याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 670, कुल 782 में से
संदर्भ में पढ़ें६१४ याज्ञवल्क्यस्मृतिः यो दोषो यावत्कर्तुं संपाद्यस्ततोऽन्यैर्विख्यातो विज्ञातो दोषो यस्यासौ पर्षद्रुपदिष्टं व्रतं कुर्यात् । यद्यपि स्वयं सकलशास्त्रार्थविचारचतुरस्तथापि पर्षत्समीपमुपगम्य तया सह विचार्य तदनुमतमेव कुर्यात् । तदुपगमने चाङ्गि- रसा विशेष उक्तः—'कृते निःसंशये पापे न भुञ्जीतानुपस्थितः । भुञ्जानो वर्धये- त्पापं यावन्नाख्याति पर्षदि ॥ सचैलं वाग्यतः स्नात्वा क्लिन्नवासाः समाहितः । पर्षदानुमतस्तत्त्वं सर्वं विख्यापयेन्नरः । व्रतमादाय भूयोऽपि तथा स्नात्वा व्रतं चरेत् ॥' इति । विख्यापनं च पर्षद्वक्षिणादानान्तरं कार्यम् । यथाह पराशरः— 'पापं विख्यापयेत्पापी दत्त्वा धेनुं तथा वृषम्' इति ।-एतच्चोपपातकविषयम् । महापातकादिष्वधिकं कल्प्यम् । यत्तूक्तम्— 'तस्माद् द्विजः प्राप्तपापः सकृदा- प्लुत्य वारिणि । विख्याप्य पापं पर्षद्भ्यः किंचिद्दत्त्वा व्रतं चरेत् ॥' इति तत्प्रकी- र्णकविषयम् । पर्षत्स्वरूपं च मनुना दर्शितम्—'त्रैविद्यो हेतुकस्तर्की नैरुक्तो^२ धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे पर्षदैषा दशावरा ॥' हेतुको मीमांसार्थादि- तत्त्वज्ञः, तर्की न्यायशास्त्रकुशलः, तथान्यदपि पर्षद्वयं तेनैव दर्शितम्— (मनु० १२।११२) 'ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । अपरा पर्षद्द्विज्ञेया धर्मसंशयनिर्णये ॥' इति । तथा—(मनु० १२।११३) '^३एकोऽपि वेदविद्धर्मं यं व्यवस्येत्समाहितः । स ज्ञेयः परमो धर्मो नाज्ञानामुदितोऽयुतैः ॥' इति । आसां च पर्षदां संभवापेक्षया व्यवस्था महापातकाद्यपेक्षया । यत्तु स्मृत्यन्तरेऽभिहि- तम्—'पातकेषु शतं पर्षत्सहस्त्रं महदादिषु । उपपापेषु पञ्चाशत्स्वल्पं स्वल्पे तथा भवेत् ॥' इति,-तदपि महापातकादिदोषानुसारेण पर्षदो गुरु लघुभावप्रति- पादनपरं न पुनः संख्यानियमार्थम्; मन्वादिमहास्मृतिविरोधप्रसङ्गात् । तथा देवलेन चात्र विशेषो दर्शितः—'स्वयं तु ब्राह्मणा ब्रूयुरल्पदोषेषु निष्कृतिम् । राजा च ब्राह्मणाश्चैव महत्सु च परीक्षितम् ॥' इति तया च पर्षदा अवश्यं व्रतमुपदेष्टव्यम्—'आर्तानां मार्गमाणानां प्रायश्चित्तानि ये द्विजाः । जानन्तो न प्रयच्छन्ति ते यान्ति समतां तु तैः ॥' इत्यङ्गिरःस्मरणात् । तया पर्षदा ज्ञात्वैव व्रतमुपदेष्टव्यम्—'अज्ञात्वा धर्मशास्त्राणि प्रायश्चित्तं ददाति यः । प्राय- श्चित्ती भवेत्पूतः किल्बिषं पर्षदं व्रजेत् ॥' इति वसिष्ठस्मरणात् ॥ क्षत्रियादीनां तु कृतेनसां धर्मोपदेशे विशेषोऽङ्गिरसा दर्शितः—'न्यायतो ब्राह्मणः क्षिप्रं क्षत्रि- यादेः कृतेनसः । अन्तरा ब्राह्मणं कृत्वा व्रतं सर्वं समादिशेत् । तथा शूद्रं समा- साद्य सदा धर्मपुरःसरम् । प्रायश्चित्तं प्रदातव्यं जपहोमविवर्जितम् ॥' इति । तत्र च वागाद्यनुष्ठानशीलानां जपादिकं वाच्यम् , इतरेषां तु तपः । 'कर्मनि-
१. विख्यातापायं वक्तव्यम्ः । २. निरुक्तो । ३. एकोऽपि धर्मविद्धर्मम् । ४-५. तथा च कर्तव्यं ।