विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 988, कुल 1001 में से
संदर्भ में पढ़ेंवानां हितकाम्यया ॥ ४२ ॥ वाडवोऽहं समुद्रस्थः पिबामि सलिलं सदा ॥ पृथ्वी वसुमती ब्रह्मन्पुथुना च मया कृता ॥ ४३ ॥ कपिलेन मया दुग्धा दग्धव्याः सगरात्मजाः ॥ दत्तात्रेयेण वसुधा देवा द्विजगणाः पुनः ॥ ४४ ॥ जामदग्न्येन रामेण लघ्वी वसुमती कृता ॥ त्रिःसप्त कृत्वः कर्तव्या क्षत्रभारप्रपीडिता ॥ ४५ ॥ दत्त्वा चतुर्धा पुत्रांश्च मया दशरथस्य च ॥ रामेण रावणवधः कर्तव्यो जनतासुखम् ॥ ४६ ॥ कार्यं गन्धर्वनिधनं तथैव भरतात्मना ॥ मेघनादवधः कार्यों लक्ष्मणेन तथा मया ॥४७॥ शत्रुघ्नेन च कर्त्तव्यो लवणस्य वधस्तथा॥ मया वाल्मी किना कार्यं काव्यं रामायणं तथा ॥४८॥ व्यासेन वेदा वक्तव्या आख्यानं भारतं महत् ॥ मया ब्राह्मणशार्दूल तथा द्वैपायनात्मना॥४९॥पाण्डोः पुत्रत्वमासाद्य पञ्चधा च तथा मया ॥ द्विधा च वसुदेवस्य लघ्वी कार्या वसुन्धरा ॥५०॥ नरलोके निहन्तव्या दैत्या मातृपरूपिणः ॥ बलभद्रेण च मया हन्तव्या यौष्ठिकादयः ॥ ५१ ॥ मया कृष्णेन हन्तव्याः कंसपूर्वा महाबलाः ॥ प्रद्युम्नेन निहन्तव्यः शम्बरश्च महाबलः ॥ ५२ ॥ हन्तव्याश्चानिरुद्धेन दैत्याः शतसहस्रशः ॥ सर्वेन युगधानेन मया भूत्वा तथैव च ॥५३॥ मया बुद्धेन वक्तव्या धर्माः कलियुगे पुनः ॥ हन्तव्या म्लेच्छराजानस्तथा विष्णुयशसात्मना ॥५४॥ ममांशेन विजानन्ति पृथिव्यां चक्रवर्त्तिनः ॥ ऋषयश्च तथा ज्ञेया ममैवांशसमुद्भवाः ॥५५॥ यद्यद्धि भूतिमत्सत्त्वं श्रीमदूर्जितमेव च ॥ तत्तदेवावगच्छेस्त्वं मम तेजोंशसम्भवम् ॥ ५६ ॥ अथ वा बहुनैतेन किं ज्ञानेन तवानघ ॥ विष्टभ्याहमिदं कृत्स्नमेकांशेनस्थितो जगत् ॥ ५७॥ तद्गच्छ मानसीं सिद्धिः सदा तेऽस्तु द्विजोत्तम ॥ कल्पावसानमासाद्य मच्छरीरं प्रवेक्ष्यसि ॥ ५८ ॥ एता वदुक्त्वा वचनं तत्रैवान्तरधीयत ॥ भगवान्द्वारकेशेके पूजां तद्देशवासिनाम् ॥५९॥ तैश्च संपूजितो विप्रस्तानप्रणम्य यतव्रतः ॥ आजगाम ततः शीघ्रं नरनारायणाश्रमम् ॥ ६० ॥ पाद्यार्घ्याद्युपतस्तत्र स तयोर्मुनिपूज्योः ॥ ताभ्यां संपूजितो विप्रस्तत्रोवास तदाश्रम ॥ ६१ ॥ ततः कदाचित्तं विप्रमृचुस्तौ तपोधनौ ॥ आवाभ्यां त्वं तथा दृष्टः श्वेतद्वीपात्तडेऽच्युतः ॥ ६२ ॥ समीपं देवदेवस्य तदहस्त्वेथथासुखम् ॥ लोकैस्मिन्मुनि शार्दूल नास्ति धन्यतरस्त्वया ॥ ६३ ॥ दृष्टवानसि यद्ब्रह्मन्विश्वेश्वरं हरिम् ॥ त्रैलोक्यसारं विश्वेशं प्रणतार्तिविनाशनम् ॥ ६४ ॥ यतस्त्वं तुग्रहस्तेन कृतो देवेन विष्णुना ॥ ततो गुह्यं निबोधेमं तत्पूजाविधिसुत्तमम् ॥ ६५ ॥ सर्वकर्मकरं दिव्यं सकलार्थप्रदं शिवम् ॥ नाभक्त्याय च तद्देयं तया ब्राह्मणसत्तम ॥६६॥ एकान्तभावोपगतं जनार्दनं नरस्तु सम्पूज्य तथा विधानतः ॥ प्रयाति तद्धाममनुत्तमं शिवं न यत्र गत्वा विनि व र्त्तते पुनः ॥ ६७॥ इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेय वज्रसंवादे विश्वरूपाख्यानं नामैकपञ्चाशदुत्तरेदिशततमोऽध्यायः॥३५१॥नरनारा यणावूचतुः ॥ आदावेव सरःसरित्प्रस्रवणसमीपगृहोपवनपर्वतमस्तकानामन्यतमे हृद्ये देशे सुसमे मनोहरं हस्तमात्रं मण्डलकमुपकल्पयेत् ॥