विष्णुधर्मोत्तर पुराण (तृतीय खण्ड - चित्रसूत्र, वास्तु, शिल्प व प्रतिमा लक्षण)
Vishnudharmottara Purana Hindi
महर्षि वेदव्यास (सम्पादक: डॉ. प्रियबाला शाह) द्वारा
स्रोत: Sri Vishnu Dharmottara Mahapuranam 1000p Classic Edition (उद्गम)
पृष्ठ 990, कुल 1001 में से
संदर्भ में पढ़ेंनेन सततं मधुसूदनम् ॥ १ ॥ पूजयामास धर्मात्मा तद्गतेनान्तरात्मना ॥ ततः पुंसवने भगवान् नारदस्य महात्मनः ॥ २ ॥ प्रत्यक्षतः पुनश्चैतं नारदं वाक्यमब्रवीत् ॥ गच्छ नारद भद्रं ते लोकांश्चर यथेप्सितान् ॥ ३॥ दर्शनं ते वरं दास्यामि कालेकाले यथेप्सिते ॥ अनुग्रहमिदं प्राप्य देशेष्वात्य- रुषोत्तमात् ॥ ४॥ चचार नारदो लोकान्त्रिंत्यं संत्यज्यनह्वरिम् ॥ विश्वरूपमिदं दृष्टं नारदेन महात्मना ॥ ५ ॥ प्रह्लादेन पुनस्तेन नरकेसरिरूपिणः ॥ तथा चामृतकार्दद्दे तेनैव च महात्मना ॥ ६ ॥ ब्रह्मणा च पुरा दृष्टं त्रैलोक्याक्रमणे पुनः ॥ पश्चिमे सागरे दृष्टं दशग्रीवेण रक्षसा ॥ ७ ॥ कृष्णावतारे दूत्येन गतस्य मधुविद्विषः ॥ धृतराष्ट्रसभामध्ये ऋषिभिश्च परीक्षितः ॥ ८ ॥ महाभारतसंग्रामे दृष्टवानर्जुनस्तथा ॥ बन्धुनाशभयोद्विग्नो यत्र तेन प्रबोधितः ॥ ९॥ निवृत्ते भारते युद्धे गच्छन्तो द्वारकां पुनः ॥ मार्गागतेन तद्दृष्टमुत्तंकेन महात्मना ॥ १० ॥ त्रैलोक्यानाथो गोविन्दः सततं भक्तवत्सलः ॥ तस्य कर्माणि यो नित्यं पुरुषः परिकीर्तयेत् ॥ ११ ॥ शृणुयाद्वा महीपाल शुचिस्तद्गतमानसः ॥ सर्वपापविनिर्मुक्तः स याति परमां गतिम् ॥ १२ ॥ एवं स राजन्द्धिजवर्यमुख्यः संभाप्तवान्देववरात्प्रसादम् ॥ भक्तिप्रकर्षेणचप्रसादात्तस्माद्विकामाम्नुरुषा लभेते ॥ १३ ॥ इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे नारदप्रसादो नाम त्रिपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥ ३५३ ॥
॥ वज्र उवाच ॥ ॥ माहात्म्यं देवदेवस्य विष्णोरमिततेजसः ॥ तन्तिं विमृते तस्मान्माहात्म्यमपरं वद ॥ १ ॥ तस्यैव देवदेवस्य विष्णोरमिततेजसः ॥ रक्षांयुक्तं पवित्रं च लोकैश्चाप्यश्रुतम्भवम् ॥ २ ॥ मार्कण्डेय उवाच ॥ ॥ एकान्तभावोपगतः कश्चिदासी द्विजोत्तमः ॥ ३ ॥ सात्वतो गौतमश्रेष्ठो विष्वक्सेन इति श्रुतः ॥ पञ्चकालविधानज्ञः पाञ्चरात्रविधानवित् ॥ ४ ॥ सततं पूजयामास देवदेवं जनार्दनम् ॥ कृष्णायतनपूजांच स बभ्राम वसुन्धराम् ॥ ५ ॥ आसासाद कदाचित्तु पर्वतं गह्वरं महत् ॥ यत्र माहेश्वरः सर्वो जनो यद्रुजो बहु ॥ ६ ॥ स तत्र निर्झरे स्नात्वा पूजयामास केशवम् ॥ वेद्यां प्रकल्पितायां तु भोगैः सन्निहितैः प्रसूनैः ॥ ७ ॥ तस्मात्तु गह्वरात्कश्चिद्विनिष्क्रम्य यदृच्छया ॥ निबद्धखड्गैर्बह्वभिः पुरुषैश्चापपाणिभिः ॥ ८ ॥ सहितस्ते ददर्शार्थं पूजयन्तं जनार्दनम् ॥ तस्य गत्वा समीपे तु आप्तस्वामिकुमारकः ॥ ९ ॥ तमुवाच त्वमम्यर्थ्य देवकर्म कुरुष्व मे ॥ शिरोरुग्गदितास्तातं स्नातुं शक्नोमि नाद्य वै ॥ १०॥ देवकर्मयशश्चिन्तिं तात पूजय शङ्करम् ॥ देवनायतनं गत्वा यत्र तात प्रतिष्ठितम् ॥ ११ ॥ लिङ्गमस्ति सुरेशस्य महादेवस्य निर्मितम् ॥ एतदुक्तं प्रत्युवाच वयमर्कांचिनः श्रुताः ॥ १२ ॥ चतुरात्मा हरिः पूज्यः प्रादुर्भावगतोऽथ वा ॥ पूजयाम्यथ नैवान्यं तस्मात्तं गच्छ मा चिरम् ॥ १३ ॥ एवमुक्तः कुमारस्तु खङ्गमाकृष्य सत्त्वरम् ॥ तमुवाच वदा विप्रं त्वां वधिष्ये न संशयः ॥ १४ ॥ यदि लिङ्गार्चनं गत्वा न