याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 675, कुल 782 में से
संदर्भ में पढ़ेंगुरुतल्पगस्तु 'सहस्रशीर्षा' इति षोडशर्चसूक्तं नारायणदृष्टं पुरुषदेवत्यमानु- ष्टुभं त्रिष्टुबन्तं जपंस्तस्मात्पापान्मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्यया- दावृत्तिर्गम्यते । अत एव यमेनोक्तम् - 'पौरुषं सूक्तमावर्त्य मुच्यते सर्वकि- ल्बिषात्' इति । आवृत्तौ च संख्यापेक्षायामघस्तनश्लोकगता चत्वारिंशत्संख्याऽ- नुमीयते । अत्रापि प्राक्तनश्लोकगतं 'त्रिरात्रोपोषित' इति संबध्यते । अत एव बृहद्विष्णुः - 'त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुद्ध्येत' इति । एभिश्च सुरापसुवर्णस्तेनगुरुतल्पगैस्त्रिभिः पृथक्पृथगस्य त्रिरात्रव्रतस्यान्ते बहुक्षीरा गौर्देया ।- इदमकामविषयम् । यत्तु मनुना (११।२५१) - 'हवि- ष्पान्तीमभ्यस्य नतमंह इतीति च । जप्त्वा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥' इति । 'हविष्पान्तमजरं स्वर्विदं', 'नतमंहोनदुरितं', 'इति वा इति मे मनः', 'सहस्रशीर्षे'त्येषामन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः, सोऽप्य- कामविषय एव । कामतस्तु 'मन्त्रैः शाकलहोमीयैः' इति मनूक्तं द्रष्टव्यम् । यत्तु षट्त्रिंशन्मतेऽभिहितम् – 'महाव्याहृतिभिर्हो मस्तिलैः कार्यो द्विजन्मना । उपपा- तकशुद्ध्यर्थं सहस्रपरिसंख्यया ॥ महापातकसंयुक्तो लक्षहोमेन शुद्ध्यति ॥' इति, - तदावृत्तिविषयम् । यत्तु यमेनोक्तम् – 'जपेद्वाप्यस्यवामीयं पावमानीस्तथापि वा । कुन्तापं बालखिल्यंश्च निविद्प्रैषान्वृषाकपिम् । होतॄन्द्रुद्रांत्सकृज्जप्त्वा मुच्यते सर्वपातकैः ॥' इति, -तद्दुयभिचारिणीगमनविषयम् । यानि पुनः गुरुतल्पातिदेश- विषयाणि तत्समानि वाऽतिपातकोपपातकपदामिधेयानि, तेषु तुरीयांश न्यूनमर्धोनं च क्रमेण वेदितव्यम् । पातकातिपातकोपपातकमहापातकानामेकतमे संनिपाते वा अघमर्षणमेव त्रिर्जपेदिति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश्च 'स त- स्यैव व्रतं कुर्यात्' इति वचनाद्येन सह संसर्गस्तदीयमेव प्रायश्चित्तम् । न च वाच्यम् अध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वाद्वहस्यत्वानुपपत्तिरिति । यतः सत्यप्य- नेककर्तृकत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव रहस्यत्वम् । अतो भवत्येव रहस्यप्रायश्चित्तम् । एवमतिपातकादिसंसर्गिणोऽपि तदीयमेव प्रायश्चित्तं वेदितव्यम् ॥ ३०४ ॥ भाषा-गुरुपत्नी का भोग करने वाला 'सहस्रशीर्षा' आदि सोलह ऋचाओं के सूक्त का जप करने से पापमुक्त होता है। इन सबको (सुरापी, सुवर्णहारी और गुरुतल्पग को) त्रिरात्रव्रत के अन्त में एक दूध देने वाली गाय का दान करना चाहिए ॥ ३०४ ॥ इति महापातकरहस्यप्रायश्चित्तप्रकरणम् । १. षोडशऋचां चत्वारिंशत्संख्याकजप उक्तः ।