याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
६० / याज्ञवल्क्यस्मृतिः असत्य ( तथा अश्लील ) वचन भी न बोले; चोर न बने एवं ( निषिद्ध ) व्याज से वृत्ति न चलावे ॥ १३२ ॥ दाक्षायणी ब्रह्मसूत्री वेणुमान्सकमण्डलुः । कुर्यात्प्रदक्षिणं देवमृद्गोविप्रवनस्पतीन् ॥ १३३ ॥ किञ्च, दाक्षायणं सुवर्णम्, १तदस्यास्तीति दाक्षायणी । ब्रह्मसूत्रं यज्ञोपवीतं तदस्यास्तीति ब्रह्मसूत्री, वैणवयष्टिमान्, कमण्डलुमान्, 'स्यात्' इति सर्वत्र सम्बन्धनीयम् । अत्र च ब्रह्मचारिप्रकरणोक्तस्यापि यज्ञोपवीतस्य पुनर्वचनं द्वितीयप्राप्त्यर्थम् । यथाह वसिष्ठः—'स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्वे यष्टिः सोदकश्च कमण्डलुः ॥' इति । अत्र च दाक्षायणीति सामान्याभिधानेऽपि कुण्डलधारणमेव कार्यम्, 'वैष्णवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् । यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥' ( ४।३६ ) इति मनु- स्मरणात् । तं२दा देवं देवप्रतिमाम्, मृदं तीर्थादुद्धृतां, गां, ब्राह्मणं, वनस्पतिं अश्वत्थादिकं प्रदक्षिणं कुर्यात् । एतान्प्र३दक्षिणतः कृत्वा प्रब्रजेदित्यर्थः । एवं चतुष्पथादीनपि 'मृदं गां देवतां विप्रं घृतं मधु चतुष्पथम् । प्रदक्षिणानि कुर्वीत प्रज्ञातांश्च वनस्पतीन् ॥' ( ४।३९ ) इति मनुस्मरणात् ॥ १३३ ॥ भाषा—सदैव दाक्षायण ( सोने का कुण्डल ), यज्ञोपवीत, डंडा और कमण्डलु लिये रहे। देवमूर्ति, ( तीर्थ की ) मिट्टी, गाय, ब्राह्मण और ( पीपल आदि ) वृक्षों की परिक्रमा करे ॥ १३३ ॥ न तु मेहेन्नदीछायावर्त्मगोष्ठाम्बुभस्मसु । न प्रत्यग्न्यर्कगोसोमसंध्याम्बुस्त्रीद्विजन्मनः ॥ १३४ ॥ नद्यादिषु न मेहेत् न मूत्रपुरीषोत्सर्गं कुर्यात्, एवं श्मशानादावपि । यथाह शङ्खः—'न गोमयकृष्टशष्पशाद्वलचितिश्मशानवल्मीकवर्त्मखलगोष्ठबिलपर्वतपुलिनेषु मेहेत्, भूताधारत्वात्' इति । तथाग्न्यादीन्प्रति अग्न्यादीनामभिमुखं न मेहेत्, नाप्येतान्पश्यन् । यथाह गौतमः ( ९।१२ )—'न वाय्वग्निविप्रादित्या- पोदेवतागाश्च प्रतिपश्यन्वा मूत्रपुरीषामेध्याम्युदस्येत्, न देवताँः प्रति पादौ प्रसारयेत्' इति । एतद्देशव्यतिरेकेण भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रं७पुरीषे कुर्यादिति । यथाह वसिष्ठः—'परिवेष्टितशिरा भूमिमयज्ञियैस्तृणैरन्तर्धाय मूत्रपुरीषे कुर्यात्' इति ॥ १३४ ॥
१. तद्वान्, तद्धारणात् । २. एवं देवं देवताचीं । ३. प्रदक्षिणतः । ४. प्रत्यर्काग्निगो । ५. श्मशानवल्मीक । ६. नैतान् प्रति । ७. मेहनं कार्यं ।
आचाराध्यायः ६१ भाषा—नदी, छाया, मार्ग, गोशाला, जल और भस्म में मूत्र एवं मल का त्याग न करे । अग्नि, सूर्य, गाय, चन्द्रमा, संध्या, जल, स्त्री और द्विज की ओर मुँह कर भी (मूत्र एवं पुरीष) न करे ॥ १३४ ॥ नैक्षेताकं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ॥ नैवार्कमिक्षेतेति यद्यप्यत्र सामान्येनोक्तं, तथाप्युदयास्तमयराहुग्रस्तोदक- प्रतिबिम्बमध्याह्नवत्तिन एवादित्यस्यावेक्षणं निषिध्यते, न सर्वदा । यथोक्तं मनुना (४।३७)—'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत । न नग्नां स्त्रियमिक्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते नग्नामपि नेक्षेत । चकाराञ्जनादिकमाचरन्तीम् । तथा च मनुः (४।४३)—'नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च न चासीनां यथासुखम् ॥ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ॥' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्, 'न चोदके निरीक्षेत स्वं रूपमिति धारणा (मनु. ४।३८) इति वचनात् ॥ १३५ ॥ भाषा—(उदय, अस्त, राहुग्रस्त, जल में प्रतिबिम्बित एवं मध्याह्न- कालीन) सूर्य को, (संभोग के अतिरिक्त अन्यत्र) नंगी स्त्री को, जिसके साथ सद्यः मैथुन किया गया हो ऐसी (अनग्ना) स्त्री को, मूत्र तथा पुरीष को और अपवित्र रहते राहु एवं तारों को न देखे ॥ १२५ ॥ अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् । वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १३६ ॥ वर्षति सति 'अयं मे वज्रः पाप्मानमंपहन्तु' इति मन्त्रमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । 'न प्रधावेच्च वर्षति' इति प्रतिषेधात्; न च प्रत्यक्शिराः स्वप्यात् । चकारान्नग्नो न शयांत । एकश्च शून्यगृहे न च नग्नः शयीतेति । 'नैकः सुप्याच्छून्यगेहे' (४।५७) मनुस्मरणात् ॥ १३६ ॥ भाषा—वर्षा होने पर 'अयं मे वज्रः पाप्मानमपहन्तु' मन्त्र का उच्चारण करे । (वर्षा में) छाता आदि से आच्छादित हुए बिना कहीं न जावे । पश्चिम की ओर शिर करके (और नंगा) न सोवे ॥ १३६ ॥ १. अपहनत् । २. ऽच्छादितो न स्यात् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥
६२ याज्ञवल्क्यस्मृतिः ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् । पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥ १३७ ॥ ष्ठीवनमुद्गिरणम्, असृक् रक्तं, शकृत् पुरीषं प्रसिद्धम्, एतान्यप्सु न निक्षिपेत् । एवं तुषादीनपि । यथाह शङ्खः—‘तुषकेशपुरीषभस्मास्थिश्लेष्म- नखलोमान्यप्सु न निक्षिपेन्न पादेन पाणिना वा जलमभिहन्यात्’ इति । अग्नौ च पादौ न प्रतापयेत् । नाप्यग्निं लङ्घयेत् । चकारात् ष्ठीवनादीन्यग्नौ न निक्षिपेत् । मुखोपधमनादि चाग्नेर्न कुर्यात् । तथा च मनुः (४।५३)—नाग्नि मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् । नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ॥ अधस्तान्नोपद्ध्याच्च न चैनमभिलङ्घयेत् । न चैनं पादतः कुर्यान्न प्राणिवैध- माचरेत् ॥’ इति ॥ १३७ ॥ भाषा—थूक, रक्त, पुरीष, मूत्र, एवं वीर्य जल में न फेंके । अग्नि में पैरों को न सेंके और न उसे लाँघे ॥ १३७ ॥ जलं पिबेन्नाञ्जलिना न शयानं प्रबोधयेत् । नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत् ॥ १३८ ॥ जलमञ्जलिना संहताभ्यां हस्ताभ्यां न पिबेत् । 'जल' ग्रहणं पेयमात्रोप- लक्षणम् । विद्यादिभिरात्मनोऽधिकं शयानं न प्रबोधयेन्नात्थापयेत् । 'श्रेयांसं न प्रबोधयेत्' इति विशेषस्मरणात् । अक्षादिभिर्न क्रीडेत् । धर्मघ्नैः पशुसम्भनादिभिर्न क्रीडेत् । व्याधितैर्ज्वराद्यभिभूतैः सहकत्र न संविशेन्न शयीत ॥ भाषा—अंजलि से जल न पिए और न सोये हुए व्यक्ति को जगावे । जुआ न खेले, ( पशु हिंसक आदि ) धर्मभ्रष्ट व्यक्तियों के साथ न खेले और न रोगी व्यक्ति के पास सोवे ॥ १३८ ॥ विरुद्धं वर्जयेत्कर्म प्रेतधूमं नदीतरम् । केशभस्मतुषाङ्गारकपालेषु च संस्थितिम् ॥ १३९ ॥ जनपदग्रामकुलाचारविरुद्धं कर्म वर्जयेत् । प्रेतधूमं, बाहुभ्यां नदीतरणं च, वर्जयेदिति सम्बद्ध्यते । केशादिषु च संस्थितिं वर्जयेत् । चकारादस्थिकार्पासा- मेध्येषु च ॥ १३९ ॥ भाषा—( जनपद, गाँव और कुल के) विरुद्ध कर्म न करे । प्रेतधूम- स्पर्श और तैर कर नदी पार करना कार्य न करे । केश, भस्म, भूसी, अंगार और कपाल पर न बैठे ॥ १३९ ॥ १. मनुलङ्घयेत् । २. मतिलङ्घयेत् । ३. प्राणाबाध ।
आचाराध्यायः ६३ नाचक्षीत धयन्तीं गां नाद्वारेण विशेत्क्वचित् । न राज्ञः प्रतिगृह्णीयाल्लुब्धस्योच्छास्त्रवर्तिनः ॥ १४० ॥ परस्य क्षीरादि १ पिबन्तीं गां परस्मै नाचक्षीत नच निवर्तयेत् । अद्वारेण कापथेन क्वचिदपि नगरे ग्रामे मन्दिरे वा न प्रविशेत् । नच कृपणस्य शास्त्राति- क्रमकारिणो राज्ञः सकाशात्प्रतिगृह्णीयात् ॥ १४० ॥ भाषा—पीती हुई या (बछड़े को) पिलाती हुई गाय को अलग न करे और न उसके विषय में कहे । कहीं (गांव या मन्दिर में) उचितमार्ग को छोड़कर किसी और मार्ग से प्रवेश न करे । लोभी, शास्त्र के विपरीत आचरण करने वाले राजा का दान न ग्रहण करे ॥ १४० ॥ प्रतिग्रहे सूनिचक्रिध्वजिवेश्यानराधिपाः । दुष्टा दशगुणं पूर्वात्पूर्वादेते यथाक्रमम् ॥ १४१ ॥ प्रतिग्रहे साध्ये सून्यादयः पञ्च पूर्वस्मात्पूर्वस्मात्परः परो दशगुणं दुष्टः । सूना प्राणहिंसा साऽस्यास्तीति सूनी प्राणहिंसापरः । चक्री तैलिकः । ध्वजी सुराविक्रयी । वेश्या पण्यस्त्री । नराधिपोऽनन्तरोक्तः ॥ १४१ ॥ भाषा—दान लेने में वधिक, तेली, कलाल, वेश्या और राजा-ये यथाक्रम अपने पहले वाले से दस-दस गुना अधिक दोषी होते हैं ॥ १४१ ॥ अथाध्ययनधर्मानह— अध्यायानामुपाकर्म श्रावण्यां श्रवणेन वा । हस्तेनौषधिभावे वा पञ्चम्यां श्रावणस्य तु ॥ १४२ ॥ अधीयन्त इत्यध्याया वेदाः, तेषामुपाकर्म उपक्रममोषधीनां प्रादुर्भावे सति श्रावणमासस्य पौर्णमास्यां, श्रवणनक्षत्रयुते वा दिने, हस्तेन युतायां पञ्चम्यां वा, स्वगृह्योक्तविधिना कुर्यात् । यदा तु श्रावणे मासि ओषधयो न प्रादुर्भवन्ति, तदा भाद्रपदे मासि श्रवणनक्षत्रे कुर्यात् । तत ऊर्ध्वं सार्धं चतुरो मासान्वेदानधी- यीत् । तथा च मनुः (४।९५)—'श्रावण्यां प्रौष्ठपद्यां वाऽप्युपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान्विप्रोऽर्धपञ्चमान् ॥' इति ॥ १४२ ॥ भाषा—(वेदों के) अध्ययन का उपाकर्म (आरम्भ) वनस्पतियों के उग आने पर श्रावण महीने की पूर्णमासी को या श्रवणनक्षत्र से युक्त दिन को अथवा हस्तनक्षत्र से युक्त श्रावण की पंचमी को करे ॥ १४२ ॥ १. क्षीरादि धयन्तीं गां । २. प्रतिग्रहेषु साध्येषु ।
६४ याज्ञवल्क्यस्मृतिः उत्सर्जनकालः— पौषमासस्य रोहिण्यामष्टकायामथापि वा । जलान्ते छन्दसां कुर्यादुत्सर्गं विधिवद्बहिः ॥ १४३ ॥ पौषमासस्य रोहिण्यामष्टकायां वा ग्रामाद्बहिर्जलसमीपे छन्दसां वेदानां स्वगृह्योक्तविधिनोत्सर्गं कुर्यात् । यदा पुनभाद्रपदे मासि उपकर्म तदा माघ- शुक्लप्रथमदिवसे उत्सर्गं कुर्यात् । यथोक्तं मनुना ( ४।९६ )—‘पुष्ये तु छन्द- सां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥’ इति । तदनन्तरं पक्षिणमहोरात्रं वा विरम्य शुक्लपक्षेषु वेदान् कृष्णपक्षेष्वङ्गा- न्यधीयीत । यथाह मनुः ( ४।९७ )—‘यथाशास्त्रं तु कृत्वैवमुत्सर्गं छन्दसां बहिः । विरमेत्पक्षिणीं रात्रिं यद्वाऽप्येकमहर्निशम् ॥ अत ऊर्ध्वं तु छन्दांसि शुक्लेषु नियतः पठेत् । वेदाङ्गानि च सर्वाणि कृष्णपक्षेषु संपठेत् ॥ इति ॥ १४३ ॥ भाषा—पौष मास की रोहिणी या अष्टमी को (गाँव से) बाहर जाकर जलाशय के निकट वेदों का (अपने गृह्यसूत्र में उक्त) विधि के अनुसार उत्सर्ग करे ॥ १४३ ॥ अनध्यायानाह— त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु । उपाकर्मणि चोत्सर्गे स्वशाखाश्रोत्रिये तथा ॥ १४४ ॥ उक्तेन मार्गेणाधीयानस्य द्विजस्य शिष्यर्त्विग्गुरुबन्धुषु प्रेतेषु मृतेषु त्र्यह- मनध्यायस्त्रीनहोरात्रानध्ययनं वर्जयेत् । उपाकर्मणि उत्सर्गाख्ये च कर्मणि कृते त्र्यहमनध्यायः । उत्सर्गे तु मनूक्तपक्षिण्यहोरात्राभ्यां सहास्य विकल्पः । स्वशाखाश्रोत्रिये स्वशाखाध्यायिनि च प्रेते त्र्यहमनध्यायः ॥ १४४ ॥ भाषा—शिष्य, ऋत्विज, गुरु और बन्धु (सजाति) के मरने पर, उपाकर्म (एवं वेदोत्सर्ग कर्म) के उपरान्त तथा अपनी शाखा का अध्ययन करने वाले किसी व्यक्ति की मृत्यु पर तीन दिनों तक अनध्याय होता है ॥ १४४॥ संध्यागर्जितनिर्घातभूकम्पोल्कानिपातने । समाप्य वेदं द्युनिशमारण्यकमधीत्य च ॥ १४५ ॥ संध्यायां मेघध्वनौ, निर्घाते आकाशे उत्पातध्वनौ, भूमिचलने, उल्का- पतने, मन्त्रस्य ब्राह्मणस्य वा समाप्तौ, आरण्यकाध्ययने च द्युनिशमहोरात्र- मनध्यायः ॥ १४५ ॥
