याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 114, कुल 782 में से
संदर्भ में पढ़ें५८ याज्ञवल्क्यस्मृतिः ब्राह्मणस्य प्रतिग्रहादयोऽर्थप्राप्त्युपाया दर्शिताः तत्र विशेष उच्यते— स्वाध्यायविरोधिमर्थमप्रतिषिद्धमपि नेहेत नान्विच्छेत् । न यतस्ततः न यतः कुतश्चिदविदिताचाराच्च । विरुद्धप्रसङ्गेन विरुद्धमयाज्ययाजनादिप्रसङ्गो नृत्य- गीतादिः । विरुद्धं च प्रसङ्गश्च विरुद्धप्रसङ्गं तेन । नार्थमीहेतेति सम्बद्ध्यते । नञ्- आवृत्तिः प्रत्येकं पर्युदासार्था । सर्वत्राप्यस्मिन्स्नातकप्रकरणे नञ्शब्दः प्रत्येकं पर्युदासार्थ एव । किञ्चिदर्थलाभेऽपि सन्तोषी परितुष्टो भवेत् । चकारात्संयतश्च. ‘संतोषं परमास्थाय सुखार्थी संयतो भवेत्’ ( ४।१३ ) इति मनुस्मरणात् ॥ भाषा—अपने स्वाध्याय के विरोधियों से धन अर्जित करने की इच्छा न करे, इधर-उधर अविचारित स्थान से या ( अपने कर्म के) विरुद्ध कार्य ( जैसे नृत्य-गीत आदि ) द्वारा धन कमाने की अभिलाषा न रखे । सदैव सन्तोष रखे ॥ १२९ ॥ कुतस्तर्हि धनमन्विच्छेदित आह— राजान्तेवासियाज्येभ्यः सीदन्निच्छेद्धनं क्षुधा । दम्भिहैतुकपाखण्डिवकवृत्तींश्च वर्जयेत् ॥ १३० ॥ क्षुधा सीदन् पीड्यमानः स्नातकः राज्ञो विदितवृत्तान्तात्, अन्तेवासिनो वक्ष्यमाणलक्षणात्, याज्यात् याजनार्हाच्च, धनमाददीत । ‘क्षुधा सीदन्’ इत्यनेन विभागादिप्राप्तकुटुम्बपोषणपर्याप्तधनो न १कुतश्चिदर्थमन्विच्छेदिति गम्यते । किञ्च दम्भिहैतुकादीन् सर्वकार्येषु वर्जयेत् । चकाराद्विकर्मस्थबैडालव्रतिकान्शठान् । यथाह मनुः ( ४।३० )—‘पाखण्डिनो विकर्मस्थान्बैडालव्रतिकान्शठान् । हैतुकाम्बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत् ॥’ इति । लोकप्रदर्शनार्थमेव कर्मानुष्ठायी दम्भी, युक्तिबलेन सर्वत्र संशयकारी हैतुकः, त्रैविद्यविरुद्धपरिगृहीताश्रमिरणः पाखण्डिनः । बकवदस्य वर्त्तनमिति बकवृत्तिः । यथाह मनुः ( ४।१९६ )— ‘अधोदृष्टिर्नैकृतिकः३ स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश्च बकवृत्ति- रुदाहृतः ॥’ इति । प्रतिषिद्धसेविनो विकर्मस्थाः । बिडालो मार्जारस्तस्य व्रतं स्वभावो यस्यासौ बैडालव्रतिकः । तस्य लक्षणमाह मनुः ( ४।१९५ )—‘धर्मध्वजी सदा लुब्धश्छाद्मिको लोकदम्भकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वाभिसन्धकः ॥’ इति । शठः = सर्वत्र वक्रः । एतैः संसर्गनिषेधादेव स्वयमेवम्भूतो न भवेदिति गम्यते ॥ १३० ॥ भाषा - भूख से व्याकुल होने पर राजा, अन्तेवासी और यज्ञ कराने योग्य व्यक्ति से धन-प्राप्ति की इच्छा करे, परन्तु अहंकारी, संशय की दृष्टि १. कुतश्चिद्धनमन्वि । २. वृत्तिकशठान् । ३. नैष्कृतिकः ।