याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
इति औपनिधिकप्रकरणम् ।
व्यवहाराध्यायः २२३ हाथ में सौंपी गई ) और निक्षेप ( सन्मुख दी हुई ) वस्तुओं के विषय में भी लागू होते हैं ॥ ६७ ॥ इति औपनिधिकप्रकरणम् । अथ साक्षिप्रकरणम् ५ प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम्' (व्य० २२) इत्युक्तं, तत्र भुक्तिर्निरूपिता; सांप्रतं साक्षिखरूपं निरूप्यते । साक्षी च साक्षाद्दर्शनाच्छ्रवणाच्च भवति । यथाह मनुः ( ८।७४ ) - 'समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिद्ध्यति' इति । स च द्विविधः-कृतोऽकृतश्चेति । साक्षित्वेन निरूपितः कृतः । अनिरू- पितोऽकृतः । तत्र कृतः पञ्चविधोऽकृतश्च षड्विध इत्येकादशविधः । यथाह नारदः ( १।१७८ ) - 'एकादशविधः साक्षी शास्त्रे दृष्टो मनीषिभिः । कृतः पञ्चविधो ज्ञेयः षड्विधोऽकृत उच्यते ॥' इति । तेषां च भेदस्तेनैव दर्शितः- 'लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च । गूढश्चोत्तरसाक्षी च साक्षी पञ्चविधः स्मृतः ॥' (नारदः १।१४०) इति । लिखितादीनां च स्वरूपं कात्यायनेनोक्तं- 'अर्थिना स्वयमानीतो यो लेख्ये संनिवेश्यते । स साक्षी लिखितो नाम स्मारितः पत्रकारूढे ॥' इति । 'स्मारितः पत्रकारूढे' इत्यस्य विवरणं तेनैव कृतम्-'यस्तु- कार्यप्रसिद्धयर्थं दृष्ट्वा कार्यं पुनः पुनः । स्मार्यते ह्यर्थिना साक्षी स स्मारित इहोच्यते ॥' इति । यस्तु यदृच्छयागतः साक्षी क्रियते स यदृच्छाभिज्ञः । अनयोः पत्रानारूढत्वेऽपि भेदस्तेनैव दर्शितः - 'प्रयोजनार्थमानीतः प्रसङ्गादागतश्च यः । द्वौ साक्षिणौ त्वलिखितौ पूर्वपक्षस्य साधकौ ॥' इति, तथा-'अर्थिना स्वार्थसि- द्ध्यर्थं प्रत्यर्थिवचनं स्फुटम् । यः श्राव्यते स्थितो गूढो गूढसाक्षी स उच्यते ॥' इति, तथा-'साक्षिणामपि यः साक्ष्यमुपर्युपरि भाषते । श्रवणाच्छ्रावणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥' इति । षड्विधस्याप्यकृतस्य भेदो नारदेन दर्शितः (१।१५१)- 'ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम् । कार्येष्वधिकृतो यः सयादर्थिना प्रहितश्च यः ॥ कुल्याः कुलविवादेषु विज्ञेयास्तेऽपि साक्षिणः ॥' इति । 'प्राड्वि- वाक'ग्रहणं लेखकसभ्योपलक्षणार्थम्; 'लेखकः प्राड्विवाकश्च सभ्याश्चैवानुपूर्वशः । नृपे पश्यति तत्कार्यं साक्षिणः समुदाहृताः ॥' इति । तेऽपि साक्षिणः कीदृशाः, कियन्तश्च भवन्तीत्यत आह- तपस्विनो दानशीलाः कुलीनाः सत्यवादिनः । धर्मप्रधाना ऋजवः पुत्रवन्तो धनान्विताः ॥ ६८ ॥ १. निक्षेपप्रकरणम् । २. श्रावितः । ३. सभ्यश्चैव ।
२२४ याज्ञवल्क्यस्मृतिः त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ ६९ ॥ तपस्विनस्तपःशीलाः, दानशीला दाननिरताः, कुलीना महाकुलप्रसूताः, सत्यवादिनः सत्येवदनशीलाः, धर्मप्रधाना न स्वार्थकामप्रधानाः, ऋजवोऽ- कुटिलाः, पुत्रवन्तो विद्यमानपुत्राः, धनान्रिता बहुसुवर्णादिधनयुक्ताः, श्रौतस्मा- र्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः, एवंभूताः पुरुषास्त्र्यवराः साक्षिणो भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाङ् न भवन्ति । परतस्तु यथाकामं भवन्तीत्यर्थः । जातिम नतिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्याः अनुलोमजाः प्रतिलोमजाश्च। तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः ( ८।