आचाराध्यायः ६५ भाषा—सन्ध्या समय मेघ का गर्जन होने पर, आकाश में उत्पात की ध्वनि होने पर, भूकम्प, उल्कापात (तारा टूटकर गिरने पर), वेद के मन्त्र या ब्राह्मण भाग की समाप्ति पर और आरण्यक का अध्ययन पूरा कर लेने पर एक दिन और रात का अनध्याय होता है ॥ १४५ ॥ पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके । ऋतुसंधिषु भुक्त्वा वा श्राद्धिकं प्रतिगृह्य च ॥ १४६ ॥ पञ्चदश्याममावास्यायां पौर्णमास्यां चतुर्दश्यामष्टम्यां राहुसूतके चन्द्रसूर्ययो- परागे च द्युनिशमनध्यायः । यत्तु—'त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके' (मनु. ४।११०) इति तद्ग्रस्तास्तविषयम् । ऋतुसंधिगतासु च प्रतिपत्सु श्राद्धिकभोजने तत्प्रतिग्रहे च द्युनिशमनध्यायः । एतच्चैकोद्दिष्टव्यतिरिक्त- विषयम् ; तत्र तु त्रिरात्रम् मनुः (४।११०) - 'प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् । त्र्यहं न कीर्तयेद्ब्रह्म' इति स्मरणात् ॥ १४६ ॥ भाषा—अमावश्या, पौर्णमासी, चतुर्दशी, अष्टमी को चन्द्रग्रहण एवं सूर्यग्रहण के समय ऋतुओं के आरम्भ की प्रतिपदा को, श्राद्ध का भोजन करने पर तथा दान लेने पर (एक दिन-रात का अनध्याय होता है) ॥ १४६ ॥ पशुमण्डूकनकुलश्वाहिमार्जारमूषकैः । कृतेऽन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रये ॥ १४७ ॥ अध्येतॄणां पश्वादिभिरन्तरागमने कृते शक्रध्वजस्यावरोपणदिवसे, १उच्छ्राय- दिवसे चाहोरात्रमनध्यायः । द्युनिशमिति प्रकृते पुनः 'अहोरात्र' ग्रहणं संध्या- गर्जितनिर्घातभूकम्पोल्कानिपातेष्वाकालिकत्वज्ञापनार्थम् , 'आकालिकनिर्घात- भूकम्पराहुदर्शनोल्काः' ( १।३।२२ ) इति गौतमवचनात् । यस्मिन्कालादारभ्या- परेद्युर्यावांस्त एव कालस्तावत्काल अकालः, तत्र भव आकालिकोऽनध्यायः । एतच्च प्रातःसंध्यास्तनिते । सायसंध्यास्तनिते तु रात्रिमेव; २'सायंसंध्यास्तनिते तु रात्रिः, प्रातःसंध्योस्तनितेऽहोरात्रम्' इति हारीतस्मरणात् । यत्पुनर्गौतमेनोक्तं ( १।७९) 'श्वनकुलसर्पमण्डूकमार्जाराणामन्तरागमने ३त्र्यहमुपवासो विप्रवासश्च' इति तत्प्रथमाध्ययनविषयमेव४ ॥ १४७ ॥ भाषा—अध्ययन करने वालों के बीच किसी पशु, मेढक, नेवला, साही, बिल्ली या चूहा के आ जाने पर, इन्द्रधनुष उठने पर तथा उत्सव के समय एक दिन-रात (अनध्याय होता है) ॥ १४७ ॥ १. उत्सवदिवसे । २. संध्यामहोरात्रं । ३. मार्जाराणां त्र्यहं । ४. ध्ययनविषय एव । ५ या०
६६ याज्ञवल्क्यस्मृतिः श्वक्रोष्ट्रगर्दभोल्लूक सामवाणार्तनिःस्वने । अमेध्यशव शूदdryन्त्यश्मशान पतितान्तिके ॥ १४८ ॥ श्वा कुक्कुरः, क्रोष्टा शृगालः, गर्दभो रासभः, उलूको घूकः साम सामानि, वाणो वंशः, आर्तो दुःखितः, एषां श्वादीनां निःस्वने तावत्कालमनध्यायः । एवं वीणादिनिःस्वनेऽपि । - 'वेणुवीणाभेरीमृदङ्गगन्त्र्यार्तशब्देषु' (१६।७) इति गौतमवचनात् । गन्त्री शकटम् । अमेध्यादीनां सन्निधाने तावत्कालिकोऽन- ध्यायः ॥ १४८ ॥ भाषा - कुत्ता, सियार, गदहा, उल्लू, सामगान, बांस और दुःखित व्यक्ति का स्वर सुनाई पड़ने पर तथा अपवित्र वस्तु शव, शूद्र, अन्त्यज, श्मशान या पतित व्यक्ति के निकट होने पर (उस स्थिति की अवधि तक अनध्याय होता है) ॥ १४८ ॥ देशेऽशुचावात्मनि स विद्युत्स्तनितसंप्लवे । भुक्त्वाऽर्द्रपाणिरम्भोन्तरर्धरात्रेऽतिमारुते ॥ १४९ ॥ अशुचौ देशेऽशुचावात्मनि च । तथा विद्युत्स्तनितसंप्लवे पुनः पुनर्विद्योत- मानायां विद्युति, स्तनितसंप्लवे प्रहरद्वयं पुनः पुनर्मेघघोषे तावत्कालिकोऽनध्यायः । भुक्त्वाऽर्द्रपाणिर्नाधीयीत । जलमध्ये च । अर्धरात्रे महानिशाख्ये मध्यमप्रहरद्वये, अतिमारुतेऽहन्यपि तावत्कालं नाधीयीत ॥ १४९ ॥ भाषा-अपवित्र स्थान पर, स्वयं अशुद्ध होने पर, बार-बार बिजली की चमक होने, मेघ के बार-बार गर्जन के समय, भोजन के उपरान्त, गीले हाथ रहने पर, जल के भीतर, आधी रात को और तीव्र वायु चलने पर उतने समय तक (अध्ययन नहीं करना चाहिए) ॥ १४९ ॥ १पांसुप्रवर्षे दिग्दाहे संध्यानीहारभीतिषु । धावतः पूतिगन्धे च शिष्टे च गृहमागते ॥ १५० ॥ औत्पातिके रजोवर्षे, दिग्दाहे यत्र ज्वलिता इव दिशो दृश्यन्ते । संध्ययोः, नीहारे धूमिकायां, भीतिषु चौरराजादिकृतासु तावत्कालमनध्यायः । धावतस्त्व- रितं गच्छतोऽनध्यायः । पूतिगन्धे कुत्सितगन्धे अमेध्यमद्यादिगन्धे । शिष्टे च श्रोत्रियादौ गृहं प्राप्ते तदनुज्ञावध्यनध्यायः ॥ १५० ॥ भाषा - धूल भरी आँधी उठने पर, दिशाओं के जलती हुई सी दिखाई पड़ने पर, दोनों सन्ध्याओं के समय धुंधले में और (चोर या राजा से) भय होने पर (तत्काल अनध्याय होता है)। दौड़ते समय, अपवित्र वस्तु की १. पांसुवर्षे दिशां दाहे पांसुवर्षे च दिग्दाहे । २. गृहमागते ।
आचाराध्यायः ६७ गन्ध आने पर (श्रोत्रियादि) शिष्ट व्यक्ति के घर पर (अनध्याय होता है) ॥ १५० ॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १५१ ॥ यानं रथादि, इरिण^१मूषरं मरुभूमिर्वा, खरादीनामारोहणे तावत्कालमन- ध्यायः । एवं 'श्वक्रोष्टुगर्दभ-'इत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालि- कान्निमित्तसमकालान्विदुरनध्यायविधिज्ञाः । 'विदुः इत्यनेन' स्मृत्यन्तरोक्तान- न्यानपि संगृह्णाति । तथाह मनुः (४।११२)—'शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम्^३। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥' इत्यादि ॥ १५१ ॥ भाषा—गदहा, ऊँट, रथ, हाथी, घोड़ा, नौका वृक्ष पर चढ़ने और ऊसर भूमि या मरुस्थल में चलने पर अनध्याय होता है । इन सैंतीस अनध्यायों का समय इनके निमित्त की सत्ता रहने तक समझना चाहिए ॥ १५१ ॥ एवमनध्यायानुक्त्वा प्रकृतानि स्नातकव्रतान्याह— देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १५२ ॥ देवानां देवार्चानाम्ऋत्विक्स्नातकाचार्यराज्ञां परस्त्रियाश्च छायां नाक्रामेन्ना- धितिष्ठेन्न लङ्घयेद्बुद्धिपूर्वकम् । तथाह मनुः (४।१३०)—'देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बभ्रुगो दीक्षितस्य च ॥' इति । बभ्रुगो नकुलवर्णस्य यस्य कस्यचिद्धोरन्यस्य वा श्यामादेः,^४ 'बभ्रुणु' इति नपुंसक- लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । 'आदि' ग्रहणात्स्नानोदकादेर्ग्रहण्म् । (मनु. ४।१३२)—'उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेष्मनिष्ठ्यूत- वान्तानि नाधितिष्ठेत कामतः ॥' इति ॥ १५२ ॥ भाषा—देवता, ऋत्विज्, स्नातक, आचार्य, राजा और पर स्त्री की छाया न लाँघे । रुधिर, विष्ठा, मूत्र, खखार, उद्वर्तन (उबटन की झीली) (तथा स्नान करने पर गिरे हुए जल) को भी न लाँघे ॥ १५२ ॥ विप्राद्दिक्षत्रियात्मानो नावज्ञेयाः कदाचन । आ मृत्योः श्रियमाकाङ्क्षेन्न कञ्चिन्मर्माणि स्पृशेत् ॥ १५३ ॥ विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावज्जीवं श्रिय- १. ऊखरं । २. अध्ययन अध्यापन । ३. कृतावसक्थिक ऊरुभ्यामवर्न गतः । ४. सोमादेः ।
दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् ।
मिच्छेत्। न क्वचित् पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १५३ ॥ भाषा—(वेदज्ञ) ब्राह्मण, साँप, क्षत्रिय (या राजा) तथा अपने आत्मा का कभी भी अपमान नहीं करना चाहिए। किसी व्यक्ति का हृदय न दुखाते हुए जीवनपर्यन्त शुभ सम्पत्ति की आकांक्षा रखे ॥ १५३ ॥ दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं सम्यङ्नित्यमाचारमाचरेत् ॥ १५४ ॥ भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाद्दूरात्समुत्सृजेत्। श्रौतं स्मार्तं चाचारं नित्यं सम्यगनुतिष्ठेत् ॥ १५४ ॥ भाषा—(भोजन का) उच्छिष्टांश, मल-मूत्र तथा पैर धोने से दूषित जल को घर से दूर फेंकना चाहिए। श्रुति एवं स्मृति में बताए गये नियमों का प्रतिदिन भलीभाँति पालन करे ॥ १५४ ॥ गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् । न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥ गां ब्राह्मणमग्निं अन्नमदनीयं, विशेषतः पक्वमशुचिर्न स्पृशेत् । पादेन त्वनुच्छिष्टोऽपि। यदा पुनः प्रमादात्स्पृशति तदा आचमनोत्तरकालम्—'स्पृष्टैतान- शुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु॥' इति (४।१४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दाताडने न कुर्यात्। एतच्चानपकारिणि । मनुः (४।१६७)-'अयुध्यमान- स्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥' इति। पुत्रशिष्यौ शिक्षार्थमेव ताडयेत्। चकाराद्दासादीनपि। ताडनं च रज्वा- दिनोत्तमाङ्गव्यतिरेकेण कार्यम् ; 'शिष्यशिष्टिरवधेनाशक्तौ¹ रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्यते' (२।४२,३।४) इति गौतमवचनात्। '—पृष्ठ- तस्तु शरीरस्य नोत्तमाङ्गे कथंचन' इति (८।३००) मनुवचनात् ॥ १५५ ॥ भाषा—गाय, ब्राह्मण, अग्नि और अन्न को अशुद्ध रहने पर न छूए और न इन्हें पैर से छूए। किसी की निन्दा नहीं करनी चाहिए और न किसी को मारना-पीटना चाहिए, किन्तु पुत्र और शिष्य को (पढ़ाते समय) मारना चाहिए ॥ १५५ ॥ कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥ १५६ ॥
१. रवधेन वाधनाशक्तौ।
आचाराध्यायः ६६ कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् तमेव मनसा ध्यायेत् वाचा च वदेत् । १धर्मं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्वर्ग्यमग्नीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥ भाषा- कर्म, मन और वचन से यत्नपूर्वक धर्म का आचरण करे, धर्म- विहित होने पर भी लोकविरुद्ध कर्म हो और उससे स्वर्ग की प्राप्ति न हो तो उसे नहीं करना चाहिए ॥ १५६ ॥ मातृपितॄतिथिश्रातृजामिसम्बन्धिमातुलैः । वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥ ऋत्विक्पुरोहितापत्यभार्यादाससनाभिभिः । विवादं वर्जयित्वा तु सर्वाँल्लोकाञ्जयेद् गृही ॥ १५८ ॥ माता जननी, पिता जनकः, अतिथिरध्वनीनः, भ्रातरो भिन्नोदरा अपि। जामयो विद्यमानभर्तृकाः स्त्रियः, संबन्धिनो वैवाह्याः मातुलौ मातृभ्राता, वृद्धः सप्तत्युत्तरवयस्कः, बाल आ षोडशाद्वर्षात् , आतुरो रोगी, आचार्य उपनेता, वैद्यो विद्वान् भिषग्वा, संश्रितः उपजीवी, बान्धवाः पितृपक्ष्या मातृ- पक्ष्याश्च, मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः, पुरोहितः शान्त्यादेः कर्ता, अपत्यं पुत्रादि, भार्या सहधर्मचारिणी, दासः कर्मकरः, सनाभयः सोदराः, भ्रातृभ्यः पृथगुपादानमजाभिभगिनीप्राप्त्यर्थम् । एतैर्मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्राप्नोति ॥ १५७-१५८ ॥ भाषा - माता, पिता, अतिथि, भाई, सुहागिन स्त्री, सम्बन्धी, मामा, वृद्ध, बालक, रोगी, आचार्य, वैद्य, आश्रितजन, ( पिता एवं माता पक्ष के ) बान्धव, ऋत्विज, पुरोहित, पुत्र पत्नी, दास और सोदर भाइयों के साथ विवाद न करके गृहस्थ सभी लोकों को प्राप्त करता है १५७-१५८ ॥ पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु । स्नायान्नदीदेवखातह्रदप्रस्रवणेषु च ॥ १५९ ॥ परवारिषु परसंबन्धिषु सर्वसत्त्वोद्देशेनात्यक्तेषु तडगादिषु पञ्च पिण्डान- नुद्धृत्य न स्नायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारमन्तरेणापि स्नानम- भ्यनुज्ञातम् । नद्यादिषु कथं तर्हीत्याह - स्नायान्नदीति । साक्षात्परम्परया वा समुद्रगाः स्त्रवन्त्यो नद्यः, देवखातं देवनिर्मितं पुष्करादि, उदकप्रवाहाभिपात- कृत्सजलो महानिम्नप्रदेशो ह्रदः, पर्वताद्युच्चप्रदेशात्प्रस्रुतमुदकं प्रस्रवणम्, एतेषु पञ्चपिण्डानुद्धरणेनैव स्नायात् । एतच्च नित्यस्नानविषयं सति संभवे मनुः १. धर्म्यम् । २. मग्निष्टोमीयवत् । ३. मन्तरेणापि ।
