याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 677, कुल 782 में से
संदर्भ में पढ़ेंचेदम्’ इत्यस्याः, ‘इति वा इति मे मनः’ इत्यस्याश्च जप उक्तः सोऽप्यभ्यास- विषयः ॥ ३०५ ॥ भाषा—तब उपपातकों की और अन्य सभी पापों की, जिनका विधान नहीं किया गया है, शुद्धि के लिये सौ बार प्राणायाम करना चाहिए ॥ ३०५ ॥ उपपातकसामान्यप्राप्तस्य प्राणायामशतस्यापवादमाह— ओङ्काराभिष्टुतं सोमसलिलं पावनं पिबेत् । कृत्वा हि¹ रेतोविण्मूत्रप्राशनं तु² द्विजोत्तमः ॥ ३०६ ॥ द्विजो रेतोविण्मूत्रप्राशनं कृत्वा सोमलतारसमोंङ्कारेणाभिमन्त्रितं शुद्धि- साधनं पिबेत् ।-एतच्चाकामकारविषयम् । कामतस्तु सुमन्तूक्तम्—‘रेतो- विण्मूत्रप्राशनं कृत्वा लशुनपलाण्डुगृञ्जनककुम्भिकादीनामन्येषां चा³भक्ष्याणां सक्षणं कृत्वा हंसग्रामकुक्कुटश्वशृगालादिमांसभक्षणं च कृत्वा ततः कण्ठमात्रमुदकमवतीर्य शुद्धवतीभिः प्राणायामं कृत्वा महाव्याहृतिभिरपामुदकं पीत्वा तदेतस्मात्पूतो भवती’ति । मनुनापि सप्तविधाभक्ष्यभक्षणे प्रायश्चित्तान्तरमुक्तम् (११।२५३)— ‘प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम् । जपंस्तरत्समन्दीयं पूयते मान- वस्यहात् ॥’ इति । अप्रतिग्राह्यं विषशस्त्रसुरादि पतितादिद्रव्यं च । यदा त्वप्सु रेतोविण्मूत्रादिशारीरं मलं विसृजति तदापि तेनैवोक्तम्—‘अप्रशस्तं तु कृत्वाऽप्सु मासमासीत भैक्ष्यभुक्’ (११।२५५) इति ॥ ३०६ ॥ भाषा—वीर्य, विष्ठा या मूत्र (भूल से) मुख में डालने पर द्विज ओङ्कार मन्त्र से अभिमन्त्रित सोमलता का पवित्र रस पीए ॥ ३०६ ॥ अज्ञानकृते प्रकीर्णके मानसे चोपपातके प्रायश्चित्तमाह— निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । ⁴त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति ॥ ३०७ ॥ रजन्यां वासरे वा यत्प्रमादादिकृतं प्रकीर्णकं मानसं वाचिकं चोपपातकं तत्सर्वं प्रातर्मध्याह्नादिकालत्रयविहितनित्यसंध्योपासनया प्रणश्यति । तथा च यमः—‘यदह्नात्कुरुते पापं कर्मणा मनसा गिरा । आसीनः पश्चिमां संध्यां प्राणायामैर्निहन्ति तत् ॥’ इति । शातातपेनाप्युक्तम्—‘अनृतं मद्यगन्धं च दिवा मैथुनमेव च । पुनाति वृषलान्नं च संध्या बहिरुपासिता ॥’ इति ॥३०७॥ भाषा—रात्रि या दिन में जो कुछ भी पापकर्म अज्ञानवश हुआ रहता है वह तीनों काल की सन्ध्या करने से नष्ट हो जाता है ॥ ३०७ ॥ १. तु । २. च । ३. चामक्ष्यभक्षणम् । ४. त्रिकाल ।