याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
इति प्रकीर्णकप्रायश्चित्तप्रकरणम् ।
प्रायश्चित्ताध्यायः ६०६ भाषा-किसी ब्राह्मण को मारने की इच्छा से डंडा उठाने पर कृच्छ्र व्रत से और डंडा मार देने पर अतिकृच्छ्र व्रत से, मारकर रुधिर निकाल देने पर कृच्छ्रातिकृच्छ्र व्रत से और उसके चोट के स्थान पर रुधिर आ जाने पर कृच्छ्र व्रत से शुद्धि होती है ॥ २९२ ॥ इति प्रकीर्णकप्रायश्चित्तप्रकरणम् । निमित्तानामानन्त्यात्प्रतिव्यक्तिप्रायश्चित्तस्य वक्तुमशक्यत्वात्सामान्यतयोपदिष्टा- नुपदिष्टविषये प्रायश्चित्तविशेषज्ञानार्थमिदमाह- देशं कालं वयः शक्तिं पापं चावेक्ष्य यत्नतः । प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्तौ न निष्कृतिः ॥२९३॥ यदुक्तं प्रायश्चित्तजातं वक्ष्यमाणं वा तद्देशादिकमवेक्ष्य यथा कर्तुः प्राणविप- त्तिर्न भवति तथा विषयविशेषे कल्पनीयम् ; इतरथा प्रधाननिवृत्तिप्रसङ्गात् । तथा च वक्ष्यति-'वायुभक्षो दिवा तिष्ठन् रात्रिं नीत्वाप्सु सूर्यदृक्' इति, तत्र यदि हिमवद्गिरिनिकटवर्तिनामुदकवास उपदिश्यते अतिशीताकुले वा शिशिरादि- काले तदा प्राणवियोगो भवेदिति तद्देशकालपरिहारेणोदकवासः कल्पनीयः । तथा वयोविशेषादपि यदि नवतिवार्षिकादेरपूर्णद्वादशवार्षिकस्य वा द्वादशाब्दिकं प्रायश्चित्तमुपदिश्यते 'तदा प्राणा विपद्येरन्' इति ततोऽन्यवयस्के तत्प्रायश्चित्तं कल्प्यम् । अत एव स्मृत्यन्तरे 'क्वचिदर्धं क्वचित्पादः' इति वृद्धादिषु प्रायश्चित्तस्य ह्रासोऽभिहितः, तच्च प्राक्प्रपञ्चितम् । तथा धनदानतपश्चरणादिशक्त्यपेक्षया च नहि निर्धनस्य पात्रे धनं वा पर्याप्तमित्याद्युपपद्यते । तथोद्विक्तपित्तादेर्वा पराका- दिकं नापि स्त्रीशूद्रादेर्जपादिकम् । अत एव 'गजादीनामशक्नुवन् । दानं दातुं चरेत्कृच्छ्रमेकैकस्य विशुद्धये' इत्युक्तम् । तथा 'प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च' इति तपस्यशक्तस्य स्मृत्यन्तरे प्राक् प्रायश्चित्तस्य ह्रासोऽभिहितः । तथा पापं च महापातकादिरूपेण सप्रत्ययाप्रत्ययसकृदभ्यासादिरूपेण चावेक्ष्य यत्नतः सकलधर्मशास्त्रपर्यालोचनया प्रायश्चित्तं कल्पनीयम् । तत्राकामतो यदिहितं तदेव कामकृते द्विगुणं, कामतोऽभ्यासे चतुर्गुणमित्येवं स्मृत्यन्तरानुसारेण कल्पनीयम् । तथा-'महापापोपपापाभ्यां योऽभिशंसेन्मृषा परम् । अब्भक्षो मासमासीत' इत्युक्तं, तत्र महापापोपपापयोस्तुल्यप्रायश्चित्तस्यायुक्तत्वान्महापापापेक्षयोपपातके मासिकव्रतस्य ह्रासः कल्पनीयः । यत्र च हसितजृम्भिताक्रन्दितास्फालनादिना कस्मात्कुर्यात्तथा । 'नोद्गच्छतोऽम्भसि स्नायान्न च श्मश्रूवादि वर्तयेत् । अन्तर्व- १. प्रायश्चित्तनिमित्तस्य । २. चापेक्ष्य । ३. नोक्ता च । ४. उदवास । ५. द्वादशवार्षिकादिकम् । ६. जृम्भितास्फोटनानि ।
न्ध्याः पतिः कुर्वन्नप्रजा भवति ध्रुवम् ॥' इत्यादौ प्रायश्चित्तं नोपदिष्टं, तत्रापि देशाद्यपेक्षया प्रायश्चित्तं कल्प्यम् । ननु किंचिदपि निमित्तजातमनुक्तनिष्कृतिक- मुपलभ्यते; 'प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामना- दिष्टस्य चैव हि ॥' इत्यनुक्तनिष्कृतिष्वपि प्रायश्चित्तस्य वक्ष्यमाणत्वात् । गौतमे- नाप्येतान्येवानादेशे विकल्पेन क्रियेरन्स्त्र्यैकाहादयः प्रतिपादिताः । उच्यते,- सत्यमस्त्येव सामान्यतः प्रायश्चित्तोपदेशस्तथापि सर्वत्र देशकालादीनामपेक्षि- तत्वादस्त्येव कल्पनावरारः । नच हसितादिषु सर्वत्र प्राणायामशतं युक्तम्; निमित्तस्य लघुत्वात् । अतः पापापेक्षया ह्रासः कल्पनीयः प्रायश्चित्तान्तरं वा । ननु कथं पापस्य लघुत्वं ? येन प्रायश्चित्तस्य ह्रासकल्पना स्यात् । नच प्राय- श्चित्ताल्पत्वादिति वाच्यम् । अनुक्तनिष्कृतित्वादेव । सत्यम्,-किंतु अर्थवादसं- कीर्तनाद् बुद्धिपूर्वाबुद्धिपूर्वानुबन्धाद्यपेक्षया च सुबोध एव दोषस्य गुरुलघुभावः । तथा दण्डह्रासवृद्ध्यपेक्षया च प्रायश्चित्तगुरुलघुभावः । यथा ब्राह्मणावगोरणादौ सजातीयविषये प्राजापत्यादिकमुक्तम् , तत्र यदा चानुलोम्येन प्रातिलोम्येन वावगोरणादि क्रियते, यदा वा मूर्धावसिक्तादिभिस्तदा दण्डस्य तारतम्यदर्शना- देव दोषालपत्वमहत्त्वावगमात्प्रायश्चित्तस्यापि गुरुलघुभावः कल्पनीयः । दर्शि- तश्च दण्डस्य गुरुलघुभावः 'प्रतिलोमापवादेषु द्विगुणस्त्रिगुणो दमः' इत्यादिना ॥ भाषा-देश, समय, आयु, शक्ति और पाप का सावधानी से निरीक्षण करके ही अन्य प्रायश्चित्तों की कल्पना कर लेनी चाहिए जिनका विधान नहीं किया गया है ॥ २९३ ॥ इति पतितत्यागविधिः । एवं महापातकादिभिः पतितस्य प्रायश्चित्तमुक्तं, यस्त्वौद्धत्यादेतन्न चिकी- र्षति तस्य किं कार्यमित्यत आह- दासीकुम्भं बहिर्ग्रामान्नि नयेरन्स्वबान्धवाः । पतितस्य बहिः कुर्युः सर्वकार्येषु चैव तम् ॥ २९४ ॥ जीवत एव पतितस्य ये स्वा ज्ञातयो बान्धवाः पितृमातृपक्षास्ते सर्वे संनिपत्य दासी प्रेष्या तया सपिण्डादिप्रेषितया आनीतमपां पूर्णं कुम्भं घटं ग्रामाद्बहि- र्नि नयेयुः । एतच्चतुर्थ्यादिरिक्तातिथिष्वह्नः पञ्चमे भागे गुर्वादिसंनिधौ कार्यम् । (११।१८२)-'पतितस्योदकं कार्यं सपिण्डैर्बान्धवैर्बहिः । निन्दितेऽहनि सायाह्ने ज्ञात्यूत्विग्गुरुसन्निधौ ॥' इति मनुस्मरणात् ॥ अथवा दास्येव सपिण्डा- दिप्रयुक्ता निनयेत् । यथाह मनुः ( ११।१८३ ) - 'दासी घटमपां पूर्णं पर्य-
१. दर्शनाद्दोषाल्पत्व । २. बहिर्ग्रामान्निनयेयुः । ३. बान्धवैः सह ।
