याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 116, कुल 782 में से
संदर्भ में पढ़ें६० / याज्ञवल्क्यस्मृतिः असत्य ( तथा अश्लील ) वचन भी न बोले; चोर न बने एवं ( निषिद्ध ) व्याज से वृत्ति न चलावे ॥ १३२ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः । कुर्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १३३ ॥ किञ्च, दाक्षायणं सुवर्णम्, १तदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तदस्यास्तीति ब्रह्मसूत्री, वैणवयष्टिमान्, कमण्डलुमान्, 'स्यात्' इति सर्वत्र सम्बन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः—'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्र च दाक्षायणीति सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम्, 'वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' ( ४।३६ ) इति मनु- स्मरणात् । तं२दा देवं देवप्रतिमाम्, मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतिं अश्वत्थादिकं प्रदक्षिणं कुर्यात् । एतान्प्र३दक्षिणतः कृत्वा प्रब्रजेदित्यर्थः । एवं चतुष्पथादीनपि 'मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥' ( ४।३९ ) इति मनुस्मरणात् ॥ १३३ ॥ भाषा—सदैव दाक्षायण ( सोने का कुण्डल ), यज्ञोपवीत, डंडा और कमण्डलु लिये रहे। देवमूर्ति, ( तीर्थ की ) मिट्टी, गाय, ब्राह्मण और ( पीपल आदि ) वृक्षों की परिक्रमा करे ॥ १३३ ॥ न तु मेहेन्नदीछायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥ नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात्, एवं श्मशानादावपि । यथाह शङ्खः—'न गोमयकृष्टशष्पशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु मेहेत्, भूताधारत्वात्' इति । तथाग्न्यादीन्प्रति अग्न्यादीनामभिमुखं न मेहेत्, नाप्येतान्पश्यन् । यथाह गौतमः ( ९।१२ )—'न वाय्वग्निविप्रादित्या- पोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्याम्युदस्येत्, न देवताँः प्रति पादौ प्रसारयेत्' इति । एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रं७पुरीषे कुर्यादिति । यथाह वसिष्ठः—'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्' इति ॥ १३४ ॥
१. तद्वान्, तद्धारणात् । २. एवं देवं देवताचीं । ३. प्रदक्षिणतः । ४. प्रत्यर्काग्निगो । ५. श्मशानवल्मीक । ६. नैतान् प्रति । ७. मेहनं कार्यं ।