भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 101, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 101

आचाराध्यायः ४५ शरीरचिन्तामावश्यकादिकां १ 'दिवासन्ध्यास्तु कर्णस्थब्रह्मसूत्र उदङ्मुखः' इत्याद्युक्तविधिना निर्वर्त्य 'गन्धलेपक्षयकरम्' (आचार. २।१७) इत्यादिनाक्तेिन विधिना कृतशौचविधिद्विजः दन्तधावनपूर्वकं प्रातःसन्ध्यामुपासीत । दन्तधावन- विधिश्च—'कण्टकिक्षीरवृक्षोत्थं द्वादशाङ्गुलसम्मितम् । कनिष्ठिकाग्रवत्स्थूलं पर्वाधं- कृतकूर्चकम् । दन्तधावनमुद्दिष्टं जिह्वोल्लेखनिका तथा ॥' (आचार. १६) इति । अत्र 'वृक्षोत्थम्' इत्यनेन तृणलोष्टाङ्कुश्यादिनिषेधः । पलाशश्वत्थादिनिषेधश्च स्मृत्यन्तरोक्तो द्रष्टव्यः । दन्तधावनमन्त्रश्च—'आयुर्बलं यशो वर्चः प्रजाः पशु- वसूनि च । ब्रह्म प्रज्ञां च मेधां च त्वं नो धेहि २ वनस्पते ॥' इति । ब्रह्मचारि- प्रकरणोक्तस्यापि सन्ध्यावन्दनस्य पुनर्वचनं दन्तधावनपूर्वकत्वप्रतिपादनार्थम्, 'दन्तधावननृत्यगीतादि ब्रह्मचारी वर्जयेत्' इति तन्निषेधात् ॥ ९८ ॥ भाषा—द्विज मलमूत्रोत्सर्ग से निवृत्त होकर, शौच करके एवं दातौन करने के बाद प्रातःसन्ध्या की उपासना करे ॥ ९८ ॥ हुत्वाग्नीन्सूर्यदैवत्याञ्जपेन्मन्त्रान्समाहितः । वेदार्थानधिगच्छेच्च शास्त्राणि विविधानि च ॥ ९९ ॥ प्रातःसन्ध्यावन्दनानन्तरं अग्नीनाहवनीयादीन् यथोक्तेन विधिना हुत्वा औपासनाग्निं वा । तदनन्तरं सूर्यदैवत्यान् 'उदुत्यं जातवेदसम्' (ऋ. १।४।७।८) इत्यादीन्मन्त्रान्जपेत् । समाहितोऽविक्षिप्तचित्तः । तदनन्तरं वेदार्थान्निरुक्तव्या- करणादिश्रवणेनाधिगच्छेज्जानीयात् । चकारादधीतं चाभ्यसेत् । विविधानि च शास्त्राणि मीमांसाप्रभृतीनि धर्मार्थारोग्यप्रतिपादकान्यधिगच्छेत् ॥ ९९ ॥ भाषा—इसके अनन्तर (आहवनीय आदि अग्नियों में) अग्निहोत्र कर्म करके ध्यान लगाकर सूर्य देवता के ( 'उदुत्यं जातवेदसम्' आदि) मन्त्र का जप करे । इसके बाद वेद के अर्थ को तथा विविध शास्त्रों का ज्ञान प्राप्त करे ॥ ९९ ॥ उपेयादीश्वरं चैव योगक्षेमार्थसिद्धये । स्नात्वा देवान्पितूंश्चैव तर्पयेदर्चयेत्तथा ॥ १०० ॥ तदनन्तरमीश्वरमभिषेकादिगुणयुक्तमन्यं वा श्रीमन्तमकुत्सितं योगक्षेमार्थ- सिद्धये । अलब्धलाभो योगः, लब्धपरिपालनं क्षेमः, ४ तदर्थमुपेयादुपासीत । 'उपेयात्' इत्यनेन सेवां प्रतिषेधति । 'वेतन'ग्रहणेनाज्ञाकरणं सेवा, तस्याः १. आवश्यकां दिवा । २. नो देहि । ३. करणादींश्च श्रवणेनाधि । ४. क्षेमस्तदर्थं ।