याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 108, कुल 782 में से
संदर्भ में पढ़ेंपूजनीयाः । एतैर्विद्याकर्मबन्धुवित्तैः प्रभूतैः प्रवृद्धैः समस्तैर्व्यस्तैर्वा युक्तः शूद्रोऽपि वार्धके अशीतेरूर्ध्वं मानमर्हति, ‘शूद्रोऽप्यशीतिको वरः’ (६।७) इति गौतमस्मरणात् ॥ ११६ ॥ भाषा—विद्या, कर्म, आयु, बन्धुओं और धन से युक्त मनुष्य क्रमानुसार माननीय होते हैं । इन सबसे (या किसी एक से) बड़ा होने पर वृद्धावस्था में शूद्र भी आदरणीय होता है ॥ ११६ ॥ वृद्धभारिनृपस्नातस्त्रीरोगिवरचक्रिणाम् । पन्था देयो नृपस्तेषां मान्यः १स्नातश्च भूपतेः ॥ ११७ ॥ वृद्धः पक्वकेशः प्रसिद्धः, भारी भाराक्रान्तः, नृपो २भूपतिः न क्षत्रियमात्रम्, स्नातो विद्याव्रतोभयस्नातकः, स्त्री प्रसिद्धा, रोगी व्याधितः, वरो विवाहोद्यतः, चक्री शाकटिकः । चकारान्मत्तोन्मत्तादीनां ग्रहणम्, ‘बालवृद्धमत्तोन्मत्तोपहत- देहभाराक्रान्तस्त्रीस्नातकप्रव्रजितेभ्यः’ इति शङ्खस्मरणात् । एभ्यः पन्था देयः। एतेष्वैभिमुख्यायातेषु स्वयं पथोऽपक्रामेत् । वृद्धादीनां राज्ञा सह पथि समवाये राजा मान्य इति तस्मै पन्था देयः । भूपतेरपि स्नातको मान्यः, ‘स्नातक’ग्रहणं स्नातकमात्रप्राप्त्यर्थं, न ब्राह्मणाभिप्रायेण; तस्य सदैव गुरुत्वात् । तथाह शङ्खः- ‘अथ ब्राह्मणायाग्रे पन्था देयो राज्ञ इत्येके । तच्चानिष्ठं गुरुर्ज्येष्ठश्च ब्राह्मणो राजा- नमतिशेते तस्मै पन्था’ इति । वृद्धादीनां परस्परं पथि समवाये वृद्धेतराद्यपेक्षया विद्यादिभिर्वा विशेषो द्रष्टव्यः ॥ ११७ ॥ भाषा—वृद्ध, बोझा ढोने वाले, राजा, स्नातक (ब्रह्मचारी), स्त्री, रोगी, वर और चक्री (सुराकार) के लिये मार्ग छोड़ देना चाहिए । इन सब में राजा सर्वाधिक मान्य होता है और स्नातक राजा के लिये भी पूज्य होता है ॥ ११७ ॥ इज्याध्ययनदानानि वैश्यस्य क्षत्रियस्य च । प्रतिग्रहोऽधिको विप्रे याजनाध्यापने तथा ॥ ११८ ॥ वैश्यस्य क्षत्रियस्य च; चकाराद् ब्राह्मणस्य द्विजानुलोमानां च, यागाध्ययन- दानानि साधारणानि कर्माणि, ब्राह्मणस्याधिकानि प्रतिग्रहयाजनाध्यापनानि । तथेति । स्मृत्यन्तरोक्तवृत्त्युपसंग्रहः । तथाह गौतमः (१०।५-६)— ‘कृषिवाणिज्ये वा स्वयं कृते’ ‘कुसीदं च’ इति । अध्यापनं तु क्षत्रियवैश्ययोर्ब्राह्मण- प्रेरितयोर्भवति, न स्वेच्छया; ‘आपत्काले ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः,
१. स्नातकस्तु । २. नृपो राजा न । ३. ष्वाभिमुख्यागतेषु ४. याजनप्रतिग्रहाः ।