याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 111, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ५५ वयो बाल्ययौवनादि, बुद्धिनैसर्गिकी लौकिकवैदिकव्यवहारेषु, १ अर्थो वित्तं गृहक्षेत्रादि, वाक् २ कथनम्, वेषो वस्त्रमाल्यादिविन्यासः, श्रुतं पुरुषार्थशास्त्रश्रवणम्, अभिजनः कुलम्, कर्म वृत्त्यर्थं प्रतिग्रहादि, एतेषां वयःप्रभृतीनां सदृशीमुचितां वृत्तिमाचरणं आचरेत्स्वीकुर्यात् । यथा वृद्धः स्वोचितां न यौवनोचिताम् । एवं बुद्ध्यादिष्वपि योज्यम् । अजिह्रामनक्राम्, अशठाममत्सराम् ॥ १२३ ॥ भाषा—आयु, बुद्धि, धन, वाणी, वेष, शास्त्रज्ञान एवं कर्म के उपयुक्त ऐसी जीवन-वृत्ति स्वीकार करनी चाहिए, जो टेढ़ी और मत्सर-युक्त न होवे ॥ १२३ ॥ एवं स्मार्तानि कर्माण्यनुक्रम्येदानीं श्रौतानि कर्माण्यनुक्रामति— त्रैवार्षिकाधिकान्नो यः स हि सोमं पिबेद् द्विजः । प्राक्सौमिकीः क्रियाः कुर्याद्यस्यान्नं वार्षिकं भवेत् ॥ १२४ ॥ त्रिवर्षजीवनपर्याप्तं त्रैवार्षिकं अधिकं वा अन्नं यस्य स एव सोमपानं कुर्यान्नातोऽल्पधनः, (मनु. ११।८)—'अतः स्वल्पपीयसि द्रव्ये यः सोमं पिबति एतच्च काम्याभिप्रायेण नित्यस्य चावश्यककर्त्तव्यत्वाच्च नियमः । यस्य वर्षजीवनपर्याप्तमन्नं भवति स प्राक्सौमिकीः सोमात्प्राक् प्राक्सोमं, प्राक्सोमंभवः प्राक्सौमिक्यः । कास्ताः ? अग्निहोत्रदर्शपूर्णमासाग्रयणपशुचातुर्मास्यानि काम्यानि कर्माणि तद्विकारांश्च । ताः क्रियाः कुर्यात् ॥ १२४ ॥ भाषा—तीन वर्ष तक खाने से अधिक अन्न रखने वाला द्विज सोमपान करे । जिसके यहाँ केवल एक वर्ष के लिये अन्न हो वह (अग्निहोत्र, दर्शपूर्णमास, आग्रयण, पशु चातुर्मास्य आदि) सोम यज्ञ से पहले की जाने वाली क्रियाएँ करे ॥ १२४ ॥ एवं काम्यानि श्रौतानि कर्माण्यभिधायेदानीं नित्यान्याह— प्रतिसंवत्सरं सोमः पशुः प्रत्ययनं तथा । कर्तव्याग्रयणेष्टिश्च चातुर्मास्यानि चैव हि ॥ १२५ ॥ संवत्सरे संवत्सरे सोमयागः कार्यः । पशुः प्रत्ययनं अयने अयने दक्षिणोत्तर- संज्ञिते निरूढः पशुयागः कार्यः । तथा प्रतिसंवत्सरं वा; 'पशुना संवत्सरे संवत्सरे यजेत, षट्सु षट्सु वा मासेष्वित्येके' इति बौधायनस्मरणात् । आग्रयणेष्टिश्च सस्योत्पत्तौ कर्तव्या । चातुर्मास्यानि च प्रतिसंवत्सरं कर्तव्यानि ॥ १२५ ॥ १. व्यवहारेषु ज्ञानं । २. बचनम् । ३. सोमयागं । ४. पूर्णमासपशु । पूर्णमासचातुर्मास्यानि । ५. र्मास्यानि कर्माणि ।