७० याज्ञवल्क्यस्मृतिः (४।२०३)—'नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्रवणेषु च ॥' इति 'नित्य'ग्रहणात् । शौचार्थं तु यथासंभवं परवारिषु पिण्डानुद्धरणे सर्वस्य निषेधः ॥ १५९ ॥ भाषा—दूसरे के पोखरे में पांच मुट्ठी मिट्टी निकाले बिना स्नान न करे । नदी, प्राकृतिक जलाशय ( पुष्कर आदि ), जलकुण्ड और झरने में (बिना मिट्टी निकाले ही) स्नान करे ॥ १५९ ॥ परशय्यासनोद्यानगृहयानानि वर्जयेत् । अदत्तान्यग्निहीनस्य नान्नमाद्यादनापदि ॥ १६० ॥ शय्या कशिपुः, आसनं पीठादिः, उद्यानमाम्रादिवनम् । गृहं प्रसिद्धम्, यानं रथादि, परसंबन्धीन्येतान्यदत्तान्यननुज्ञातानि वर्जयेत् नोपभुञ्जीत । अभो- ज्यान्नान्याह—अग्निहीनस्येति । अग्निहीनस्य श्रौतस्मार्ताग्न्याधिकाररहितस्य शूद्रस्य प्रतिलोमजस्य च अधिकारवतोऽप्यग्निरहितस्यान्नमनापदि न भुञ्जीत, न प्रतिगृह्णीयाच्च । तस्मात्प्रशस्तानां स्वकर्मशुद्धजातीनां ब्राह्मणो भुञ्जीत प्रतिगृह्णीयाच्च' ( १७ : १,२ इति गौतमवचनात् ) ॥ १६० ॥ भाषा—दूसरे की शय्या, आसन, उद्यान, घर और सवारी का उसकी अनुमति के बिना उपयोग न करे । आपत्तिकाल न हो तो ( श्रौतस्मार्त अग्नि के अधिकार से वञ्चित (शूद्र एवं प्रतिलोमज) अग्नि का आधान न करने वाले व्यक्ति का अन्न न ग्रहण करे ॥ १६० ॥ कदर्यबद्धचौराणां क्लीबरङ्गावतारीणाम् । वैणाभिशस्तवार्धुष्यगणिकागणदीक्षिणाम् ॥ १६१ ॥ कदर्यो लुब्धः, 'आत्मानं धर्मकृत्यं च पुत्रदारांश्च पीडयेत् । लोभाद्यः पितरौ भृत्यान्स कदर्य इति स्मृतः ॥' ( देवल ) इत्युक्तः । बद्धो निगडांदिना वाचा सन्धितश्च, चौरा ब्राह्मणसुवर्णव्यतिरिक्तपरस्वापहारी, क्लीबो नपुंसकः, रङ्गावतारी नटचारणमल्लादिः, वेणुच्छेदजीवी, वैणः अभिशस्तः पतनीयैः कर्मभिर्युक्तः, वार्धुष्यो निषिद्धवृद्ध्युपजीवी, १ गणिका पण्यस्त्री, गणदीक्षी बहुयाजकः । एतेषामन्नं नाश्नीयादित्यनुवर्तते ॥ १६१ ॥ भाषा—लोभी, ( बेड़ी आदि से) बद्ध, चोर, नपुंसक, नट, चारण, मल्ल आदि रङ्गावतारी, वैण, पातक कर्मों से युक्त मनुष्य का, (अनुचित) ब्याज लेनेवाले, वेश्या और बहुयाजक का (अन्न नहीं खाना चाहिए) ॥ १६१ ॥ १. वृद्ध्युपजीवी ।
आचाराध्यायः ७१ चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १६२ ॥ चिकित्सको भिषग्वृत्युपजीवी, आतुरो महारोगोपसृष्टः, 'वातव्याध्यश्मरी- कुष्ठमेहोदरभगन्दराः। अर्शांसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः' इति । क्रुद्धः कुपितः, पुंश्चली व्यभिचारिणी, मत्तो विद्यादिना गर्वितः विद्विट् शत्रुः, क्रूरो दृढाभ्यन्तरकोपः, बाह्यान्वयापरेणोद्वेजक उग्रः, पतितो ब्रह्महादिः, व्रात्यः पतितसावित्रीकः, दाम्भिको वञ्चकः, उच्छिष्टभोजी परमुखोज्झिताशी, एतेषां चिकित्सकादीनामन्नं नाश्नीयात् ॥ १६२ ॥ भाषा—चिकित्सक, रोगी, क्रोधी, व्यभिचारिणी, (विद्या आदि के) अभिमानी, शत्रु, क्रूर, उद्धत, पतित, (सावित्रीदान से च्युत) व्रात्य, धोखेबाज और जूठा भोजन करने वाले व्यक्ति का (अन्न नहीं खाना चाहिए) ॥ १६२ ॥ अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्म्मारतन्तुवायश्ववृत्तिनाम् ॥ १६३ ॥ अवीरा स्त्री स्वतन्त्रा-व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यर्थः । स्वर्ण- कारः सुवर्णस्य विकारान्तरकृत् , स्त्रीजितः सर्वत्र स्त्रीवशवर्ती, ग्रामयाजी ग्रामस्य शान्त्यादिकर्त्ता, बहूनामुपनेता वा। शस्त्रविक्रयी शस्त्रविक्रयोपजीवी, कर्म्मारो लोहकारः तक्षादिश्च, तन्तुवायः सूचिशिपोपजीवी । श्वभिर्वृत्तिर्वर्त्तनं जीवनमस्यास्तीति श्ववृत्ती, एतेषामन्नं नाश्नीयात् ॥ १६३ ॥ भाषा—कुलटा (स्वतन्त्र रहने वाली स्त्री), स्वर्णकार, (सर्वत्र) स्त्री के वश में रहने वाले, गांव भर के लिए यज्ञ करने वाले (या अनेक व्यक्तियों का उपनयन करने वाले), शस्त्र बेचनेवाले, लोहार, तन्तुवाय (जुलाहा तथा दर्जी) और कुत्तों के सहारे वृत्ति चलाने वाले का (अन्न नहीं खाना चाहिए) ॥ १६३ ॥ नृशंसराजरजककृतघ्नवधजीविनाम् । चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ १६४ ॥ पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १६५ ॥ नृशंसो निर्दयः, राजा भूपतिः, तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः— 'भीतावगीतहृष्टिताक्रन्दितावघुष्टक्षुधितपरिशुक्तविस्मितोन्मत्तावधूतर।जपुरोहितान्ना- नि वर्जयेत्' इति। रजको वस्त्रादीनां नीलीदिरागकारकः, कृतघ्न उपकृतस्य हन्ता वधजीवी प्राणिनां वधेन वर्त्तकः, चैलधावो वस्त्रनिर्णेजनकृत्, सुराजीवी मद्यविक्रयजीवी, उपपतिर्जारः। सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्मा । १. नील्यादिरागकरः ।
७२ याज्ञवल्क्यस्मृतिः पिशुनः परदोषस्य ख्यापकः, अनृती मिथ्यावादी, चक्रिकस्तैलिकः, शाकटिक- श्लेष्येके । 'अभिशस्तः पतितश्चाक्रिकस्तैलिक' इति भेदेनाभिधानात् । बन्दिनः स्तावकाः, सोमविक्रयी सोमलताया विक्रेता, एतेषामन्नं न भोक्तव्यम् । सर्वे चैते कदर्यादयो द्विजा एव कदर्यत्वादिवदोषदुष्टा अभोज्यान्नाः । इतरेषां प्राप्यभावा- त्प्राप्तिपूर्वकत्वाच्च निषेधस्य ॥ १६४-१६५ ॥ भाषा—निर्दयी, राजा, रंगरेज, कृतघ्न, वधिक, धोबी, मद्य बेचने वाले कुलाल, जिसके घर में जार निवास कर रहा हो उस पुरुष का, दूसरे का दोष फैलाने वाले, झूठ बोलने वाले, तेली या गाड़ीवान, बन्दीजन एवं सोमलता के विक्रेता का अन्न नहीं खाना चाहिए ॥ १६४-१६५ ॥ 'अग्निहीनस्य नान्नमाद्यादनापदि' (आचार. १६०) इत्यत्र शूद्रस्याभोज्या- न्नत्वमुक्तं, तत्र प्रतिप्रसवमाह— शूद्रेषु दासगोपालकुलमित्रार्धसीरिणः। भोज्यान्ना नापितश्चैव यश्चात्मानं निवेदयेत् ॥ १६६ ॥ दासा गर्भदासादयः। गोपालो गवां पालनेन यो जीवति । कुलमित्रं पितृपितामहादिक्रमायातः । अर्धसीरी हलकर्षार्धसीरोपदर्शितकृषिफलभागग्राही। नापितो गृहव्यापारकारयिता ३, नापितश्च । यश्च वाङ्मनः कायकर्मभिरात्मानं निवेदयति तवाहमिति । एते दासादयः शूद्राणां मध्ये भोज्यान्नाः । चकारात्कुम्भकारश्च, 'गोपनापितकुम्भकारकुलमित्रार्धिकनिवेदितात्मानोभोज्यान्नाः' इति वचनात् ॥ १६६ ॥ भाषा—शूद्रों में दास, अहीर या ग्वाला, कुल के मित्र (जिनसे पिता, पितामह के समय से मित्रता का व्यवहार हो), साझे पर खेती करने वाले का, नाई का तथा (वाणी, मन, शरीर एवं कर्म से) आत्मनिवेदन करनेवाले व्यक्ति का (तथा कुम्भकार का) अन्न खाने योग्य होता है ॥ १६६ ॥ इति स्नातकधर्मप्रकरणम् । भक्ष्याभक्ष्यप्रकरणम् 'न स्वाध्याय विरोध्यर्थम्' (आचार. १२९) इत्यत आरभ्य ब्राह्मणस्य स्नातकव्रतान्यभिधायेदान द्विजातिधर्मान्राह— अनर्चितं वृथामांसं केशकीटसमन्वितम् । शुक्तं पर्युषितोच्छिष्टं श्वस्पृष्टं पतितेक्षितम् ॥ १६७ ॥ १. प्रतिषेधस्य । . गवां पालकः गवां पालनेन । ३. कर्मस्थायी ।