प्रायश्चित्ताध्यायः ६११ स्येष्रेतवत्पदा । अहोरात्रमुपासीरन्नाशौचं बान्धवैः सह ॥' इति । प्रेतवद्विधि दक्षिणामुखापसव्ययोः प्राप्त्यर्थम् । -एतच्च निनयनमुदकपिण्डदानादिप्रेतक्रियो- त्तरकालं द्रष्टव्यम् । 'तस्य विद्यागुरुयोनिसंबन्धाश्च संनिपात्य सर्वाण्युदकादीनि प्रेतकर्माणि कुर्युः, पात्रं चास्य विपर्यस्येयुः । दासः कर्मकरो वाऽवकरात् पात्रमानीब दासीघटाम् पूरयित्वा दक्षिणामुखः पदा विपर्यस्येदिदम् । अमुमनुदकं करोमि इति नामग्राहं तं सर्वेऽन्वालभेरन् प्राचीनावीतिनो मुक्तशिखा विद्यागुरवो योनि- संबन्धाश्च वीचेरन् अप उपस्पृश्य ग्रामं प्रविशेयुः' ( १९।५।७ ) इति गौतम- स्मरणात् । अयं च त्यागो यदि बन्धुभिः प्रेर्यमाणोऽपि प्रायश्चित्तं न करोति तदा द्रष्टव्यः । तस्य गुरोर्बान्धवानां राज्ञश्च समक्षं दोषानभिख्याप्यानुभाष्य पुनः पुनराचारं लभस्वेति, स यद्येवमप्यनवस्थितमतिः स्यात्ततोऽस्य पात्रं विपर्यस्येदिति शङ्खस्मरणात् । ततस्तं लब्धोदकं पतितं सर्वकार्येषु संभाषणसहासनादिषु बहिः कुर्युर्वर्जयेयुः । तथा च मनुः ( ११।१८४ ) - 'निवर्तेरंस्ततस्तस्मात्संभाषणस- हासने । दायाद्यस्य प्रदानं च यात्रामेव च लौकिकीम् ॥' इति । यदि स्नेहादिना संभाषणं करोति तदा प्रायश्चित्तं कार्यम् । 'अत ऊर्ध्वं तेन संभाष्य तिष्ठेदेकरात्रं जपन्सावित्रीमज्ञानपूर्वं चेन्त्रिरात्रम्' इति ॥ २९४ ॥ भाषा-पतित व्यक्ति के जाति वाले और बान्धव सभी दासी के द्वारा ( उसके नाम से ) जल से भरा हुआ घड़ा गाँव से बाहर निकलवा दें और सभी कार्यों से उसका बहिष्कार करें ॥ २९४ ॥ यदा तु बन्धुत्यागादन्यथा वा जातवैराग्यः प्रायश्चित्तं च कृतं, तदा किं कार्य- मित्यत आह- चरितव्रत आयाते निनयेरन्नवं घटम् । जुगुप्सेरन्न चोभ्येनं संवसेयुश्च सर्वशः ॥ २९५ ॥ कृतप्रायश्चित्ते बन्धुसमीपं पुनरायाते तत्सपिण्डाद्यास्तेन सहिता नवम् अनु- पहतं घटम् उदकपूर्णं निनयेयुः । -एतच्च निनयनं पुण्यहशविस्नानोत्तरकालं द्रष्ट- व्यम् । ( ११।१८६ ) - 'प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवम् । तेनैव सार्धं प्रास्येयुः स्नात्वा पुण्ये जलाशये ॥' इति मनुस्मरणात् । गौतमेन तु विशेष उक्तः - 'यस्तु प्रायश्चित्तेन शुद्ध्येत्तस्मिन् शुद्धे शातकुम्भमयं पात्रं पुण्यतमाद् हृदात्पूरयित्वा स्रवन्तीभ्यो वा, तत एनमप उपस्पर्शयेयुः; अथास्मै तत्पात्रं दद्युस्तत्सं प्रतिगृह्य जपेत् 'शान्ता द्यौः शान्ता पृथिवी शान्तं शिवमन्तरिक्षं यो रोचनस्तमिह गृह्णामि' इत्येतैर्यजुर्भिः पावमानीभिस्तरत्समन्दीभिः कूष्माण्डै- १. विपरिषिंचेयुः । २. चाऽप्येनं दंषिषेयुश्च । ३९ या०
श्वाज्यं जुहुयाद्धिरण्यं दद्याद्द्वां चाचार्याय । यस्य तु प्राणान्तिकं प्रायश्चित्तं स मृतः शुद्धयेदेतदेव शान्त्युदकं सर्वेषूपपातकेषु' ( गौ० १९।१०।१७) इति । तत एनं कृतप्रायश्चित्तं ते नैव कुत्सयेयुः । तथा सर्वकार्ये क्रयविक्रयादिषु तेन सह संव्यवहरेयुः ॥ २९५ ॥ भाषा-प्रायश्चित्त का व्रत करके यदि बन्धु बान्धवों में मिलने के लिये आवे तो सपिण्ड उसके साथ दूसरा जल से पूर्ण नया घड़ा ( किसी तालाब में स्नान करके वहाँ से ) मँगवावें । तब उसको घृणित न समझें और उसे सब प्रकार से अपने साथ सम्मिलित कर लें ॥ २९५ ॥ पूर्वोक्तस्य पतितपरित्यागादिविधेरतिदेशमाह- पतितानामेष एव विधिः स्त्रीणां प्रकीर्तितः । वासो गृहान्तिके देयमन्नं वासः सरक्षणम् ॥ २९६ ॥ य एव पुरुषाणां परित्यागे पिण्डोदकदानविधिः कृतप्रायश्चित्तानां परिग्रह- विधिश्च स एव पतितानां स्त्रीणामपि वेदितव्यः । इयांस्तु विशेषः-पति- ताभ्योऽपि ताभ्यः स्त्रीभ्यः कृतोदकादिकर्मभ्यो वासस्तृणपर्णमयं कुटीगृहकं प्रधान- गृहसमीपे देयम् । तथा प्राणधारणमात्रमन्नं मलिनं च वस्त्रं पुनः पुरुषान्त- रोपभोगनिवारणसहितं सतिरस्कारं देयम् ॥ २९६ ॥ भाषा-यही विधि पतित स्त्रियों के लिए भी है; उन्हें घर के निकट दूसरा निवासस्थान दे देना चाहिए और केवल जीवन चलाने भर अन्न और वस्त्र देना चाहिए और उसकी रक्षा करनी चाहिए ॥ २९६ ॥ ननु काः पतितास्ता यासामयं परित्यागविधिरित्यत आह- नीचाभिगमनं गर्भपातनं भर्तृहिंसनम् । विशेषपतनीयानि स्त्रीणामेतान्यपि ध्रुवम् ॥ २६७ ॥ हीनवर्णगमनं गर्भपातनमब्राह्मण्या अपि भर्तुः अब्राह्मणस्यापि हिंसन- मित्येतानि स्त्रीणामसाधारणानि पतननिमित्तानि । 'अपि'शब्दात्पुरुषस्य यानि पतननिमित्तानि महापातकातिपातकानुपपातकान्यभ्यस्तानि चोपपा- तकादीनि तान्यपि स्त्रीणां ध्रुवं निश्चितं पतनकारणानि भवन्ति । अत एव शौनकः- 'पुरुषस्य यानि पतननिमित्तानि स्त्रीणामपि तान्येव ब्राह्मणी हीन- वर्णसेवायामधिकं पतति' इति । यत्तु वसिष्ठेनोक्तम्-( २८।७ ) 'त्रीणि स्त्रियाः पातकानि लोके धर्मविदो विदुः । भर्तृवधो भ्रूणहत्या स्वस्य गर्भस्य पातनम् ॥' इति 'भ्रूणहत्या' ग्रहणं कृतं तद् दृष्टान्तार्थं न पुनरितरेषां महा- पातकादीनां पतनहेतुत्वनिरासार्थम् । यदपि तेनैव-( २१।१० ) 'चतस्रस्तु
Here is the complete line-by-line Devanagari transcription of the page:
प्रायश्चित्ताध्यायः ६१३ यस्त्याज्याः शिष्यगा गुरुगा च या । पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥' इति । 'चतसृणामेव परित्याग' इत्युक्तं तस्यापि तासां प्रायश्चित्तमचि- कीर्षन्तीनां मध्ये चतसृणामेव शिष्यगादीनां चैलान्नगृहवासादिजीवनहेतु- स्वादुपच्छेदेन त्यागं कुर्यान्नान्यासा मित्यभिप्रायः । अतश्चान्यासां पतितानां प्रायश्चित्तमकुर्वतीनामपि 'वासो गृहान्तिके देय'मित्यादिकं कर्तव्यमित्यव- गम्यते ॥ २९७ ॥ भाषा-निम्नवर्ण के पुरुष के पास जाना, गर्भपात करना, पति की हिंसा इन सब कर्मों से स्त्रियाँ विशेष रूप से पतित होती हैं ॥ २९७ ॥ 'जुगुप्सेरन्न चाप्येनं संविशेयुश्च सर्वशः' (प्रा० २९५) इत्यस्यापवादमाह- शरणागतबालस्त्रीहिंसकान्'संवसेन्न तु । चीर्णव्रतानपि सतः कृतघ्नंसहितानूिमान् ॥ २९८ ॥ शरणागतादिव्यापादनकारिणः कृतघ्नसहितान्प्रायश्चित्तेन वीतदोषानपि न संव्यवहरेदिति वाचनिकोऽयं प्रतिषेधः, किमिति वचनं न कुर्यात् ? नहि वचनस्यातिभारोऽस्ति, अतश्च यद्यपि व्यभिचारिणीनां वधेऽल्पीय एव प्राय- प्रायश्चित्तं, तथापि वाचनिकोऽयं संव्यवहारप्रतिषेधः ॥ २९८ ॥ भाषा-शरण में आये हुए बालक और स्त्री की हिंसा करने वाले और कृतघ्नियों के प्रायश्चित्त द्वारा दोष हीन होने पर भी इनके साथ कोई व्यवहार नहीं रखना चाहिए ॥ २९८ ॥ एवं प्रसङ्गेन स्त्रीषु विशेषमभिधाय प्रकृत एव चरितव्रतविधौ विशेषमाह- घटेऽपवर्जिते ज्ञातिमध्यस्थो यवसं गवाम् । सं दद्यात्प्रथमं गोभिः सत्कृतस्य हि' सत्क्रिया ॥ २९९ ॥ घटेऽपवर्जिते हृदादुद्धृत्य पूर्णे कुम्भेऽवनिनीतेऽसौ चरितव्रतः सपिण्डादिम- ध्यस्थो गोभ्यो यवसं दद्यात् । ताभिः प्रथमं सत्कृतस्य पूजितस्य पश्चाज्ज्ञातिभिः ज्ञात्वादिभिः सत्क्रिया कार्या । गोभिश्च तस्य सत्कारस्तद्दत्तयवसभाषणमेव । यदि गावस्तद्दत्तं यवसं न गृह्णीयुस्तर्हि पुनः प्रायश्चित्तमनुतिष्ठेत् । यदाह हारीतः- 'स्वशिरसा यवसमादाय गोभ्यो दद्याद्यदि ताः प्रतिगृह्णीयुरथैनं प्रवर्तयेयुः' इति इतरथा नेत्यभिप्रेतम् ॥ २९९ ॥ महापातकादिपञ्चविधेऽपि दोषगणे प्रातिस्विकव्रतसंदोहमभिधायाधुना सकल- व्रतसाधारणं धर्ममाह- विख्यातदोषः कुर्वीत पर्षदोऽनुमतं व्रतम् । १. संविशेन्न तु । २. सदा । ३. प्रद्यद्यात्प्रथमम् । ४. सह क्रियतः ।
