व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)
Vyakarana Mahabhashya Paspashahnika of Maharshi Patanjali with Commentary
महर्षि पतञ्जलि (टीकाकार: डॉ. रमण कुमार शर्मा) द्वारा
पृष्ठ 42, कुल 96 में से
संदर्भ में पढ़ें२८ महाभाष्यम् उच्चारण स्थानों, विभिन्न ग्राभ्यन्तर तथा बाह्य प्रयत्नों का उपदेश किया जाता था । बाल्यावस्था होने के कारण वे इस प्रकार के (प्रयोजनादि विषयक) प्रश्न पूछने में असमर्थ होते थे, अतः प्रयोजनों का व्याख्यान भी नहीं किया जाता था। व्याकरणाध्ययन पूर्ण हो जाने के अनन्तर उन्हें वेदाध्ययन करवाया जाता था । परन्तु ग्राज स्थिति विपरीत है। अब उपनयन के अनन्तर ही छात्र वेदाध्ययन प्रारम्भ कर देता है। जब तक वेदाध्ययन समाप्त हो, छात्र में पर्याप्त प्रौढ़ता ग्रा जाती है। वेद का अध्ययन कर वह झट से कहने लगता है कि लौकिक व्यवहार से उसने लौकिक भाषा का ज्ञान प्राप्त कर लिया है तथा वेद से वैदिक शब्दों को सीख लिया है, व्याकरण का प्रयोजन भी तो यही है। अतः अब पृथक् रूप से व्याकरण सीखने का कोई लाभ नहीं । इस प्रकार के विप्रतिपन्न बुद्धि वाले अध्येताओं के लिए भाष्यकार ने इन प्रयोजनों का अन्वाख्यान किया है। यहाँ “त्वरिताः” के सम्बन्ध में कैयट की टिप्पणी “विवाहादौ (त्वरिताः)” भाष्यकाराभिमत है अथवा नहीं, यह सन्दिग्ध है । मूलम् — उक्तः शब्दः । स्वरूपमप्युक्तम् । प्रयोजनान्यप्युक्तानि । शब्दानु- शासनमिदानीं कर्त्तव्यम् । तत्कथं कर्त्तव्यम् । किं शब्दोपदेशः कर्तव्यः, आहोस्विद- पशब्दोपदेशः, आहोस्विदुभयोपदेश इति । अन्यतरोपदेशेन कृतं स्यात् । तद्यथा भक्ष्यनियमेनाभक्ष्यप्रतिषेधो गम्यते । ‘पञ्च पञ्चनखा भक्ष्याः’ इत्युक्ते गम्यत एतद् — अतोऽन्येऽभक्ष्या इति । अभक्ष्य- प्रतिषेधेन वा भक्ष्यनियमः । तद्यथा ‘अभक्ष्यो ग्राम्यकुक्कुटः अभक्ष्यो ग्राम्यसूकरः’ इत्युक्ते गम्यत एतद् — आरण्यो भक्ष्य इति । एवमिहापि तावच्छब्दोपदेशः क्रियते, गौरित्येतस्मिन्नुपदिष्टे गम्यत एतद् — गाव्यादयोऽपशब्दा इति । अथाप्यपशब्दो- पदेशः क्रियते, गाव्यादिषूपदिष्टेषु गम्यत एतद् — गौरित्येष शब्द इति । किं पुनरत्र ज्यायः ? लघुत्वाच्छब्दोपदेशः । लघीयाञ्छब्दोपदेशः । गरीयानपशब्दोपदेशः । एकैकस्य शब्दस्य बहवोऽपभ्रंशा । तद्यथा गौरित्यस्य शब्दस्य गावीगोणीगोता- गोपोतलिकेत्येवमादयोऽपभ्रंशाः । इष्टान्वाख्यानं खल्वपि भवति । प्रदीपः — उभयोपदेश इति । हेयोपादेयोपदेशे स्पष्टा प्रतिपत्तिर्भवतीत्युभयो- पदेश उद्भावितः । यद्यपि प्रतिपत्तिः स्पष्टा, गौरवं तु भवतीत्याह अन्यतरेति । शब्दापशब्दयोरित्यर्थः । अन्यतरान्यतमशब्दावव्युत्पन्नौ स्वभावाद् द्विबहुविषये निर्धारणे वर्तेते । पञ्चेति । अर्थित्वादभक्षणं प्राप्तं पञ्चसु पञ्चनखेषु नियम्यमानं सामर्थ्यादन्येभ्यो निवर्तते । न त्वयं विधिः, अप्राप्तेरभावात् । किं पुनरिति । उभयोपदेशाद् गुरोर्द्वावपि प्रशस्यौ तयोः को ज्यायानित्यर्थः । इष्टेति । साधुशब्दप्रयोगाद्धर्मावाप्तेरित्यर्थः । अथवा उपादेयोपदेशात् साक्षात्प्रतिपत्ति- र्भवतीति भावः ।