आचाराध्यायः ७३ उदक्यास्पृष्टंघुष्टं पर्यायान्नं च वर्जयेत् । गोग्रातं शकुनोच्छिष्टं पदा स्पृष्टं च कामतः ॥ १६८ ॥ अनर्चितं अर्चार्हाय यदवज्ञया दीयते । वृथामांसं वक्ष्यमाणप्राणात्ययादि- व्यतिरेकेण देवायर्चनावशिष्टं च यन्न भवति आत्मार्थमेव यत्साधितम् । केशकीटादिभिश्च समन्वितं संयुक्तम् । यत्स्वयमम्लं केवलं कालपरिवासेन द्रव्यान्तरसंसर्गकालपरिवासाभ्यां वाम्लीभवति तच्छुक्तं दध्यातिव्यतिरेकेण 'न पापीयसोऽन्नमश्नीयान्न द्विःपक्वं, न शुक्तं, न पर्युषितं, अन्यत्र रागखाण्डव- चुक्रदधिगुड़गोधूमयवपिष्टविकारेभ्यः' इति शङ्खस्मरणात् । पर्युषितं रात्र्यन्तरितम् । उच्छिष्टं भुक्तोज्झितम्. श्वस्पृष्टं शुना स्पृष्टम, पतितेक्षितं पतितादिभिरीक्षितम, उदक्या रजस्वला तया स्पृष्टम्, 'उदक्या'ग्रहणं चण्डालाद्युपलक्षणार्थम्, 'अभेष्यपतितचण्डालपुक्कसरजस्वलाकुनखिकुष्ठिसंस्पृष्ठान्नं वर्जयेत्' इति शङ्खस्मरणात् । 'को भुङ्क्ते'? इति यदाघुष्य दीयते तत्संघृष्टान्नम् । अन्यसम्बन्धेनान्यपदेशेन यद्दीयते तत्पर्यायान्नम्, यथा—'ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् । उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥' इति । 'पर्याद्यान्तम्' इति पाठे परिगतमाचान्तं गण्डूषग्रहणं यस्मिन् तत्पर्याचान्तं, तन्न भोक्तव्यम् । एतदुक्तं भवति—गण्डूषग्रहणादूर्ध्वं आचमनात्प्राक् न भोक्तव्यमिति । 'पार्श्वाचान्तम्' इति पाठे एकस्यां पङ्क्तौ पार्श्वस्थे आचान्ते न भोक्तव्यं भस्मोदकादिविच्छेदेन विना । 'वर्जयेत्' इति प्रत्येकं संबध्यते । तथा गोग्रातं गवा घ्रातम् । शकुनोच्छिष्टं शकुनेन काकादिना भुक्तमास्वादितम् । पदा स्पृष्टं बुद्धिपूर्व पादेन स्पृष्टं वर्जयेत् ॥ १६७-१६८ ॥ भाषा—अवज्ञा के साथ दिया गया अन्न, (देवता के लिए नहीं, अपितु अपने लिए पकाया गया ) बेकार मांस, जिस अन्न में बाल या कीड़े पड़े हों, खट्टा हो गया हो, बासी, जूठा, कुत्ते द्वारा छुआ गया, पतित व्यक्ति द्वारा देखा गया, रजस्वला स्त्री द्वारा छुआ गया, 'कौन खायगा?' ऐसा पुकार करके दिया गया, दूसरे के लिए बनाकर किसी और को दिया गया; गाय द्वारा सूँघा गया, किसी पक्षी द्वारा जूठा किया गया और जानबूझ कर पैर से छुआ गया अन्न नहीं खाना चाहिए ॥ १६७-१६८ ॥ पर्युषितस्य प्रतिप्रसवमाह— अन्नं पर्युषितं भोज्यं स्नेहाक्तं चिरसंस्थितम् । अस्नेहा अपि गोधूमयवगोरसविक्रियाः ॥ १६९ ॥ १. सक्तुपाचकतेल ।
७४ याज्ञवल्क्यस्मृतिः अन्नमदनीयं पर्युषितं घृतादिस्नेहसंयुक्तं चिरकालसंस्थितमपि भोज्यम् । गोधूमयदगोरसविक्रियाः मण्डकसक्तुकिलाटकूर्चिकादयः अस्नेहा अपि चिरकाल- संस्थिता भोज्याः, यदि विकारान्तरमनापन्नाः, 'अपूपधानाकरम्भसक्तुयोवकतैल- पायसशाकानि शुक्तानि वर्जयेत्' ( १४।३७ ) इति वसिष्ठस्मरणात् ॥ भाषा—घृत आदि चिकनाई से युक्त देर से भी रखा हुआ भोजन खाना चाहिए । गेहूँ, जौ और दूध से बनाया गया भोजन यदि चिकनाई से युक्त न भी हो तो भी ( चिरकालोपरान्त भी ) ग्रहण किया जा सकता है ॥ १६९ ॥ संधिन्यनिर्दशावत्सागोपयः परिवर्जयेत् । औष्ट्रमैकशफं स्त्रैणमारण्यकमथाविकम् ॥ १७० ॥ गौः या वृषेण संधीयते सा संधिनी । 'वशां वन्ध्यां विजानीयाद्वृषाक्रान्तां च संधिनीम्' इति त्रिकाण्डीस्मरणात् । या चैकां वेलामतिक्रम्य दुह्यते, या च वत्सान्तरेण संधीयते सा संधिनी। प्रसूता सत्यनतिक्रान्तदशाहा अनिर्दशा, मृतवत्सा अवत्सा, संधिनी च अनिर्दशा च अवत्सा च संधिन्यनिर्दशावत्सास्ताश्च गावश्च तासां पयः क्षीरं परिवर्जयेत् । 'संधिनी' ग्रहणं संधिनीयमल- सुवोपलक्षणार्थम् । यथाह गौतमः ( १७।२५ )—'स्यन्दिनीधमसूसंधिनीनां च' इति । स्रवत्पयःस्तनी स्यन्दिनी, यमलसूर्यमलप्रसविनी, एवमजामहिष्योश्चा- निर्दशयोः पयो वर्जयेत्, 'गोमहिष्यजानामनिर्दशानाम्' ( १४।३५ ) इति वसिष्ठस्मरणात् । पयोग्रहणात्तद्विकाराणामपि दध्यादीनां निषेधः । नहि मांसनिषेधे तद्विकाराणामनिषेधो१ युक्तः । विकारनिषेधे तु प्रकृतेरनिषेधो युक्तः । पयोनिषेधाच्छकृन्मूत्रादेरनिषेधः । उष्ट्राजातमोष्ट्रं पयोमूत्रादि । एकशफा वडवादयः, तत्रभवं ऐकशफम् । स्त्रीभवं स्त्रैणम् । 'स्त्री'ग्रहणमजाव्यतिरिक्तसकल- द्विस्तनीनामुपलक्षणार्थम् ।—सर्वासां द्विस्तनीनां क्षीरमभोज्यमजावर्ज्यम्२ इति शङ्खस्मरणात् । अरण्ये भवा आरण्यकास्तदीयमारण्यकं क्षीरं महिष्यव्यति- रेकेण । 'आरण्यानां च सर्वेषां मृगाणां माहिषं विना' ( मनु. ५।९ ) इति वचनात् । अवेर्जातमाविकम् । 'वर्जयेत्' इति प्रत्येकमभिसंबध्यते । औष्ट्रमित्यादि- विकारप्रत्ययनिर्देशात्तद्विकारमात्रस्य पयोमूत्रादेः सर्वदा निषेधः, 'नित्यमाविकम- पेयमौष्ट्रमैकशफं च' ( १७।२४ ) इति गौतमस्मरणात् ॥ १७० ॥ भाषा—संधिनी ( बरदाई हुई, एक जून दूध देने वाली, दूसरी गाय के बछड़े से दुही जाने वाली ), दस दिन से कम पहले की ब्याई हुई गाय का तथा जिसका बच्चा मर गया हो ऐसी गाय का दूध नहीं पीना चाहिए । ऊँटनी एक १. रनिषेधो युक्तः । २. व्यतिरिक्तम् ।
