याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 678, कुल 782 में से
संदर्भ में पढ़ें६२२ याज्ञवल्क्यस्मृतिः अथ सकलमहापातकादिसाधारणान्पवित्रमन्त्रानाह— शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः। सर्वपापहरा १ह्येते रुद्रैकादशिनी तथा ॥ ३०८ ॥ शुक्रियं नाम आरण्यकविशेषः 'विश्वानि देव सवितः' इत्यादिर्वाजसनेयके पठ्यते, आरण्यकं च यजुः 'ऋचं वाचं प्रपद्ये मनो यजुः प्रपद्ये' इत्यादि तत्रैव पठ्यते, तयोर्जपः सकलमहापातकादिहरः । तथा गायत्र्याश्च महापातकेषु लक्षमतिपातकोपपात कयोर्दशसहस्रमुपपातकेषु सहस्रं प्रकीर्णकेषु शतमित्येवं विशेषतो जपः सर्वपापहरः । तथा च गायत्रोमधिकृत्य श्लोकः शङ्खेनोक्तः—'शतं जप्ता तु सावित्री महापातकनाशिनी । सहस्रजप्ता तु तथा पातकेभ्यः प्रमो- चिनी ॥ दशसाहस्रजाप्येन ३सर्वकिल्बिषनाशिनी । लक्षं जप्ता तु सा देवी महा- पातकनाशिनी ॥ सुवर्णस्तेयकृद्विप्रो ब्रह्महा गुरुतल्पगः । सुरापश्च विशुद्ध्यन्ति लक्षं जप्त्वा न संशयः ॥' इति । यत्तु चतुर्विंशतिमते उक्तम्—'गायत्र्यास्तु जपेश्चकोटिं ब्रह्महत्यां व्यपोहति । लक्षाशीतिं जपेद्यस्तु सुरापानाद्विमुच्यते ॥ पुनाति हेमहतारं गायत्र्या लक्षसप्ततिः । गायत्र्या लक्षषष्ठ्या तु मुच्यते गुरुत- ल्पगः ॥' इति, तद्गुरूत्वाऽप्रकाशविषयम् । तथा रुद्रैकादशिनी एकादशानां रुद्राऽनुवाकानां समाहारो रुद्रैकादशिनी । सा च विशेषतो जप्ता सर्वपापहरा । 'एकादशगुणान्वापि रुद्रानावर्त्य धर्मवित् । महद्द्यः स तु पापेभ्यो मुच्यते नात्र संशयः ॥' इति महापातकेष्वेकादशगुणावृत्तिदर्शनात् अतिपातकादिषु चतुर्थ- चतुर्थांशह्रासो योजनीयः । 'च'शब्दोऽघमर्षणादिसमुच्चयार्थः । यथाह वसि- ष्ठः—'४सर्ववेदपवित्राणि वक्ष्याम्यहमतः परम् । येषां जपैश्च होमैश्च पूयन्ते नात्र संशयः ॥ अघमर्षणं देवकृतं शुद्धवत्यस्तरत्समाः । कूष्माण्ड्यः पावमान्यश्च दुर्गा सावित्र्यथैव च ॥ अभिषङ्गाः पदस्तोमाः सामानि व्याहतीस्तथा । भारदण्डानि सामानि गायत्रं रैवतं तथा ॥ पुरुषव्रतं च भासं च तथा देवव्रतानि च । आर्लिङ्गं बार्हस्पत्यं च वाक्सूक्तं मध्वृचस्तथा ॥ शतहृद्रियाथर्वशिरस्त्रिसुपर्णं महाव्रतम् । गोसूक्तं चाश्वसूक्तं च इन्द्रशुद्धे च सामनी ॥ श्रीण्याज्यदोहानि रथन्तरं च अग्ने- र्वतं वामदेव्यं बृहच्च । एतानि गीतानि पुनन्ति जन्तूञ्जातिस्मरत्वं लभने यदीच्छेत् ॥' इति ॥ ३०८ ॥ भाषा—शुक्रीय नाम के आरण्यक का, गायत्री का विशेष ( महापातक में एक लाख, उपपातक में - दस हजार ) जप तथा रुद्रैकादशिनी ( रुद्रों के ग्यारह अनुवाकों ) का जप—ये सभी पापों को नष्ट करने वाले होते हैं ॥ ३०८ ॥ १. एते । २. सा देवी । ३. कल्मषनाशिनी । ४. सर्ववेदपवित्राणि ।