष्व देवदेवस्य चक्रिणः ॥ कस्य तद्दर्शितं तेन भृगुवंशविवर्धन ॥ १ ॥ मार्कण्डेय उवाच ॥ ॥ एकान्तभावनामद्भिर्हृद्यानि बहुशः पुरा ॥ विश्वरूपाणि देवस्य यान्यसंख्यानि भाषितम् ॥ २ ॥ वासुदेवप्रसादेन न भवेद्वीक्ष्यदर्शनः ॥ विश्व रूपधरं द्रष्टुं तावच्छक्तिर्न विद्यते ॥ ३॥ तत्र यद्दर्शितं चैव नारदस्य पुरातनम् ॥ तत्तेऽहं संप्रवक्ष्यामि विश्वदेवेन विष्णुना ॥ ४ ॥ नारदः सुमद्भूतं नरनारायणाश्रमम् ॥ बदर्याश्रममित्युक्तं जगामातिमनोहरम् ॥ ५ ॥ चतुरात्मा हरिर्यत्र धर्मपुत्रत्वमागतः॥ हरिः कृष्णो नरश्चैव तथा नारायणः प्रभुः ॥ ६ ॥ हरिः कृष्णः स्थितौ वृत्ते तदा लोकान्तरे किल ॥ नरनारायणौ देवौ तपस्युग्रे तथा रतौ ॥ ७ ॥ अष्टचक्रे स्थितौ याने भ्रातृयुक्ते मनोहरे ॥ एकपादौ निरालम्बौ तथैवोर्ध्वभुजावुभौ ॥ ८ ॥ ददर्श नारदस्तत्र तावुभौ दीप्ततेजसौ ॥ अभिवाद्य गतौ देवौ तयोस्तु पुरतः स्थितः ॥ ९ ॥ पाद्यार्घ्याचमनीयाद्यैः पूजितः संस्तदा द्विजः ॥ ननारायणाभ्यान्तु तत्रोवास तदाश्रमे ॥ १० ॥ आश्रमस्थः स विप्रेन्द्रः कदाचिद्देवसत्तमौ ॥ ददर्श विप्रं कुर्वाणौ देवकर्म तथानयो ॥ ११॥ ततः कृताह्निको प्राह नारदस्तौ जगद्गुरू ॥ भवन्तौ जगतां नाथौ भवन्तौ परमेश्वरौ ॥ १२॥ आराधनायं कस्येह तपस्यभिरतावुभौ ॥ भवद्भ्यामर्च्यते कश्च देवं पित्र्ये च कल्पिते ॥ १३॥ (प्रकृति र्या परास्माकं यतः सर्वस्य संभवः ॥ मर्यादामीक्षनार्थाय नवं तमपराजितम् ॥ १४ ॥ पूजयामः सदा ब्रह्मन्दैवे पित्र्ये च कल्पिते ॥ ) विप्रान्देव गुरून्द्वाश्च पितृंश्चैव जगत्त्रये ॥ १५॥ येऽन्यन्त्यर्चयन्त्येवं तं देवं परमेश्वरम् ॥ गौऽयमप्यर्चयेद्देवं तेन स्यात्पूजितो हरिः ॥ १६॥ विधिहीनं महा भाग स हि सर्वगतो यतः ॥ देवस्यान्यस्य यश्चाचं कर्तुकामोऽथचेद्धरिम् ॥ १७ ॥ तेन तस्य कृतार्चा स्याद्दिजश्रेष्ठ विधानतः ॥ दैवे यस्या त्सुराः सर्वं त्रैलोक्यमपि यद्गतम् ॥१८॥ कृता त्रैलोक्यपूजा स्याद्विष्णुपूजाविधायिना ॥ नास्ति लोकेषु तद्ब्रह्म यन्न नास्ति जनार्दनः ॥१९॥ न तदप्यस्ति लोकेषु यन्न विष्णौ प्रतिष्ठितम् ॥ यस्मिन्सर्वं यतः सर्वं सर्वत्रैष यः॥२०॥पश्य सर्वमयो नित्यं तस्मै सर्वात्मने नमः ॥ क्षीरोद मध्ये द्वीपोऽस्ति बहुयोजनविस्तृतः ॥२१॥ तत्र ते पुरुषाः श्वेताः शशाङ्कसमतेजसः ॥ उपेताश्च तथा सर्वं चक्रवत्पुलक्षणैः ॥ २२॥अपञ्चरात्रवि धानज्ञाः पूजयन्ति सदा हरिम् ॥ मायादेहमुपास्थाय देवोऽपि मधुसूदनः ॥२३॥ तात्पूजां प्रतिगृह्णाति शिरसा सततं हरिः ॥ तैस्सार्धं रमते नित्यं

विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण) · पृष्ठ 981, कुल 1001 में से · BharatKosha