याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 676, कुल 782 में से
संदर्भ में पढ़ें६२० याज्ञवल्क्यस्मृतिः क्रमप्राप्तं गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तमाह— प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ॥ ३०५ ॥ गोवधादिषट्पञ्चाशदुपपातकजातानामनादिष्टरहस्यव्रतानां च जाति- भ्रंशकरादीनां सर्वेषामपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषां महापातकादीनां प्रकीर्णकान्तानामप्यपनुत्तये प्राणायामाः कार्याः । तत्र च महा- पातकेषु चतुःशतम्, अतिपातकेषु त्रिशतम्, अनुपातकेषु द्विशतमिति संख्या- विवृद्धिः कल्पनीया। प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधानदर्शनात् प्रकीर्णकेषु च ह्रासः कल्प्यः । अत एवोक्तं यमेन—'दशप्रणव- संयुक्तैः प्राणायामैःशतैः शतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकैः ॥' इति । बौधायनेनाप्यत्र विशेष उक्तः—'अपि वाक्चक्षुःश्रोत्रत्वक्घ्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुद्ध्यति । शूद्रस्त्रीगमनान्नभोजनेषु पृथक्पृथक् सप्ताह्ं सप्त- प्राणायामान्धारयेत् । अभक्ष्यभोज्यामेध्यप्राशनेषु तथा चाऽपण्यविक्रयेषु मधु- मांसघृततैललाक्षालवणरसानां वर्जितेषु यच्चान्यदपण्यं युक्तं स्याद् द्वादशाहं द्वादश द्वादश प्राणायामान्धारयेत् । अथ पातकोपपातकवर्ज्यं यच्चान्यदपेयं युक्तं स्यादर्थमासं द्वादश द्वादश प्राणायामान्धारयेत् उपपातकपत्तनीयवर्जं यच्चाप्य- न्यदेवं युक्तं स्यान्मासं द्वादशार्धमासान् द्वादश द्वादश प्राणायामान्धारयेत् । अन्यपातकवर्ज्यं यच्चाप्यन्यदपेयं युक्तं द्वादश अर्धमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादश द्वादश प्राणायामान् धारयेदिति । तत्र वाक्चक्षुरित्यादिप्राणायामत्रयं प्रकीर्णकाभिप्रायम् । शूद्रस्त्रीगमनान्नभोजनेत्यादि- नोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा 'अभक्ष्यभोज्ये'- त्यादिनोक्ताश्चतुश्चत्वारिंशदधिकशतप्राणायामा अप्युपपातकविशेषाभिप्राया एव । अथ 'पातकोपपातकवर्ज्य'मित्यादिनोक्ताः साशीतिशतप्राणायामा जातिभ्रंशकरा- च्छिप्रायाः । अथ 'पातकवर्ज्य'मित्यादिनोक्ताः षष्ट्यधिकशतत्रयप्राणायामाः गोवधाद्युपपातकाभिप्रायाः । अथ 'पातकवर्ज्य'मित्यादिनोक्ताः षष्ट्यधिकद्विशत- सहितद्विसहस्रसंख्याकाः प्राणायामाः अतिपाताकनुपपातकाभिप्रायाः । अथ पातकेष्वित्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश्चतुःसहस्रप्राणायामा महापातक- विषयाः । इदं चाभक्ष्यभोज्येत्यादिनोक्तं प्रायश्चित्तपञ्चकमत्यन्ताभ्यासविषयं, समुच्चितविषयं वा । यत्तु मनुना । ( ११।२५२ )—'एनसां स्थूलसूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेक्ष्यं जपेदब्दं यत्किंचेदमितीति वा ॥' इत्यब्दं यावत्प्रत्यहमर्थमन्तरादित्येष्ठेषु कालेषु 'अवतेहेळोवरुण' इत्यनया ऋचो 'यत्किं- १. अर्धमासद्वादशद्वादश । २. पातकवर्जमित्यादि ।