६१४ याज्ञवल्क्यस्मृतिः यो दोषो यावत्कर्तुं संपाद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षद्रुपदिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गि- रसा विशेष उक्तः—'कृते निःसंशये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो वर्धये- त्पापं यावन्नाख्याति पर्षदि ॥ सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । पर्षदानुमतस्तत्त्वं सर्वं विख्यापयेन्नरः । व्रतमादाय भूयोऽपि तथा स्नात्वा व्रतं चरेत् ॥' इति । विख्यापनं च पर्षद्वक्षिणादानान्तरं कार्यम् । यथाह पराशरः— 'पापं विख्यापयेत्पापी दत्त्वा धेनुं तथा वृषम्' इति ।-एतच्चोपपातकविषयम् । महापातकादिष्वधिकं कल्प्यम् । यत्तूक्तम्— 'तस्माद् द्विजः प्राप्तपापः सकृदा- प्लुत्य वारिणि । विख्याप्य पापं पर्षद्भ्यः किंचिद्दत्त्वा व्रतं चरेत् ॥' इति तत्प्रकी- र्णकविषयम् । पर्षत्स्वरूपं च मनुना दर्शितम्—'त्रैविद्यो हेतुकस्तर्की नैरुक्तो^२ धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदैषा दशावरा ॥' हेतुको मीमांसार्थादि- तत्त्वज्ञः, तर्की न्यायशास्त्रकुशलः, तथान्यदपि पर्षद्वयं तेनैव दर्शितम्— (मनु० १२।११२) 'ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । अपरा पर्षद्द्विज्ञेया धर्मसंशयनिर्णये ॥' इति । तथा—(मनु० १२।११३) '^३एकोऽपि वेदविद्धर्मं यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मो नाज्ञानामुदितोऽयुतैः ॥' इति । आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया । यत्तु स्मृत्यन्तरेऽभिहि- तम्—'पातकेषु शतं पर्षत्सहस्त्रं महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥' इति,-तदपि महापातकादिदोषानुसारेण पर्षदो गुरु लघुभावप्रति- पादनपरं न पुनः संख्यानियमार्थम्; मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शितः—'स्वयं तु ब्राह्मणा ब्रूयुरल्पदोषेषु निष्कृतिम् । राजा च ब्राह्मणाश्चैव महत्सु च परीक्षितम् ॥' इति तया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम्—'आर्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥' इत्यङ्गिरःस्मरणात् । तया पर्षदा ज्ञात्वैव व्रतमुपदेष्टव्यम्—'अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्राय- श्चित्ती भवेत्पूतः किल्बिषं पर्षदं व्रजेत् ॥' इति वसिष्ठस्मरणात् ॥ क्षत्रियादीनां तु कृतेनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः—'न्यायतो ब्राह्मणः क्षिप्रं क्षत्रि- यादेः कृतेनसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् । तथा शूद्रं समा- साद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इति । तत्र च वागाद्यनुष्ठानशीलानां जपादिकं वाच्यम् , इतरेषां तु तपः । 'कर्मनि-
१. विख्यातापायं वक्तव्यम्ः । २. निरुक्तो । ३. एकोऽपि धर्मविद्धर्मम् । ४-५. तथा च कर्तव्यं ।
प्रायश्चित्ताध्यायः ४१५ द्वास्तपोनिष्ठाः कदाचित्पापमागताः। जपहोमादिकं तेभ्यो विशेषेण प्रदीयते ॥ ये नामधारका विप्रा मूर्खा धनविवर्जिताः। कृच्छ्रचान्द्रायणादीनि तेभ्यो दद्या- द्विशेषतः' ॥ २९९ ॥ भाषा—जलाशय से जल से भरा हुआ घड़ा लेकर आने पर सपिण्ड आदि जाति के लोगों के बीच गायों को कोमल दूब खिलावे । गौएँ यदि उसका सत्कार करती हैं ( उसकी दी हुई घास खाती हैं ) तभी जाति के लोग उसका सत्कार करें ( जाति में सम्मिलित करें ) ॥ २९९ ॥ इति प्रकाशप्रायश्चित्तप्रकरणम् । अथ रहस्यप्रायश्चित्तम् । 'व्याख्याय ख्यातदुरितशातनों व्रतसंततिम् । रहःकृताघसन्दोहहारिणीं व्याहरन्मुनिः ॥' तत्र प्रथमं सकलरहस्यव्रतसाधारणं धर्ममाह— अनभिख्यातदोषस्तु रहस्यं व्रतमाचरेत् ॥ ३०० ॥ कर्तृव्यतिरिक्तैरनभिख्यातो दोषो यस्यासौ रहस्यमप्रकाशं प्रायश्चित्तमनु- तिष्ठेत् । अतः स्त्रीसंभोगादौ तस्या अपि कारकत्वात् तदितरैरविज्ञातदोषस्य रहस्यव्रतमिति मन्तव्यम् । तत्र यदि कर्ता स्वयं धर्मशास्त्रकुशलस्तदा परस्मिन्न- विभाव्य स्वनिमित्तोचितं प्रायश्चित्तमनुतिष्ठेत् । यस्तु स्वयमनभिज्ञोऽसौ केन- चिद्रहो ब्रह्महत्यादिकं कृतं तत्र किं रहस्यप्रायश्चित्तमित्यन्यव्याजेनावगम्य रहो- व्रतमनुतिष्ठेत् । अत एव स्त्रीशूद्रयोश्चाप्युक्तेनैव मार्गेण रहस्यव्रतज्ञानसिद्धेरधि- कारसिद्धिः । नच वाक्यं रहस्यव्रतानां जपादिप्रधानत्वाद्विद्ययोश्च स्त्रीशूद्रयो- स्तदनुपपत्तेरनधिकार इति । यतोऽनैकान्ततो रहस्यव्रतानां जपादिप्रधानत्वम् । दानादेरप्युपदेशाद् गौतमोक्तप्राणायामादेरपि संभवाच्च । इतरेषामपि मन्त्रदै- वतर्षिच्छन्दःपरिज्ञानमात्रमेवाधिकारोपयोगि, न स्वन्यविषयम् । नहि तडाग- निर्माणादौ ज्योतिष्टोमादिविषयिणी प्रतिपत्तिरुपयुज्यते । देवतादिपरिज्ञानं त्ववश्यमपेक्षणीयम् ; 'अविदित्वा ऋषिं छन्दो दैवतं योगमेव च । योऽध्यापये- ज्जपेद्वापि पापीयाञ्जायते तु सः ॥' इति व्यासस्मरणात् । अन्नाद्याहारविशे- षानुक्तौ पयःप्रभृतयः, कालविशेषानुक्तौ संवत्सरादयः, देशविशेषानुक्तौ शिलो- च्चयादयो गौतमाद्यभिहिताः प्रकाशप्रायश्चित्तवदन्वेषणीयाः ॥ ३०० ॥ १. अभिख्यापितदोषस्तु रहस्यव्रतमाचरेत् ।
६१६ याज्ञवल्क्यस्मृतिः भाषा—जिसका दोष सबको ज्ञात हो गया हो वह पर्षद की आज्ञा से (जैसा पर्षद द्वारा विहित हो वैसा) व्रत करे और जिसका पाप लोगों को ज्ञात न हो वह गुप्त रूप से व्रत करे ॥ ३०० ॥ एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवद् ब्रह्महत्यादिक्र- मेणैव रहस्यप्रायश्चित्तान्याह— त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्ध्येत दत्त्वा गां च पयस्विनीम् ॥ ३०१ ॥ त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं 'ऋतं च सत्यं च' इति ऋचमानुष्टुभं आववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रह्महा विशुध्यति । जपञ्चान्तर्जले निमग्नेन त्रिरावर्तनीयः । यथाह सुमन्तुः—'देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्षणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखीं वाऽन्यद्वाऽगम्यागमनं कृत्वाऽघमर्षणमे- वान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति' इति ।