याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 112, कुल 782 में से
संदर्भ में पढ़ें५६ याज्ञवल्क्यस्मृतिः भाषा—प्रतिवर्ष सोमयज्ञ करे, अयन-अयन ( दक्षिणायन और उत्तरायण ) में निरूढपशुयाग करे । ( नये अन्न की उत्पत्ति पर ) आग्रयणेष्टि करे और चातुर्मास्ययज्ञ प्रतिवर्ष करना चाहिए ॥ १२५ ॥ एषामसंभवे कुर्यादिष्टिं वैश्वानरीं द्विजः। हीनकल्पं न कुर्वीत सति द्रव्ये फलप्रदम् ॥ १२६ ॥ एषां सोमप्रभृतीनां पूर्वोक्तानां नित्यानां कथञ्चिदसम्भवे तत्काले वैश्वानरीमिष्टिं कुर्यात् । किञ्च योऽयं हीनकल्प उक्तः, सति द्रव्येऽसौ न कर्तव्यः । यच्च फलप्रदं काम्यं तद्धीनकल्पं न कुर्वीत न कर्तव्यमिति ॥ १२६ ॥ भाषा—यदि ये ( सोमयाग आदि ) संभव न हो सकें तो द्विज को वैश्वानरी इष्टि करनी चाहिए । धन रहने पर यह हीनकल्प नहीं करना चाहिए तथा काम्य हीनकल्प तो करना ही नहीं चाहिए ॥ १२६ ॥ चाण्डालो जायते यज्ञकरणाच्छूद्रभिक्षितात् । यज्ञार्थं लब्धमददद् भासः काकोऽपि वा भवेत् ॥ १२७ ॥ यज्ञार्थं शूद्रधनयाचनेन स जन्मान्तरे चाण्डालो जायते । यः पुनर्यज्ञार्थं याचितं न^१ सर्वं प्रयच्छति न त्यजति, स भासः काकोऽपि वा वर्षशतं भवेत् । यथाह मनुः ( ११।२५ )—'यज्ञार्थमर्थं भिक्षित्वा यः सर्वं न प्रयच्छति । स याति भासतां विप्रः काकतां वा शतं समाः ॥' इति । भासः शकुन्तः । काकः प्रसिद्धः ॥ १२७ ॥ भाषा—यज्ञ के लिए शूद्र से धन माँगने पर ( द्विज ) दूसरे जन्म में चण्डाल होकर जन्म लेता है । यज्ञ के लिये प्राप्त सम्पूर्ण धन को न दे देने वाला भास ( पक्षी ) या कौआ होता है ॥ १२७ ॥ कुशूलकुम्भीधान्यो वा त्र्याहिकोऽश्वस्तनोऽपि वा । कुशूलं कोष्ठकं, कुम्भी उष्ट्रिका, कुशूलं च कुम्भी च कुशूलकुम्भ्यौ, ताभ्यां परिमितं धान्यं यस्य स तथोक्तः कुशूलधान्यः स्यात्, कुम्भीधान्यो वा । तत्र स्वकुटुम्बपोषणे द्वादशाहमात्रपर्याप्तं धान्यं यस्यास्ति स कुशूलधान्यः । कुम्भीधान्यस्तु स्वकुटुम्बपोषणे षडहमात्रपर्याप्तधान्यः । त्र्यहः पर्याप्तं धान्यम- स्यास्तीति त्र्याहिकः । श्वोभवं धान्यादिकं श्वस्तनम्, न विद्यते श्वस्तनं यस्य सोऽश्वस्तनः ॥ कुशूलधान्यादिसञ्चयोपायमाह— जीवेद्वापि शिलोञ्छेन श्रेयानेषां परः परः ॥ १२८ ॥ १. न परित्यजति ।