याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 109, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ५३ अनुगमनं शुश्रूषा, समासे ब्राह्मणो गुरुः' (७।१, २।३) इति गौतमस्मरणात् । एतान्यनापदि ब्राह्मणस्य षट् कर्माणि । तत्र त्रीणीज्यादीनि धर्मार्थानि, त्रीणि प्रतिग्रहादीनि वृत्त्यर्थानि, 'षण्णां तु कर्मणामस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः ॥' इति (१०।१६) मनुस्मरणात् । अत इज्यादीन्यवश्यं कर्तव्यानि न प्रतिग्रहादीनि, 'द्विजातीनामध्ययनमिज्या दानं, 'ब्राह्मणस्याधिकाः प्रवचनयाजनप्रतिग्रहाः', 'पूर्वेषु नियमः' (१०।१-३) इति गौतमस्मरणात् ॥ ११८ ॥ भाषा—यज्ञ करना, (वेदादि का) अध्ययन और दान—ये कर्म क्षत्रिय और वैश्य को करने होते हैं । ब्राह्मण के लिये दान लेना, यज्ञ कराना और अध्यापन ये कर्म (क्षत्रिय और वैश्य से) अधिक होते हैं ॥ ११८ ॥ प्रधानं क्षत्रिये कर्म प्रजानां परिपालनम् । कुसीदकृषिवाणिज्यपाशुपाल्यं विशः स्मृतम् ॥ ११९ ॥ क्षत्रियस्य प्रजापालनं प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । वैश्यस्य कुसीद- कृषिवाणिज्यपशुपालनानि वृत्त्यर्थानि कर्माणि । कुसीदं वृद्ध्यर्थं द्रव्यप्रयोगः, लाभार्थं क्रयविक्रयौ वाणिज्यम् । शेषं प्रसिद्धम्; 'शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्- पशुकृषी विशः। आजीवनाथं धर्मस्तु दानमध्ययनं यजिः ॥' इति (१०।७९) मनुस्मरणात् ॥ ११९ ॥ भाषा—प्रजा का पालन करना क्षत्रिय का प्रधान कर्म है । वैश्य के लिये ब्याज लेना, कृषि, वाणिज्य और पशु-पालन (वृत्त्यर्थक) कर्म बताए गये हैं ॥ ११९ ॥ शूद्रस्य द्विजशुश्रूषा तयाऽजीवन्वणिग्भवेत् । शिल्पैर्वा विविधैर्जीवेद् द्विजातिहितंमाचरन् ॥ १२० ॥ शूद्रस्य द्विजशुश्रूषा प्रधानं कर्म धर्मार्थं वृत्त्यर्थं च । तत्र ब्राह्मणशुश्रूषा परमो धर्मः, 'विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते' (१०।१२३) इति मनुस्मरणात् । यदा पुनर्द्विजशुश्रूषया जीवितुं न शक्नोति तदा वणिग्वृत्त्या जीवेत् । नानाविधैर्वा शिल्पैर्द्विजातीनां हितं कुर्वन् । यादृशैः कर्मभिर्द्विजाति- शुश्रूषायामयोग्यो न भवति तादृशानि कर्माणि कुर्वन्नित्यर्थः । तानि च देव- लोकोक्तानि—शूद्रधर्मो द्विजातिशुश्रूषा पापवर्जनं कलत्रादिपोषणकर्षणपशुपालनभारो- द्वहनपण्यव्यवहारचित्रकर्मनृत्यगीतवेणुवीणामुरजमृदङ्गवादनादीनि' ॥ १२० ॥ १. हितमाचरेत् ।