—एतच्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११।२४८)—'सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥' इति,—तदप्यस्मिन्नेव विषये गोदानांश- क्तस्य वेदितव्यम् । यत्तु गौतमेन षट्त्रिंशद्वार्षव्रतमुक्तवोक्तं 'तद्व्रत एव ब्रह्मह- त्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्' (२४।१०) इति,—तदकामतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम्—'ग्रामात्प्राचीं चोदीचीं दिशमुपनिष्क्रम्य स्नातः शुचिः शुचिवासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्क्लिन्न- वासोः सकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतमपराह्ने शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्रान्महापात- केभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरति' (३।६।४) इति,—तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवन- स्थवधविषयं वा । यत्तु मनुनोक्तम् (११।२५८)—'अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥' इति,— तत्कामतः श्रोत्रियादिवधविषयम्, इतरत्तु कामतोऽभ्यासविषयं वा । बृहद्वि- ष्णुनाक्तम्—'ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूते- न्धनमग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति' १. विशुद्धयेत्तु । २. गां दत्त्वा च पयः । ३. ऽगङ्ग्या गमनम् । ४. कामतो ऽवध । ५. वासाः सकृत् ।
प्रायश्चित्ताध्यायः ६१७ इति,-तन्निर्गुणवधविषयमनुग्राहकविषयं वा । यत्तु बसेनेनोक्तम्-'त्र्यहं तूपवसे- युक्तश्चिरहोऽभ्युपयन्नपः । मुच्यते पातकैः सर्वैस्त्रिर्जपित्वाऽघमर्षणम् ॥' इति,- तद्गुणवतो हन्तुर्निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत्तु हारीतेनोक्तम्- ‘महापातकातिपातकोपपातकानामेकतममेव संनिपाते चाघमर्षणमेव त्रिर्जपेत्’ इति,-तन्निमित्तकर्तृविषयम् । एवमन्यान्यपि स्मृतिवाक्यान्यन्विष्यैवमेव विषयेषु विभजनीयानि ग्रन्थगौरवभयान्न लिख्यन्ते । एतदेव व्रतजातं यागस्थयोषित्प्र- ऋत्विट्स्वात्रेय्यामाहिताग्निपत्न्यां गर्भिण्यामविज्ञाते च गर्भे व्यापादिते तुरीयां- शन्यूनमनुष्ठेयम् ॥ ३०१ ॥ भाषा-ब्राह्मण की हत्या करने वाला तीन दिन उपवास करके, जल में खड़ा होकर अघमर्षण ऋषि के सूक्त ( 'ऋतं च सत्यं च' आदि ) का जप करके एक दूध देने वाली गौ का दान करने पर शुद्ध होता है । ( यह ब्रह्महत्या का रहस्य प्रायश्चित्त हुआ ) ॥ ३०१ ॥ प्रायश्चित्तान्तरमाह- लोमभ्यः स्वाहेत्यथवा दिवसं मारुताशनः । जले स्थित्वाऽभिजुहुयाच्चत्वारिंशद्घृताहुतीः ॥ ३०२ ॥ अथवाऽहोरात्रमुपोषितो रात्रावुदके वासं कृत्वा प्रातर्जलादुत्तीर्य 'लोमभ्यः स्वाहा' इत्यष्टैिरष्टभिर्मन्त्रैरेकैकैन पञ्चपञ्चाहुतय इत्येवं चत्वारिंशद्घृताहुतीर्जु- हुयात् ।-इदं च पूर्वोक्तसमानविषयम् ; उदवासस्य क्लेशबाहुल्यात् ॥ ३०२ ॥ भाषा-अथवा एक दिन-रात उपवास करके, रात्रि भर जल में रहकर प्रातःकाल जल से निकल कर 'लोमभ्यः स्वाहा' आदि आठ मंत्रों से प्रत्येक मंत्र के साथ पाँच-पाँच आहुति देकर चालीस बार आहुति करे ॥ ३०२ ॥ क्रमप्राप्तं सुरापानप्रायश्चित्तमाह- त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः । सुरापञ्चत्वारिंशद्घृताहुतीरित्यनुवर्तते । त्रिरात्रमुपोषितः कूष्माण्डीभिः 'यदिवा देवहेडनम्' इत्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुभिर्मन्त्रलिङ्गदेवताभिॠग्भिश्चत्वा- रिशद्घृताहुतीर्हुत्वा शुचिर्भवति । तथा बौधायनेनाप्युक्तम् -'अथ कूष्माण्डी- भिर्जुहुयाद्योऽपूत एवात्मानं मन्येत यावदर्वाचीनमेनो भ्रूणहत्यायास्तस्मा- न्मुच्यते । अयोनौ वा रेतः सिक्त्वाऽन्यत्र स्वप्नात्।' इति । यत्तु मनुना ( ११।२४९ )—'कौरसं' जप्त्वाप इत्येतद्वासिष्ठं च प्रतीत्यृचम् । माहित्रं शुद्ध- १. स्वाहेति दि वा । २. मासं जप्त्वाप इत्येतद्वासिष्ठं च ऋचं प्रति । आविश्वं शुद्ध ।
६१८ याज्ञवल्क्यस्मृतिः बत्यश्च सुरापोऽपि विशुद्ध्यति ॥' इति । मासं प्रत्यहं षोडशकृत्वोऽपनःशो- शुचदघं प्रतित्स्तोमेभिरुत्सं वासिष्ठम् । महित्रीणामवोऽस्वेतोग्विन्द्रस्तवामेत्येते- षामन्यतमस्य जप उक्तः, स त्रिरात्रोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एतच्चाकामतः पैष्ट्याः सकृत्पाने, गौडीमाध्व्योस्तु पानावृत्तौ च वेदितव्यम् । यच्च मनुना ( ११।२५६ ) - 'मन्त्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । स गुर्वप्यपहन्येनो जप्त्वा वा नम इत्यृचम् ॥' इति । संवत्सरं प्रत्यहं 'देवकृ- तस्यैनसः' इत्यादिभिरष्टाभिर्मन्त्रैर्होमो 'नम इदुग्रं नम आविवास' इत्येतस्या ऋचो वा जप उक्तः, स कामकारविषयः । यत्तु महापातकसंयुक्तोऽनुगच्छेद्गाः समाहितः । अभ्यस्याब्दं पावमानीर्भैक्षाहारो विशुद्ध्यति ॥' इति,-तदभ्यास- विषयम् , समुच्चितमहापातकविषयं वा । सुवर्णस्तेयप्रायश्चित्तमाह- ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ॥ ३०३ ॥ ब्राह्मणः स्वर्णहारी पुनस्त्रिरात्रोपोषितः जलमध्यस्थो 'नमस्ते रुद्र मन्यव' इति शतरुद्रियजपयुक्तः शुद्ध्यतीति । शातातपेनात्र विशेष उक्तः - 'मद्यं पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । अश्माच्छन्नो भस्म- शय्यां शयानो रुद्राध्यायी मुच्यते सर्वपापैः ॥' इति । जपश्श्चैकादशकृत्वः कार्यः । 'एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥' इत्यत्रिमरणात् । यत्तु मनुना ( ११।२५० ) - 'सकृज्जप्त्वाऽ- स्यवामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥' इति द्विपञ्चाशदृक्संख्याकस्य 'अस्य वामस्य पलितस्य होतुः' इति सूक्तस्य तथा 'यज्जाग्रतो दूरमुदैति दैवम्' इति शिवसंकल्पदृष्टस्य षडृचस्य वा सकृज्जप उक्तः सोऽत्यन्तनिर्गुणस्वामिकस्वर्णहरणे गुणवतोऽपहर्तुर्द्रष्टव्यः । सुवर्णन्यून- परिमाणविषयोऽनुग्राहकप्रयोजकविषयो वा । आवृत्तौ तु 'महापातकसंयुक्तोऽ- नुगच्छेत्' इत्यादिनोक्तं द्रष्टव्यम् ॥ ३०३ ॥ भाषा-सुरापान करने वाला तीन दिन-रात उपवास करके कूष्माण्ड ऋषि के ('यददेवा देवहेडनम्' आदि) मन्त्र से चालीस बार आहुति करने पर शुद्ध होता है और (ब्राह्मण) का स्वर्ण चुराने वाला जल में खड़ा होकर रुद्र का ('नमस्ते रुद्र मन्यवे') जप करने पर दोषमुक्त होता है ॥ ३०३ ॥ क्रमप्राप्तं गुरुतल्पगप्रायश्चित्तमाह- सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । गौर्दैद्या कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ॥ ३०४ ॥ १. सुरापः स्वर्णहारी च ।
