याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 115, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ५६ रखने वाले, पाखंडी, और बगुलाभगत के निकट (धन को इच्छा से) न जावे ॥ १३० ॥ शुक्लाम्बरधरो नीचकेशश्मश्रुनखः शुचिः । न भार्यादर्शनेऽश्नीयान्नैकवासा न संस्थितः ॥ १३१ ॥ किञ्च, शुक्ले धौते अम्बरे वाससी धरतीत शुक्लाम्बरधरः । केशाश्च श्मश्रूणि च नखाश्च केशश्मश्रुनखम्, नीचं निकृत्त केशश्मश्रुनखं यस्यासौ तथोक्तः । शुचिरन्तर्बहिश्च स्नानानुलेपनधूपस्रगादिभिः सुगन्धी च भवेत् । यथाह गौतमः (९।२)—'स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः' इति । सुगन्धित्व- विधानादेव निर्गन्धमाल्यस्य निषेधः । तथा च गोभिलः—'नागन्धां स्रजं धारयेदन्यत्र हिरण्यरत्नस्रजः' इति । सदा स्नातक एवम्भूतो भवेत् । एतच्च सति सम्भवे; 'न जीर्णमलवद्वासा भवेच्च विभवे सति' (मनु. ४।३४) इति स्मरणात् । न च भार्यादर्शने तस्यां पुरतोऽवस्थितायामश्नीयात्, अवीर्यवदपत्योत्पत्तिभयात् । तथा च श्रुतिः—'जायाया अन्ते नाश्नीयाद्वोर्यवदपत्यं भवति' इति । अतस्तया सह भोजनं दूरादेव निरस्तम् । न चैकवासाः, न १संस्थितः 'अश्नीयात्' इति सम्बध्यते ॥ १३१ ॥ भाषा—स्वच्छ वस्त्र धारण करे, केश, दाढ़ी-मूँछ और नखों को काट कर छोटा रखे, (स्नान एवं सुगन्धिलेप द्वारा) पवित्र रहे । पत्नी के सामने, एक वस्त्र पहन कर और खड़ा होकर भोजन न करे ॥ १३१ ॥ न संशयं प्रपद्येत नाकस्मादप्रियं वदेत् । नाहितं नानृतं चैव न स्तेनः स्यान्न वार्धुषी ॥ १३२ ॥ किञ्च, कदाचिदपि संशयं प्राणविपत्तिसंशयावहं कर्म न प्रपद्येत न कुर्यात् । यथा व्याघ्रचौराद्युपहतदेशाक्रमणादि । अकस्मान्निष्कारणं २किञ्चिदपि परुषं अप्रियं उद्वेगकरं वाक्यं न वदेत् । न चाहितं, नानृतं वा प्रियमपि, चकारात् असत्यं बीभत्सकरं च, अकस्मात् वदेदिति सम्बध्यते । एतच्च परिहासादि- व्यतिरेकेण, 'गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना' इति स्मरणात् । न च स्तेनः अन्यदीयस्यादत्तस्य ग्रहीता न स्यात् । न वार्धुषी स्यात् । प्रतिषिद्धवृद्ध्युप- जीवी वार्धुषी ॥ १३२ ॥ भाषा—जिस कार्य में प्राणों का संशय हो उस कर्म में प्रवृत्त न होवे; अकस्मात् (बिना कारण के) अप्रिय वचन वचन न बोले; अहितकारी और १. संस्थित उत्थितः । २. कञ्चिदपि पुरुषं स्त्रियमप्रियं ।