व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)

व्याकरण महाभाष्य: पस्पशाह्निक (महर्षि पतञ्जलि - शब्द-साधुत्व एवं व्याकरण प्रयोजन सटीक)
Vyakarana Mahabhashya Paspashahnika of Maharshi Patanjali with Commentary
महर्षि पतञ्जलि (टीकाकार: डॉ. रमण कुमार शर्मा) द्वारा
DevanagariHindipublished96 पृष्ठ
पृष्ठ 90, कुल 96 में से
संदर्भ में पढ़ेंपृष्ठ 90
७६ महाभाष्यम् पढ़ा है, अतः यहाँ दोषों की शून्यता प्रतीत होती है। परन्तु इससे अन्य गार्ग्य आदि दोषों की निवृत्ति नहीं हो सकेगी। नागेश कैयट के इस विचार से सहमत नहीं। उनके अनुसार गर्गादि पाठ का प्रयोजन यञ् आदि प्रत्ययों से युक्त होकर गार्ग्य आदि शब्दों का साधुत्व प्रतिपादन करना है, कलादि दोषों की निवृत्ति इनसे नहीं हो सकती। मूलम्—अस्त्यन्यद् गर्गादिबिदादिपाठे प्रयोजनम् । किम् ? समुदायानां साधुत्वं यथा स्यादिति । एवं तर्ह्यष्टादशधा भिन्नां निवृत्तकलादिकामवर्णस्य प्रत्यापत्तिं वक्ष्यामि । सा तर्हि वक्तव्या ।
- लिङ्गार्था तु प्रत्यापत्तिः— लिङ्गार्था सा तर्हि भवति । तत्तर्हि वक्तव्यम् । यद्यप्येतदुच्यते, अथवैतर्हि अनेकमनुबन्धशतं नोच्चार्यमित्संज्ञा च न वक्तव्या, लोपश्च न वक्तव्यः। यदनुबन्धैः क्रियते तत्कलादिभिः करिष्यते । सिध्यत्येवम्, अपाणिनीयं तु भवति । प्रदीपः —अस्त्यन्यदिति । गर्ग इत्यादिनेव सन्निवेशेन गर्गादीनां साधुत्वं यथा स्याद् गार्ग्य इत्यादीनां मा भूत् । ततश्च तद्गतानामेवाकारादीनां दोषनिवृत्तिः कृता स्यात्, न तु समुदायान्तरस्थानाम् । यद्यपि प्रत्ययविध्यर्थो गर्गादीनां पाठस्तथापि प्रसङ्गात्समुदायसाधुत्वार्थोऽपि भवति । निवृत्तकलादिकामिति । अकारस्य संवृत- त्वात्निवृत्तसंवृतत्वादिकामिति नोक्तम् । अकारस्य निदर्शनार्थत्वात्सर्ववर्णानां शास्त्रान्ते प्रत्यापत्तिरित्यर्थः । यदनुबन्धैरिति । यथा स्वरितत्वमधिकारार्थमेवमात्मने- पदार्थं कलादिकं प्रतिज्ञाय कलादात्मनेपदमित्यादि करिष्यते न त्वनुदात्तङित इत्यादि । ननु चानुबन्धाभावे कथमणादिकाः संज्ञा उपपद्यन्ते आदिरन्त्येनेत्यत्राविः कलैः सहेत्युक्त्वा अ उ इत्यादिकाः संज्ञा करिष्यन्ते । स्वरसन्धिश्चासन्देहाय न करिष्यत इत्यदोषः । अनुवाद—गर्गादि बिदादि पाठ का (तो) अन्य ही प्रयोजन है । क्या ? जिससे (उन-उन) समुदायों का साधुत्व ज्ञान हो । तो फिर कलादि दोष रहित, अठारह प्रकार से भिन्न अवर्ण आदि की (शास्त्र के अन्त में) प्रत्यापत्ति की जायेगी । वह फिर कहनी होगी (अर्थात् गौरव दोष हो जायेगा) । “लिङ्ग के लिए वह प्रत्यापत्ति”—