गुरुतल्पगस्तु 'सहस्रशीर्षा' इति षोडशर्चसूक्तं नारायणदृष्टं पुरुषदेवत्यमानु- ष्टुभं त्रिष्टुबन्तं जपंस्तस्मात्पापान्मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्यया- दावृत्तिर्गम्यते । अत एव यमेनोक्तम् - 'पौरुषं सूक्तमावर्त्य मुच्यते सर्वकि- ल्बिषात्' इति । आवृत्तौ च संख्यापेक्षायामघस्तनश्लोकगता चत्वारिंशत्संख्याऽ- नुमीयते । अत्रापि प्राक्तनश्लोकगतं 'त्रिरात्रोपोषित' इति संबध्यते । अत एव बृहद्विष्णुः - 'त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुद्ध्येत' इति । एभिश्च सुरापसुवर्णस्तेनगुरुतल्पगैस्त्रिभिः पृथक्पृथगस्य त्रिरात्रव्रतस्यान्ते बहुक्षीरा गौर्देया ।- इदमकामविषयम् । यत्तु मनुना (११।२५१) - 'हवि- ष्पान्तीमभ्यस्य नतमंह इतीति च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥' इति । 'हविष्पान्तमजरं स्वर्विदं', 'नतमंहोनदुरितं', 'इति वा इति मे मनः', 'सहस्रशीर्षे'त्येषामन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः, सोऽप्य- कामविषय एव । कामतस्तु 'मन्त्रैः शाकलहोमीयैः' इति मनूक्तं द्रष्टव्यम् । यत्तु षट्त्रिंशन्मतेऽभिहितम् – 'महाव्याहृतिभिर्हो मस्तिलैः कार्यो द्विजन्मना । उपपा- तकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥ महापातकसंयुक्तो लक्षहोमेन शुद्ध्यति ॥' इति, - तदावृत्तिविषयम् । यत्तु यमेनोक्तम् – 'जपेद्वाप्यस्यवामीयं पावमानीस्तथापि वा । कुन्तापं बालखिल्यंश्च निविद्प्रैषान्वृषाकपिम् । होतॄन्द्रुद्रांत्सकृज्जप्त्वा मुच्यते सर्वपातकैः ॥' इति, -तद्दुयभिचारिणीगमनविषयम् । यानि पुनः गुरुतल्पातिदेश- विषयाणि तत्समानि वाऽतिपातकोपपातकपदामिधेयानि, तेषु तुरीयांश न्यूनमर्धोनं च क्रमेण वेदितव्यम् । पातकातिपातकोपपातकमहापातकानामेकतमे संनिपाते वा अघमर्षणमेव त्रिर्जपेदिति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश्च 'स त- स्यैव व्रतं कुर्यात्' इति वचनाद्येन सह संसर्गस्तदीयमेव प्रायश्चित्तम् । न च वाच्यम् अध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वाद्वहस्यत्वानुपपत्तिरिति । यतः सत्यप्य- नेककर्तृकत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्येव रहस्यप्रायश्चित्तम् । एवमतिपातकादिसंसर्गिणोऽपि तदीयमेव प्रायश्चित्तं वेदितव्यम् ॥ ३०४ ॥ भाषा-गुरुपत्नी का भोग करने वाला 'सहस्रशीर्षा' आदि सोलह ऋचाओं के सूक्त का जप करने से पापमुक्त होता है। इन सबको (सुरापी, सुवर्णहारी और गुरुतल्पग को) त्रिरात्रव्रत के अन्त में एक दूध देने वाली गाय का दान करना चाहिए ॥ ३०४ ॥ इति महापातकरहस्यप्रायश्चित्तप्रकरणम् । १. षोडशऋचां चत्वारिंशत्संख्याकजप उक्तः ।
६२० याज्ञवल्क्यस्मृतिः क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तमाह— प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥ ३०५ ॥ गोवधादिषट्पञ्चाशदुपपातकजातानामनादिष्टरहस्यव्रतानां च जाति- भ्रंशकरादीनां सर्वेषामपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानामप्यपनुत्तये प्राणायामाः कार्याः । तत्र च महा- पातकेषु चतुःशतम्, अतिपातकेषु त्रिशतम्, अनुपातकेषु द्विशतमिति संख्या- विवृद्धिः कल्पनीया। प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात् प्रकीर्णकेषु च ह्रासः कल्प्यः । अत एवोक्तं यमेन—'दशप्रणव- संयुक्तैः प्राणायामैःशतैः शतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥' इति । बौधायनेनाप्यत्र विशेष उक्तः—'अपि वाक्चक्षुःश्रोत्रत्वक्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुद्ध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक्पृथक् सप्ताह्ं सप्त- प्राणायामान्धारयेत् । अभक्ष्यभोज्यामेध्यप्राशनेषु तथा चाऽपण्यविक्रयेषु मधु- मांसघृततैललाक्षालवणरसानां वर्जितेषु यच्चान्यदपण्यं युक्तं स्याद् द्वादशाहं द्वादश द्वादश प्राणायामान्धारयेत् । अथ पातकोपपातकवर्ज्यं यच्चान्यदपेयं युक्तं स्यादर्थमासं द्वादश द्वादश प्राणायामान्धारयेत् उपपातकपत्तनीयवर्जं यच्चाप्य- न्यदेवं युक्तं स्यान्मासं द्वादशार्धमासान् द्वादश द्वादश प्राणायामान्धारयेत् । अन्यपातकवर्ज्यं यच्चाप्यन्यदपेयं युक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादश द्वादश प्राणायामान् धारयेदिति । तत्र वाक्चक्षुरित्यादिप्राणायामत्रयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनान्नभोजनेत्यादि- नोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा 'अभक्ष्यभोज्ये'- त्यादिनोक्ताश्चतुश्चत्वारिंशदधिकशतप्राणायामा अप्युपपातकविशेषाभिप्राया एव । अथ 'पातकोपपातकवर्ज्य'मित्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकरा- च्छिप्रायाः । अथ 'पातकवर्ज्य'मित्यादिनोक्ताः षष्ट्यधिकशतत्रयप्राणायामाः गोवधाद्युपपातकाभिप्रायाः । अथ 'पातकवर्ज्य'मित्यादिनोक्ताः षष्ट्यधिकद्विशत- सहितद्विसहस्रसंख्याकाः प्राणायामाः अतिपाताकनुपपातकाभिप्रायाः । अथ पातकेष्वित्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश्चतुःसहस्रप्राणायामा महापातक- विषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकमत्यन्ताभ्यासविषयं, समुच्चितविषयं वा । यत्तु मनुना । ( ११।२५२ )—'एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेक्ष्यं जपेदब्दं यत्किंचेदमितीति वा ॥' इत्यब्दं यावत्प्रत्यहमर्थमन्तरादित्येष्ठेषु कालेषु 'अवतेहेळोवरुण' इत्यनया ऋचो 'यत्किं- १. अर्धमासद्वादशद्वादश । २. पातकवर्जमित्यादि ।