आचाराध्यायः ७५ खुरवाली पशुमादा ( घोड़ी आदि ), जंगली पशु और भेड़ का भी दूध न पीवे ॥ १७० ॥ देवतार्थं हविः शिग्रुं लोहितान्व्रश्चनांस्तथा । अनुपाकृतमांसानि विड्जानि कवकानि च ॥ १७१ ॥ देवतार्थं बल्युपहारनिमित्तं साधितम् । हविः हवनार्थं सिद्धं प्राक् होमात् । शिग्रुः सोभाञ्जनः, १ लोहितान् वृक्षनिर्यासान् । व्रश्चनप्रभवान् वृक्षच्छेदनजातान- लोहितानपि । तथाह मनुः—( ५।६ ) । 'लोहितान्वृक्षनिर्यासान्व्रश्चनप्रभवां- स्तथा' इति । 'लोहित'ग्रहणात् हिङ्ककर्पूरादीनामनिषेधः । अनुपाकृतमांसानि यज्ञेऽहुतस्य पशोर्मांसानि, विड्जानि मनुष्यादिजग्धबीजपुरीषोत्पन्नानि २ तण्डु- लीयकप्रभृतीनि च, कवकानि छत्रकाणि, 'वर्जयेत्' इति प्रत्येकमभि- संबध्यते ॥ १७१ ॥ भाषा—देवता के लिए साधित बलि, हवन सामग्री, सोभाजन, गोंद, वृक्ष के काटने पर निकले हुए द्रव, यज्ञ में आहुत पशु का मांस, विष्ठा के स्थान पर उत्पन्न अन्न और कुकुरमुत्ता आदि का भोजन न करे ॥ १७१ ॥ क्रव्यादपक्षिदात्यूहशुकप्रतुदटिट्टिभान् । सारसैकशफान्हंसान्सर्वाश्च ग्रामवासिनः ॥ १७२ ॥ क्रव्यादा आममांसादनशीलाः, पक्षिणो गृध्रादयः, दात्यूहश्चातकः, शुकः कीरः । चञ्च्वा प्रतुद्य भक्षयन्तीति प्रतुदाः श्येनादयः, टिट्टिभस्तच्छब्दानुकारी, सारसो लक्ष्मणः, एकशफा अश्वादयः, हंसाः प्रसिद्धाः, ग्रामवासिनः पारावत- प्रभृतयः, एतान्क्रव्यादादीन्वर्जयेत् ॥ १७२ ॥ भाषा—शव का मांस खाने वाले गृध्र आदि पक्षी, चातक, तोता, चोंच से नोचकर खाने वाले बाज आदि पक्षी, सारस, एक खुर वाले पशु ( घोड़े आदि ), हंस और ग्राम में रहने वाले सभी पक्षियों का ( भक्षण न करे ) ॥ १७२ ॥ कोयष्टिप्लवचक्राह्वबलाकाबकविष्किरान् । वृथाकृसरसंयावपायसाऽपूपशष्कुलीः ॥ १७३ ॥ कोयष्टिः क्रौञ्चः, प्लवो जलकुक्कुटः, चक्राह्वश्चक्रवाकः, बलाकाबकौ प्रसिद्धौ, नखैर्विकीर्य भक्षयन्तीति विष्किराश्चकोरादय एव गृह्यन्ते; लावक- मयूरादीनां भक्ष्यत्वात्, ग्रामकुक्कुटस्य ग्रामवासित्वादेव निषेधाच्च । एतान्को- यष्ट्यादीन्वर्जयेत् । वृथा देवताद्युद्देशमन्तरेण साधिताः कृसरसंयावपायसाऽ-
१. सोभाञ्जनः । २. पुरीषस्थाने उत्पन्नानि ।
७६ याज्ञवल्क्यस्मृतिः पूपशष्कुलीर्वर्जयेत् । कृसरं तिलमुद्गसिद्ध ओदनः । संयावः क्षीरगुडघृतादिकृत¹ उत्कारिकाख्यः पाकविशेषः । पायसं पयसा शृतमन्नम् । अपूपोऽस्नेहपक्को गोधूमविकारः । शष्कुली स्नेहपक्को गोधूमविकारः । 'न पचेदन्नमात्मने' इति कृसरादीनां निषेधे सिद्धे पुनरभिधानं प्रायश्चित्तगौरवार्थम् ॥ १७३ ॥ भाषा—क्रौंच, जल कुक्कुट, चक्रवाक, बलाका, बगुला, नख से छील कर खाने वाले चकोर आदि पक्षी, देवता के लिये न बनाये गये (तिल और मूंग का) कृसर (दूध, घृत और गुड़ से बनाये गये) संयाव, खीर, पूए और पूरी को भोजन के लिये नहीं ग्रहण करना चाहिए ॥ १७३ ॥ कलविङ्कं सकाकोलं कुररं रज्जुदालकम् । जालपादान्खञ्जरीटानज्ञातांश्च मृगद्विजान् ॥ १७४ ॥ कलविङ्को ग्रामचटकः, ग्रामनिवासित्वेन प्रतिषेधे सिद्धे सत्यु²भयचारित्वा- त्पुनर्वचनम् । काकोलो द्रोणकाकः, कुरर उत्क्रोशः, रज्जुदालको वृक्षकुक्कुटः, जालपादो जालाकारपादाः, अजालपादा अपि हंसाः सन्तीति हंसानां पुनर्वच- नम् । खञ्जरीटः खञ्जनः, जातितो ये अज्ञाता मृगाः पक्षिणश्च, एतान्कलविङ्का- दीन्वर्जयेत् ॥ १७४ ॥ भाषा—कलविङ्क (ग्रामचटक), काकोल (द्रोणकाक), कुरर, रज्जुदालक (कठफोड़वा), जालीदार पैरों वाले पक्षी, खंजन और अज्ञात जाति वाले पशु पक्षियों के भक्षण से परहेज न रखे ॥ १७४ ॥ चाषांश्च रक्तपादांश्च सौनं वल्लूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्त्र्यहं वसेत् ॥ १७५ ॥ चाषाः किकीदिवयः रक्तपादाः कादम्बप्रभृतयः, सूनिना त्यक्तं सौनं घातस्थानभवं मांसं भक्ष्याणामपि, वल्लूरं शुष्कमांसम्, मत्स्या मीनाः, एतां- श्चाषादीन्वर्जयेत् । चकारान्नालिकाशणछत्राककुसुम्भादीन् , 'नालिकाशणछत्रा- ककुसुम्भालाबुविड्वम्बांन् । कुम्भीकै³न्दुकवृन्ताककोविदारांश्च वर्जयेत् ॥' इति तथा- ऽकालप्ररूढानि पुष्पाणि च फलानि च । विकास्यञ्च यत्किंचित्प्रयत्नेन विवर्ज- येत् ॥' 'तथा वटप्लक्षाश्वत्थकंपित्थनीपमातुलिङ्गफलानि वर्जयेत्' इति स्मरणात् । एतान्संधिनीक्षीरप्रभृतीननुक्रान्तान्कामतो भक्षयित्वा त्रिरात्रमुपवसेत् । अका- मतस्त्वहोरात्रम् । 'शेषेषूपवसेदहः' (५।२०) इति मनुस्मरणात् । यत्पुनः शङ्खनोक्तम्—'बकबलाकाहंसप्लवचक्रवाककारण्डवगृहचटककपोतपारावतपाण्डुशुक- सारिकासारसटिद्विभोल्लूककङ्करक्तपादचाषभासवायसकोकिलशाड्वलिकुक्कुटहारीत- १. तिलमुद्गमिश्र ओदनः । २. उभयपरत्वात् । ३. कम्बुक ।
अक्षणे द्वादशरात्रमनाहारः, पिबेद्गोमूत्रयावकम्' इति तद्बहुकालाभ्यासे मतिपूर्वे समस्तभक्षणे वा वेदितव्यम् ॥ १७५ ॥ भाषा—चाष, रक्तपाद (कादम्ब आदि ), वधिक द्वारा मारे गये पशु का मांस, सूखा मांस और मछली का भक्षण न करे । इन सबका जानबूझ कर भक्षण करने पर तीन दिन तक उपवास करे ॥ १७५ ॥ पलाण्डुं विड्वराहं च छत्राकं ग्रामकुक्कुटम् । लशुनं गृञ्जनं चैव जग्ध्वा चान्द्रायणं चरेत् ॥ १७६ ॥ पलाण्डुः स्थूलकन्दनालो लशुनानुकारी, विड्वराहो ग्रामसूकरः, छत्राकं सर्पछत्रम्, ग्रामकुक्कुटः प्रसिद्धः, लशुनं रसोनं सूक्ष्मश्वेतकन्दनालम् । गृञ्जनं लशुनानुकारिलोहितसूक्ष्मकन्दम्, एतानि षट् सकृत्कामतॊ जग्ध्वा भक्षयित्वा चान्द्रायणं वक्ष्यमाणलक्षणं चरेत् । ग्रामकुक्कुटछत्राकयोः पूर्वप्रतिषेधितयोरिहा- भिधानं पलाण्ड्वादिसमानप्रायश्चित्तार्थम् । मतिपूर्वं चिरतराभ्यासे तु 'छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः' इति (५।१९) मनूक्तम् । अमतिपूर्वाभ्यासे—'अमत्याैतानि षड् जग्ध्वा कृच्छ्रं सान्तपनं चरेत्' (५।१९) तृतीयाध्याये, वक्ष्यमाणं 'यतिचान्द्रायणं वापि' इति द्रष्टव्यम् । अमतिपूर्वाभ्यासे तु शङ्खोक्तं—'लशुनपलाण्डुगृञ्जनविड्वराह- ग्रामकुक्कुटकुम्भीकभक्षणे द्वादशरात्रं पयः पिबेत्' इति ॥ १७६ ॥ भाषा—प्याज, ग्रामसूकर, छत्राक ( कुकुरमुत्ता ), ग्रामकुक्कुट, लहसुन, और गृञ्जन ( गाजर या शलजम ) का ( जानबूझ कर ) भक्षण करने पर चान्द्रायण व्रत करे ॥ १७६ ॥ भक्ष्याः पञ्चनखाः सोधागोधाकच्छपशल्लुकाः । शशश्च मत्स्येष्वपि हि सिंहतुण्डकरोहिताः ॥ १७७ ॥ तथा पाठीनराजीवसशल्काश्च द्विजातिभिः । सेधा श्वावित्, गोधा कृकलासानुकारिणी महती, कच्छपः, कूर्मः, शल्लकः ४शल्लकी, शशः प्रसिद्धः, पञ्चनखादीनां श्वमार्जारवानरादीनां मध्ये एते मेधादयो भक्ष्याः । चकारात्खड्गोऽपि । यथाह गौतमः ( १७।२७ )—'पञ्चनखाः शशशल्लकश्वाविद्गोधाखड्गकच्छपाः' इति । यथाह मनुरपि ( ५।२८ )—'श्वाविधं ५शल्यकं गोधां खड्गकूर्मशशांस्तथा । भक्ष्यान्पञ्चनखेष्व | हुरनुष्ट्रांश्चैकतोदतः ॥' इति । यत्पुनर्वसिष्ठेन 'खड्गे तु विवदन्ति' (१४।४७) इत्यभक्ष्यत्वमुक्तं, तच्छ्राद्धादन्यत्र, 'खड्गमां सैर्भवेत्तृप्तिरक्षय्यं पितृकर्मणि' इति श्राद्धे फलश्रुति- १. दुधित्थ । २. प्रतिषिद्धयो । ३. शल्यकाः । ४. शालुकः शाली । ५. शल्यकं ।
७८ याज्ञवल्क्यस्मृतिः दर्शनात् । तथा मत्स्यानां मध्ये सिंहतुण्डादयो भक्ष्याः । सिंहतुण्डः सिंहमुखः, रोहितो लोहितवर्ण, पाठीनश्चन्द्रकाख्यः, राजीवः पद्मवर्णः, सह शल्कैः शुक्त्या- कारैर्वर्तत इति सशल्कः। एते च सिंहतुण्डादयो १नियुक्ता एव भक्ष्याः । 'पाठीन- रोहितावाद्यौ नियुक्तौ हव्यकव्ययोः। राजीवाः सिंहतुण्डीश्च सशल्काश्चैव सर्वशः ॥' इति ( ५।१६ ) मनुस्मरणात् । 'द्विजाति'ग्रहणं शूद्रव्युदासार्थम् ॥१७७॥ भाषा—सेधा ( सेंधुआार ), गोधा ( गोह ), कछुश्रा शल्लक ( साही ) और खरगोश ये पञ्चनख ( पंजे वाले ) जीव भक्षण करने योग्य होते हैं । मछलियों में भी सिंही, रोहित ( रोहू ) पाठीन, राजीव ( पद्म के समान रंग वाली ) और सशल्क ( शुक्ति के आकार वाली ) द्विजातियों के लिये भक्ष्य होती है ॥ १७७ ॥ 'अनर्चितं वृथामांसम्' ( आ. १६७) इत्यारभ्य द्विजातिधर्मानुक्त्त्वेदानीं २चातुर्वर्ण्यधर्मानह— अतः शृणुध्वं मांसस्य विधिं भक्षणवर्जने ॥ १७८ ॥ मांसस्य प्रोक्षितादेर्भक्षणे तद्व्यतिरिक्तस्य वा निषिद्धस्य वर्जने प्रोक्षितादि- व्यतिरेकेण मांसं न भक्षयामीत्येवं सङ्कल्परूपेण विधिं सामश्रवः प्रभृतयः हे मुनयः ! शृणुध्वम् ॥ १७८ ॥ भाषा—अब मांस के भक्षण एवं त्याग का नियम सुनें ॥ १७८ ॥ तत्र भक्षणे विधिं दर्शयति— प्राणात्यये तथा श्राद्धे प्रोक्षिते द्विजकाम्यया । देवान्पितॄन्समभ्यर्च्य खादन्मांसं न दोषभाक् ॥ १७९ ॥ अन्नाभावेन ३व्याध्यभिभवेन वा मांसभक्षणमन्तरेण यदा प्राणबाधा भवति, तदा मांसं नियमेन भक्षयेत् । 'सर्वत एवात्मानं गोपायेत्' इत्यात्मरक्षाविधानात् । '३तस्मादुह न पुरायुषः स्वः कामी प्रेयात्' इति मरणनिषेधाच्च । तथा श्राद्धे मांसं निमन्त्रितो नियमेन भक्षयेत्, अभक्षणे दोषश्रवणात्, 'यथाविधि नियुक्तस्तु यो मांसं नात्ति मानवः । स प्रेत्य पशुनां याति संभवानेक- विंशति ॥' ( ५।३५) इति मनुस्मरणात् । प्रोक्षणाख्यश्रौतसंस्कारसंस्कृतस्य पशोर्यागार्थस्याग्नीषोमीयादेर्हुतावशिष्टं मांसं प्रोक्षितं तद्भक्षयेत्, अभक्षणे ४ यागानिष्पत्तेः । द्विजकाम्यया ब्राह्मणभोजनार्थं देवपित्रर्थं च यत्सादितं तेन तानभ्यर्च्यविशिष्टं भक्षयन्न दोषभाग्भवति । एवं भृत्यभरणावशिष्टमपि; 'यज्ञार्थं ब्राह्मणेर्वध्याः प्रशस्ता मृगपक्षिणः । भृत्यानां चैव वृत्यर्थमगस्त्यो ह्याचरत्पुरा५ ॥' १. नियुक्तस्यैव । २. चातुर्वर्ण्यं प्रत्याह । ३. तस्मादिह । ४. अभक्षणाद्यागा । ५. ह्याचरत्तथा ।
आचाराध्यायः ७६ इति (५।२२) मनुस्मरणात् । 'न दोषभाक्' इति दोषाभावमात्रं वदता अति- थ्याद्यर्चनावशिष्टस्याभ्यनुज्ञामात्रं न प्रोक्षितादिवन्नियम इति दर्शितम् । एवम- प्रतिषिद्धानामपि शशादीनां प्राणात्ययव्यतिरेकेणाभक्ष्यत्वावगमात् शूद्रस्यापि मांसप्रतिबद्धः सर्वविधिनिषेधाधिकारोऽवगम्यते ॥ १७९ ॥ भाषा—जब (अन्न के अभाव में या रोग में) मांस के बिना प्राण बचना कठिन हो, श्राद्ध में, प्रोक्षण नाम के (श्रौत संस्कार) में देवताओं की आहुति से अवशिष्ट, ब्राह्मण के भोजन या देवता या पितर के लिये बनाये गये मांस को देवता और पितरों की अर्चना करके खाने वाला दोष का भागी नहीं होता है ॥ १७९ ॥ इदानीं प्रोक्षिताव्यतिरिक्तस्य वृथामांसमित्यनेन प्रतिषिद्धस्य भक्षणे निन्दार्थवादमाह— वसेत्स नरके घोरे दिनानि पशुरोमभिः । संमितानि दुराचारो यो हन्त्यविधिना पशून् ॥ १८० ॥ अविधिना देवताद्युद्देशमन्तरेण यः पशून्हन्ति स तस्य पशोर्यावन्ति रोमाणि तावन्ति दिनानि घोरे नरके वसेत् । 'हन्ति' इत्यष्टविधोऽपि घातको गृह्यते । यथाह मनुः (५।५१) 'अनुमन्ता विशसिता निहन्ता क्रयविक्रयी । संस्कर्ता चोपहर्ता च खादकश्चेति घातकाः ॥' इति ॥ १८० ॥ भाषा—जो दुराचारी व्यक्ति बिना विधि के (देवता या यज्ञ के लिये नहीं अपितु स्वयं अपने लिये) पशु का वध करता है, वह उतने दिन तक घोर नरक में वास करता है जितने रोएँ उस पशु के शरीर में रहे हों ॥ १८० ॥ इदानीं वर्जने विधिमाह— सर्वान्कामानवाप्नोति हयमेधफलं तथा । गृहेऽपि निवसन्विप्रो मुनिर्मांसविवर्जनात् ॥ १८१ ॥ यः प्रोक्षितादिव्यतिरेकेण मया मांसं न भक्षितव्यमिति सत्यसंकल्पो भवति स सर्वान्कामान् तत्साधने प्रवृत्तो निर्विघ्नं प्राप्नोति, विशुद्धाशयत्वात् । यथाह मनुः (५।४७)—'यद्ध्यायते यत्कुरुते रतिं बध्नाति यत्र च । तदवाप्नोत्य- विघ्नेन यो हिनस्ति न किंचन ॥' इति । एतच्चानुषङ्गिकं फलम् । मुख्यं फल- माह—हयमेधफलं तथेति । एतच्च सांवत्सरिकसंकल्पस्य; 'वर्षे वर्षेऽश्वमेधेन यो यजेत शतं समाः। मांसानि च न खादेद्यस्तयोः पुण्यफलं समम् ॥' इति (५।५३) मनुस्मरणात् । तथा गृहेऽपि निवसन् ब्राह्मणादिश्चातुर्वर्णिको