याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 113, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ५७ १शाल्यादिनिपतितपरित्यक्तवल्लरीग्रहणं शिलं, एकैकस्य परित्यक्तस्य कणस्योपादानमुञ्छः, शिलं चोञ्छश्च शिलोञ्छम्, तेन शिलेनोञ्छेन वा। कुसूलधान्यादिश्चतुर्विधो गृहस्थो जीवेत्। एषां कुसूलधान्यादीनां २ब्राह्मणानां गृहस्थानां चतुर्णां परः परः पश्चात्पश्चात्पठितः ३श्रेयान् प्रशस्यतमः। एतच्च यद्यपि द्विजः ४प्रकृतस्तथापि ब्राह्मणस्यैव भवितुमर्हति, विद्योपशमादियोगात्। तथा च मनुना (४।२)-'अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः। या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥' इति विप्रमेव ५प्रस्तुत्य मनुः (४।७)- कुसूलधान्यको वा स्यात्कुम्भीधान्यक एव वा' इत्याद्यभिहितम्। एतच्चातिसंचयं६ यायावरं प्रत्युच्यते, न विप्रमात्रामिप्रायेण। तथा सति-'त्रैवार्षिकादिकास्तो यः स हि सोमं पिबेद् द्विजः' (आ. १२६) इत्यनेन विरोधः। तथा च गृहस्थानां द्वैविध्यं तत्र तत्रोक्तम्। यथाह देवलः-'द्विविधो गृहस्थो यायावरः शालीनश्च। तयोर्यायावरः प्रवरो याजनाध्यापनप्रतिग्रहरिक्थसञ्चयवर्जनात्। षट्कर्माधिष्ठितः प्रेष्यचतुष्पदगृहग्रामधनधान्ययुक्तो लोकानुवर्ती शालीनः' इति। शालीनोऽपि चतुर्विधः-याजनाध्यापनप्रतिग्रहकृषिवाणिज्यपशुपाल्यैः षड्भिर्जी- वत्येकः, याजनादिभिस्त्रिभिरन्यः, याजनाध्यापनाभ्यामपरः, चतुर्थस्त्वध्यापनेनैव। तथाह मनुः (४।९)-'षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते। द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥' इति। अत्र च 'प्रतिग्रहोऽधिको विप्रे' (आ. ११८) इत्यादिना शालीनस्य वृत्तयो दर्शिताः। यायावरस्य 'जीवेद्वापि शिलोञ्छेन' इति ॥ १२८ ॥ भाषा-कोठिली भर (बारह दिन के खर्चे भर) अन्न वाले, घड़े भर (छः दिन के खर्चे भर) अन्न वाले, तीन दिन के खर्चे भर अन्न वाले, दिन भर के भोजन योग्य अन्न वाले और खेतों में गिरे हुए अन्न को बीन कर जीवन निर्वाह करने वाले व्यक्तियों में पहले वाले से बाद वाले उत्तरोत्तर श्रेष्ठ होते हैं ॥ इति गृहस्थधर्मप्रकरणम्। अथ स्नातकधर्मप्रकरणम् एवं श्रौत-स्मार्तानि कर्माण्यभिधायेदानीं गृहस्थस्य स्नानादारभ्य ब्राह्मण- स्यावश्यकर्तव्यानि विधि-प्रतिषेधात्मकानि मानससङ्कल्परूपाणि स्नातक- व्रतान्याह- न स्वाध्यायविरोध्यर्थमीहेत न यतस्ततः। न विरुद्धप्रसङ्गेन सन्तोषी च भवेत्सदा ॥ १२९ ॥ १. शाल्यादेर्निपतित । २. ब्राह्मणानां चतुर्णां । ३. श्रेयानुत्कृष्टतमः । ४. प्रकृतः प्रकरणप्राप्तः प्राकृतः । ५. पुरस्कृत्य । ६. नातिसम्पन्नसंयतं ।