चेदम्’ इत्यस्याः, ‘इति वा इति मे मनः’ इत्यस्याश्च जप उक्तः सोऽप्यभ्यास- विषयः ॥ ३०५ ॥ भाषा—तब उपपातकों की और अन्य सभी पापों की, जिनका विधान नहीं किया गया है, शुद्धि के लिये सौ बार प्राणायाम करना चाहिए ॥ ३०५ ॥ उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादमाह— ओङ्काराभिष्टुतं सोमसलिलं पावनं पिबेत् । कृत्वा हि¹ रेतोविण्मूत्रप्राशनं तु² द्विजोत्तमः ॥ ३०६ ॥ द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसमोंङ्कारेणाभिमन्त्रितं शुद्धि- साधनं पिबेत् ।-एतच्चाकामकारविषयम् । कामतस्तु सुमन्तूक्तम्—‘रेतो- विण्मूत्रप्राशनं कृत्वा लशुनपलाण्डुगृञ्जनककुम्भिकादीनामन्येषां चा³भक्ष्याणां सक्षणं कृत्वा हंसग्रामकुक्कुटश्वशृगालादिमांसभक्षणं च कृत्वा ततः कण्ठमात्रमुदकमवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिरपामुदकं पीत्वा तदेतस्मात्पूतो भवती’ति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरमुक्तम् (११।२५३)— ‘प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मान- वस्यहात् ॥’ इति । अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्वप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम्—‘अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्ष्यभुक्’ (११।२५५) इति ॥ ३०६ ॥ भाषा—वीर्य, विष्ठा या मूत्र (भूल से) मुख में डालने पर द्विज ओङ्कार मन्त्र से अभिमन्त्रित सोमलता का पवित्र रस पीए ॥ ३०६ ॥ अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तमाह— निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । ⁴त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३०७ ॥ रजन्यां वासरे वा यत्प्रमादादिकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत्सर्वं प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथा च यमः—‘यदह्नात्कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां संध्यां प्राणायामैर्निहन्ति तत् ॥’ इति । शातातपेनाप्युक्तम्—‘अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं च संध्या बहिरुपासिता ॥’ इति ॥३०७॥ भाषा—रात्रि या दिन में जो कुछ भी पापकर्म अज्ञानवश हुआ रहता है वह तीनों काल की सन्ध्या करने से नष्ट हो जाता है ॥ ३०७ ॥ १. तु । २. च । ३. चामक्ष्यभक्षणम् । ४. त्रिकाल ।
६२२ याज्ञवल्क्यस्मृतिः अथ सकलमहापातकादिसाधारणान्पवित्रमन्त्रानाह— शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः। सर्वपापहरा १ह्येते रुद्रैकादशिनी तथा ॥ ३०८ ॥ शुक्रियं नाम आरण्यकविशेषः 'विश्वानि देव सवितः' इत्यादिर्वाजसनेयके पठ्यते, आरण्यकं च यजुः 'ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये' इत्यादि तत्रैव पठ्यते, तयोर्जपः सकलमहापातकादिहरः । तथा गायत्र्याश्च महापातकेषु लक्षमतिपातकोपपात कयोर्दशसहस्रमुपपातकेषु सहस्रं प्रकीर्णकेषु शतमित्येवं विशेषतो जपः सर्वपापहरः । तथा च गायत्रोमधिकृत्य श्लोकः शङ्खेनोक्तः—'शतं जप्ता तु सावित्री महापातकनाशिनी । सहस्रजप्ता तु तथा पातकेभ्यः प्रमो- चिनी ॥ दशसाहस्रजाप्येन ३सर्वकिल्बिषनाशिनी । लक्षं जप्ता तु सा देवी महा- पातकनाशिनी ॥ सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः । सुरापश्च विशुद्ध्यन्ति लक्षं जप्त्वा न संशयः ॥' इति । यत्तु चतुर्विंशतिमते उक्तम्—'गायत्र्यास्तु जपेश्चकोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहतारं गायत्र्या लक्षसप्ततिः । गायत्र्या लक्षषष्ठ्या तु मुच्यते गुरुत- ल्पगः ॥' इति, तद्गुरूत्वाऽप्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्राऽनुवाकानां समाहारो रुद्रैकादशिनी । सा च विशेषतो जप्ता सर्वपापहरा । 'एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । महद्द्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥' इति महापातकेष्वेकादशगुणावृत्तिदर्शनात् अतिपातकादिषु चतुर्थ- चतुर्थांशह्रासो योजनीयः । 'च'शब्दोऽघमर्षणादिसमुच्चयार्थः । यथाह वसि- ष्ठः—'४सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्ड्यः पावमान्यश्च दुर्गा सावित्र्यथैव च ॥ अभिषङ्गाः पदस्तोमाः सामानि व्याहतीस्तथा । भारदण्डानि सामानि गायत्रं रैवतं तथा ॥ पुरुषव्रतं च भासं च तथा देवव्रतानि च । आर्लिङ्गं बार्हस्पत्यं च वाक्सूक्तं मध्वृचस्तथा ॥ शतहृद्रियाथर्वशिरस्त्रिसुपर्णं महाव्रतम् । गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्धे च सामनी ॥ श्रीण्याज्यदोहानि रथन्तरं च अग्ने- र्वतं वामदेव्यं बृहच्च । एतानि गीतानि पुनन्ति जन्तूञ्जातिस्मरत्वं लभने यदीच्छेत् ॥' इति ॥ ३०८ ॥ भाषा—शुक्रीय नाम के आरण्यक का, गायत्री का विशेष ( महापातक में एक लाख, उपपातक में - दस हजार ) जप तथा रुद्रैकादशिनी ( रुद्रों के ग्यारह अनुवाकों ) का जप—ये सभी पापों को नष्ट करने वाले होते हैं ॥ ३०८ ॥ १. एते । २. सा देवी । ३. कल्मषनाशिनी । ४. सर्ववेदपवित्राणि ।
प्रायश्चित्ताध्यायः ६२३ यत्र यत्र च संकीर्णमात्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो १गायत्र्या वाचनं तथा ॥ ३०९ ॥ किंच, यत्र यत्र च ब्रह्मवधादौ तज्जनितकल्मषजातेनात्मानं संकीर्णमभिभूतं द्विजो मन्यते तत्र तत्र गायत्र्या तिलैर्होमः कार्यः । तत्र महापातकेषु लक्षसं- ख्यया होमः कार्यः । 'गायत्र्या लक्षहोमेन मुच्यते सर्वपातकैः' इति यमस्मर- णात् । अतिपातकादिषु पादपादहासः कल्पनीयः । तथा तिलैर्वाचनं दानं का- र्यम् । तथा च रहस्याधिकारे वसिष्ठः-'वैशाख्यां पौर्णमास्यां तु ब्राह्मणान्सप्त पञ्च वा । क्षौद्रयुक्तैस्तिलैः कृष्णैर्वाचयेदथवेतरैः ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥' इति । तथा अनियतकालेऽपि दानं तेनैवोक्तम्-'कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥' इति । तथा व्यासेनाप्युक्तम्-'तिलधेनुं च यो दद्यात्संयतात्मा द्विजन्मने । ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥' इति । एवमादि दानजातं रहस्यकाण्डोक्तमविदुषां द्विजातीनां स्त्रीशूद्रयोश्च वेदितव्यम् । यत्तु यमेनोक्तम्-'तिलान्ददाति यः प्रातस्तिलान्स्पृशति खादति । तिलस्नायी तिलाञ्जुह्वन्सर्वं तरति दुष्कृतम् ॥' तथा-'द्वे चाष्टम्यौ तु मासस्य चतुर्दश्यौ तथैव च । अमावास्या पौर्णमासी सप्तमी द्वादशीद्वयम् ॥ संवत्सरमभुञ्जानः सततं विजितेन्द्रियः । मुच्यते पातकैः सर्वैः स्वर्गलोकं च गच्छति ॥' इति । यच्चात्रिणोक्तम्-'क्षीराब्धौ शेषपर्यङ्के स्वाषाढ्यां संविशेद्वरिः । निद्रां त्यजति कार्तिकां तयोः संपूजयेद्धरिम् ॥ ब्रह्महत्यादिकं पापं क्षिप्रमेव व्यपोहति ॥' इत्येवमादि तत्सर्वं विद्याविरहिणां कामाकामकसकृदसकृदभ्यासविषयतया व्यव- स्थापनीयम् ॥ ३०९ ॥ भाषा—जहाँ-जहाँ द्विज ( ब्रह्महत्यादि ) कर्मों के पाप से अपने को युक्त समझे वहां वहां गायत्री का जप करते हुए तिल का होम करे ॥ ३०९ ॥ वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । न स्पृशन्तीह पापानि महापातकजान्यपि ॥ ३१० ॥ किंच, 'वेदस्वीकरणं पूर्वं विचारोऽभ्यसनं जपः । तद्दानं चैव शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ॥' इत्युक्तक्रमेण वेदाभ्यासनिरतं तितिक्षायुक्तं पञ्च- महायज्ञानुष्ठाननिरतं महापातकजान्यपि पापानि न स्पृशन्ति । किमुत प्रकी- र्णकजानि वाङ्मनसजन्योपपातकानि वेत्यत्र तात्पर्यमविशिष्टादृगुच्यते ।—एत- १. गायत्र्यावर्तनं । २. दोषजातेन । ३. गायत्र्या लक्षहोमः । ४. पञ्चसप्त वा । ५. किञ्चित् ।
च्चाकामकारविषयम् । अत एव वसिष्ठेन—'यद्यकार्यशतं साग्रं कृतं वेदश्च धार्यते । सर्वं तत्तस्य वेदाग्निर्दहत्यग्निरिवेन्धनम् ॥' इति प्रकीर्णकाद्यभिप्राये- णाभिधायाभिहितम्—'न वेदबलमाश्रित्य पापकर्मीरतिर्भवेत् । अज्ञानाच्च प्रमादाच्च दह्यते कर्म नेतरत् ॥' इति ॥ ३१० ॥ भाषा—वेदाभ्यास में रत रहने वाले और पंचयज्ञ क्रिया में तत्पर व्यक्ति को महापातक से उत्पन्न पाप नहीं छूते हैं ॥ ३१० ॥ वायुभक्षो दिवा तिष्ठेन् रात्रौ नीत्वाऽप्सु सूर्यदृक् । जप्त्वा सहस्रं गायत्र्याः शुद्ध्येद् ब्रह्मवधादृते ॥ ३११ ॥ किंच, सोपवासो वासरमुपविशन् उत्थित्वा सलिले वसन्निशां नीत्वादित्यो- दयानन्तरं सावित्र्याः सहस्रं जप्त्वा ब्रह्मवधव्यतिरिक्तसकलमहापातकादिपाप- जातान्मुच्यते । अतश्चोपपातकादिष्वभ्यासेऽनेक दोषसमुच्चये वा वेदितव्यम् ; विषमविषयसमीकरणस्यान्याय्यत्वात् । अत एव वृद्धवसिष्ठेन महापातको- पपातकयोः कालविशेषेण व्रतविशेष उक्तः । यथाह—'यवानां प्रसृतिमञ्जलिं वा श्रप्यमाणं शृतं वाभिमन्त्रयेत् । यवोऽसि धान्यराजस्त्वं वारुणो मधुसंयुतः । निर्णोदः सर्वपापानां पवित्रमृषिभिः स्मृतः ॥' इत्यनेन । 'घृतं यवा मधुयवाः पवित्रममृतं यवाः । सर्वं पुनन्तु मे पापं वाङ्मनःकायसंभवम् ॥' इत्यनेन वा । 'अग्निकार्यं तु कुर्वीत तेन भूतबलिं तथा । नान्नं न भिक्षां नातिथ्यं न चोच्छिष्टं परिवर्जयेत् ॥' 'ये देवा मनोजाता मनोजुजः सुदक्षा दक्षपितरस्ते नः पान्तु ते नोऽवन्तु तेभ्यो नमस्तेभ्यः स्वाहा' इत्यात्मनि जुहुयात्त्रिरात्रं मेधाभिवृद्धये पापक्षयाय त्रिरात्रं ब्रह्महत्यादिषु द्वादशरात्रं पतितोत्पन्नश्चेत्स्याद्दिगवलम्बने- न्यान्यपि स्मृतिवचनानि विवेचनीयानि ॥ ३११ ॥ भाषा—दिन में उपवास करके रात्रि भर जल में रहकर सूर्योदय के हो जाने पर एक सहस्र बार गायत्री का जप करने पर ब्रह्महत्या के अतिरिक्त अन्य सभी महापातकों से शुद्धि हो जाती है ॥ ३११ ॥ इति रहस्यप्रायश्चित्तप्रकरणम् । विनियुक्तव्रतव्रतरूपभेदे बुभुत्सिते । कीदृशमिति संक्षेपल्लक्षणं वक्ष्यतेऽधुना ॥ तत्र तावत्सकलप्रकाररहस्यव्रताङ्गभूतान्धर्मानाह— ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्कता । अहिंसा स्तेयमाधुर्यं दमश्चेति यमाः स्मृताः ॥ ३१२ ॥
१. तिष्ठेत् । २. शुद्धिर्मता । ३. घृतं चाभिमन्त्रयेत् ।
स्नानं मौनोपवासेज्यास्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता ॥ ३१३ ॥ ब्रह्मचर्यं सकलेन्द्रियसंयमः, उपस्थनिग्रहो लिङ्गनिग्रहः गोबलीवर्दन्यायेन निर्दिष्टः, अकल्कता अकुटिलता । शेषं प्रसिद्धम् । यत्पुनर्मुनुनोक्तम्—'अहिंसा सत्यमक्रोधमार्जवं च समाचरेत्' इति,—तदप्येतेषामुपलक्षणं न परिगणनाय । अत्र च दयाक्षान्त्यादीनां पुरुषार्थतया प्राप्तानामपि पुनर्विधानं प्रायश्चित्ताङ्गत्वा- र्थम् । क्वचिद्विशेषोऽप्यस्ति । यथा विवाहादिष्वभ्यनुज्ञातस्याप्यनृतवचनस्य निवृत्त्यर्थं सत्यत्वविधानम् । पुत्रशिष्यादिकमपि न ताडनीयमित्येवमर्थमहिंसा- विधानमित्येवमादि ॥ ३१२-३१३ ॥ भाषा—ब्रह्मचर्य (सभी इन्द्रियों का संयम), दया, क्षमा, दान, सत्य- भाषण, सरलता, अहिंसा, चोरी न करना, माधुर्य (मधुर वचन बोलना) और दम (ज्ञानेन्द्रियों का दमन)—ये यम कहे गये हैं ॥ स्नान, मौन रहना, उपवास, देवपूजन, स्वाध्याय, लिङ्ग का निग्रह (कामुकता का त्याग), गुरु की सेवा, पवित्रता, अक्रोध और प्रमाद का त्याग—ये सभी नियम कहलाते हैं ॥ ३१२-३१३ ॥ तत्र सान्तपनाख्यं व्रतं तावदाह— गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेऽहन्युपवसेत्कृच्छ्रं सान्तपनं चरन् ॥ ३१४ ॥ पूर्वेद्युराहारान्तरपरित्यागेन गोमूत्रादीनि पञ्चगव्यानि पञ्चद्रव्याणि कुशो दकसहितानि संयुज्य पीत्वा अपरेद्युरुपवसेदिति द्वैरात्रिकः सान्तपनः कृच्छ्र संयोजनं चोत्तरश्लोके पृथग्विधानादवगम्यते । 'कृच्छ्र' इति चान्वर्थसंज्ञेयम् ; तपोरूपत्वेन क्लेशसाध्यत्वात् । गोमूत्रादीनां परिमाणं वक्ष्यते । यदा पुनः पूर्वे- द्युरुपोप्यापरेद्युः समन्त्रकं संयुज्य समन्त्रकमेव पञ्चगव्यं पीयते तदा महाकृच्छ्रं इत्याख्यायते । यथाह पराशरः-'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । निर्दिष्टं पञ्चगव्यं तु प्रत्येकं कायशोधनम् ॥ गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चापि गोमयम् । पयः काञ्चनवर्णाया नीलायाश्च तथा दधि ॥ घृतं च कृष्णवर्णायाः सर्वं कापिलमेव च । अलाभे सर्ववर्णानां पञ्चगव्येऽयवं विधिः॥ गोमूत्रं मापकास्त्वष्टौ गोमयस्य तु षोडशं । क्षीरस्य द्वादश प्रोक्ता दधनस्तु दश कीर्तिताः ॥ गोमूत्रवद्घृतस्याष्टौ तदर्थं तु कुशोदकम् । गायत्र्यादाय गोमूत्रं गन्धद्वारेति गोमयम् । आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ॥ तेजोऽ-
१. परम् । २. द्वैरात्रः । ३. सांतपनं । ४. पवित्रं कायशोधनमिति ।
६२६ याज्ञवल्क्यस्मृतिः
सिंशुक्रमित्यृचाऽयं देवस्य त्वा कुशोदकम् । पञ्चगव्यमृचा पूतं होमयेदग्निसंनिधौ ॥ सप्तपत्राश्च ये दर्भा १अच्छिन्नाग्राः शुचिश्रियः । एतैरुद्धृत्य होतव्यं पञ्चगव्यं यथाविधि ॥ इरावती इदंविष्णुर्मानस्तोके च शंवतीः । एताभिश्चैव होतव्यं हुतशेषं पिबेद् द्विजः ॥ प्रणवेन समालोड्य प्रणवेनाभिमन्त्र्य च । प्रणवेन समुद्धृत्य पिबेत्तत्प्रणवेन तु ॥ मध्यमेन पलाशस्य पद्मपत्रेण वा पिबेत् । स्वर्णपात्रेण २रौप्येण ब्राह्मतीर्थेन वा पुनः ॥ यत्त्वगस्थिगतं पापं देहे तिष्ठति मानवे । ब्रह्मकूर्चोपवासस्तु दहत्यग्निरिवेन्धनम् ॥' इति । यदा त्वेतदेव मिश्रितं पञ्चगव्यं त्रिरात्रमभ्यस्यते तदा यतिसान्तपनसंज्ञां लभते—'एतदेव त्र्यहाभ्यस्तं यतिसान्तपनं स्मृतम्' इति शङ्खस्मरणात् ॥ जाबालेन तु सप्ताहसाध्यं सान्तप- नमुक्तम्—'गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । एकैकं प्रत्यहं पीत्वा श्वहोरात्रमभोजनम् । कृच्छ्रं सान्तपनं नाम सर्वपापप्रणाशनम् ॥' इति । एषां च गुरुहलघुवृकृच्छाणां शक्त्याद्यपेक्षया व्यवस्था विज्ञेया । एवमुत्तरत्रापि व्यवस्था बोद्धव्या ॥ ३१४ ॥
भाषा—एक दिन गाय का मूत्र, गोबर, दूध, दही, घी और कुशा का जल पीकर दूसरे दिन उपवास करने पर दो दिन का सान्तपन कृच्छ्रव्रत होता है ॥ ३१४ ॥
महासान्तपनाख्यं कृच्छ्रमाह— पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः ॥ ३१५ ॥
सप्ताहेनापवर्जितो महासान्तपनाख्यः कृच्छ्रो विज्ञेयः । कथमित्यपेक्षायामुक्तं पृथग्भूतैः षड्भिर्गोमूत्रादिभिरेकैकैनैकमहरतिवाहयेत् सप्तमं चोपवासेनेति । यमेन तु पञ्चदशाहसंपाद्यो महासान्तपनोऽभिहितः—'त्र्यहं पिबेत्तु गोमूत्रं त्र्यहं वै गोमयं पिबेत् । त्र्यहं दधि त्र्यहं क्षीरं सर्पिस्ततः शुचिः ॥ महासान्तपनं ह्येतत्सर्वपापप्रणाशनम् ॥' इति । जाबालेन त्वेकविंशतिरात्रिनिर्वर्त्यो महा- सान्तपन उक्तः—'षण्णामेकैकमेतेषां त्रिरात्रमुपयोजयेत् । त्र्यहं चोपवसेदन्त्यं महासान्तपनं विदुः ॥' इति । यदा तु षण्णां सान्तपनद्रव्याणामेकैकस्य द्व्यह- मुपयोगस्तदा अतिसान्तपनम् । यथाह यमः—'एतान्येव तथा ३पेयान्येकैकं तु त्र्यहं द्व्यहम् । अतिसान्तपनं नाम श्वपाकमपि शोधयेत् ॥' इति । 'श्वपाकमपि शोधयेत्' इत्यर्थवादः ॥ ३१५ ॥
१. अच्छिन्नाग्राः कुशाः स्थिता । २. ताम्रेण । ३. पेयाद्येकैकं ।
भाषा—सान्तान के ( गोमूत्र आदि छः ) द्रव्यों से पृथक्-पृथक् ( अर्थात् एक एक दिन एक-एक को पीकर ) छः दिन बिताकर एक दिन उपवास करने पर एक सप्ताह का महासान्तपन कृच्छ्र व्रत बताया गया है ॥ ३१५ ॥ इति महासांतपनातिसांतपने । पर्णकृच्छ्राख्यं व्रतमाह— पर्णोदुम्बरराजीवबिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः ॥ ३१६ ॥ पलाशोदुम्बरारविन्दश्रीवृक्षपर्णानामेकैक्रेन कथितमुदकं प्रत्यहं पिबेत् । कुशोदकं चैकस्मिन्नहनीति पञ्चाहसाध्यः पर्णकृच्छ्रः । यदा तु पर्णादीनामेकी- कृतानां क्वाथस्त्रिरात्रान्ते पीयते तदा पर्णकूर्चः । यथाह यमः—'एतान्येव समस्तानि त्रिरात्रोपोषितः शुचिः । क्वाथयित्वा पिबेदद्भिः पर्णकूर्चोऽभिधीयते ॥' इति । यदा तु बिल्वादिफलानि प्रत्येकं कथितानि मासं पीयन्ते तदा फलकृच्छा- दिव्यपदेशं लभन्ते । यथाह मार्कण्डेयः—'फलैर्मासेन कथितः फलकृच्छ्रो मनीषिभिः । श्रीकृच्छ्रः श्रीफलैः प्रोक्तः पद्माद्यैरपरस्तथा ॥ मासेनामलकैरेवं श्रीकृच्छ्रमपरं स्मृतम् । पत्रैर्मतः पत्रकृच्छ्रः पुष्पैस्तत्कृच्छ्र उच्यते ॥ मूलकृच्छ्रः स्मृतो मूलस्तोयकृच्छ्रो जलेन तु ॥' इति ॥ ३१६ ॥ भाषा—पलाश, उदुम्बर ( गूलर ), कमल, बिल्वपत्र में से एक- एक को एक-एक दिन पानी में उबालकर वही जल पीवे और फिर एक दिन ( पांचवे दिन ) कुशा का जल पीवे तो पर्णकृच्छ्र व्रत कहलाता है ॥ ३१६ ॥ इति पर्णकृच्छ्र एकादशविधः । तप्तकृच्छ्रमाह — तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः ॥ ३१७ ॥ दुग्धसर्पिरुदकानां तप्तानामेकैकं प्रतिदिवसं प्राश्यापरेद्युरुपवसेत् । एष दिवसचतुष्टयसंपाद्यो महातप्तकृच्छ्रः । एभिरेव समस्तैः सोपवासैर्द्विरात्रसंपाद्यः सान्तपनवत्तप्तकृच्छ्रः । मनुना तु द्वादशरात्रनिर्वर्त्योऽभिहितः ( ११।२१४ )— 'तप्तकृच्छ्रं चरन्विप्रो जलक्षीरघृतानिलान् । प्रतिद्व्यहं पिबेदुष्णान्सकृत्स्नायी समाहितः ॥' इति । क्षीरादिपरिमाणं तु पराशरेणोक्तं द्रष्टव्यम् ।—'अपां पिबेत्तु १. प्रत्यहाभ्यस्तैः । २. पर्णकृच्छ्र उदाहृतः । ४० या०
त्रिपलं द्विपलं तु पयः पिबेत् । पलमेकं पिबेत्सर्पिस्त्रिरात्रं चोष्णमारुतम् ॥ इति । त्रिरात्रमारुतस्य पूरणे उष्णोदकबाष्पं पिबेदित्यर्थः । यदा तु शीतं क्षीरादि पीयते तदा शीतकृच्छ्रः; 'त्र्यहं शीतं पिबेत्तोयं त्र्यहं शीतं पयः पिबेत् । त्र्यहं शीतं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥' इति यमस्मरणात् ॥ ३१७ ॥ भाषा—दूध, घी और जल में से प्रत्येक को गर्म करके एक-एक दिन पीकर और फिर एक दिन-रात (चौथे दिन) उपवास रखने पर तप्तकृच्छ्र व्रत होता है ॥ ३१७ ॥ इति तप्तकृच्छ्रश्चतुर्विधः । पादकृच्छ्रमाह— एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैवैषं पादकृच्छ्रः प्रकीर्तितः ॥ ३१८ ॥ एकभक्तेन सकृद्भोजनेन दिवैव; नक्तेनेति पृथगुपादानात् । अतश्च दिवैवैक- वारमेव भोजनेनैवैकमहोरात्रमतिवाहयेदिति । तत्र दिवेति रात्रिपर्युदासः । एक- वारमिति द्विवारादिव्युदासः । भोजनेनेत्यभोजनव्युदासः । एतच्च कृच्छादीनां व्रत- रूपत्वात् पुरुषार्थभोजनपर्युदासेन कृच्छाङ्गभूतं भोजनं विधीयते । तथा चापस्त- म्बः—'त्र्यहमनक्ताशीदिवाशी च ततस्त्र्यहं । त्र्यहमयाचितव्रतस्त्र्यहं नाश्नाति किंचन' इति । अत्र च 'अनक्ताशी' इत्यनेन व्रतविहितेन णिनिप्रत्ययेन नक्तपर्यु- दासेन दिवाभोजननियमं दर्शयति । गौतमेनापीदमेव स्पष्टीकृतम्—'हविष्यान्प्रात- राशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयात्' इति । एवं नक्तभोजनविधावपि । न विद्यते याचितं यस्मिन्भोजने तदयाचितम् । तेन कालविशेषानुपदानाद्दिवा रात्रौ वा सकृदित्येव; तपोरूपत्वात्कृच्छाणां द्वितीयभोजने तदनुपपत्तेः । अयाचितमिति न केवलं परकीयान्नयाचनप्रतिषेधोऽपि तु स्वकीयमपि परिचारकभार्यादिभ्यो न याचितव्यम् । प्रेषणाध्येषणयोः साधारणत्वादयाचनायाः । अतः स्वगृहेऽपि भृत्य- भार्यादयोऽनाज्ञप्ता एव यदि भोजनमुपहरन्ति तर्हि भोक्तव्यं, नान्यथा । अमुनै- वाभिप्रायेणोक्तं गौतमेन—'अथापरं त्र्यहं न कंचन याचेत' इति । अत्र च ग्राससंख्यानियमः पराशरेण दर्शितः—'सायं तु द्वादशग्रासाः प्रातः पञ्चदश स्मृताः । चतुर्विंशतिरायाच्याः परं निरशनं स्मृतम् ॥' इति । आपस्तम्बेन त्वन्यथोक्तम्—'सायं द्वाविंशतिर्ग्रासाः प्रातः षड्विंशतिः स्मृताः । चतुर्विंशति- रायाच्याः परं निरशनाख्यः । कुक्कुटाण्डप्रमाणास्तु यथा वास्यं विशेत्सुखम् ॥' इति ॥ अनयोश्च कल्पयोः शक्त्यपेक्षया विकल्पः । आपस्तम्बेन तु प्राजापत्य- १. त्रिरात्रस्य मारुतस्य । २. चैकेन । ३. उदाहृतः ।