६८ ) - 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । सजातिसवर्णसंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथा- संभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहिता- नामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः । ते च पञ्च- विधा नारदेन दर्शिताः - 'असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद्दोषतो भेदात्स्वयमुक्तिर्मृतान्तरः ॥' इति । के पुनर्वचनात् असा- क्षिण इत्यत आह- 'श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षि- णस्ते वचनान्नात्र हेतुरुदाहृतः ॥' ( १।१५८ ) इति । तापसा वानप्रस्थाः । 'आदि'शब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्खः - 'पित्रा विवद- मानगुरुकुलवासिपरिव्राजकवानप्रस्थ४निर्ग्रन्था असाक्षिणः' इति । दोषादसाक्षिणो दर्शिताः- 'स्तेनाः साहसिकाय्चण्डाः कितवा वै५ञ्चकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥' ( नारदः १।१५९ ) । चण्डाः कोपनाः, कितवा द्यूतकृतः । भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम् - 'साक्षिणां लिखितानां च निर्दिष्टांनां च ६वादिनाम् । तेषामेकोऽन्यथावादी भेदात्सर्वे नै साक्षिणः ॥' इति । तथा स्वयमुक्तिस्वरूपं चोक्तम् - 'स्वयमुक्तिर्८निर्दिष्टः स्वयमेवैत्य यो वदेत् । सूच्यित्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥' ( १।१६१ ) इति । १. सत्यवादन । २. छानपराः । ३. स्वयमुक्तिर्मृतान्तरम् ; स्वयमुक्तैः । ४. वानप्रस्था निर्ग्रन्थाश्चाप्ता; निर्ग्रन्था निगडस्थाः । ५. वञ्चकास्तथा । ६. वादिना । ७. असाक्षिणः । ८. मुक्तिर्हि निर्दिष्टः ।
मृतान्तरस्यापि लक्षणमुक्तम्—'योऽर्थः श्रावयितव्यः स्यात्तस्मिन्नसति चार्थिनि । क तद्वदतु साक्षित्वमित्यसाक्षी मृतान्तरः ॥' (१।१६२) इति । येनार्थिना प्रत्यर्थिना वा साक्षिणां योऽर्थः श्रावयितव्यो भवेत् 'यूयमत्रार्थे साक्षिणः' इति तस्मिन्नर्थिनि प्रत्यर्थिनि वा असति मृतेऽर्थे चानिविदिते, १साक्षी क्व कस्मिन्नर्थे कस्य वा कृते साक्ष्यं वदत्विति मृतान्तरः साक्षी न भवति । यत्र तु मुमूर्षुणा स्वस्थेन वा पित्रा पुत्रादयः श्राविता 'अस्मिन्नर्थेऽमी साक्षिणः' इति तत्र मृता- न्तरोऽपि साक्षी । तथाह नारदः ( १।९६) —'मृतान्तरोऽर्थिनि प्रेते मुमूर्षु- श्रावितादृते' । तथा— 'श्रावितोऽनातुरेणापि यस्त्वर्थो धर्मसंहितः । मृतेऽपि तत्र साक्षी२ स्यात्षट्सु चान्वाहितादिषु ॥' इति ॥ ६८-६९ ॥ भाषा—तपस्वी, दानी, कुलीन, सत्यवादी, ( अर्थ और काम को छोड़ कर ) धर्म में प्रमुख रूप से रत, सरल, पुत्रवान्, धनवान् और श्रौत एवं स्मार्त कर्मों का अनुष्ठान करने वाले तीन से अधिक साक्षी जानने चाहिए जो ब्राह्मणादि वर्ण एवं मूर्धावसिक्त आदि जातियों के अनुसार सबका सबके लिये साक्षी बनना विहित है ॥ ६८-६९ ॥ तानेतानसाक्षिणो दर्शयति— स्त्रीबालवृद्धकितवमत्तोन्मत्ताभिशस्तकाः । रङ्गावतारिपाखण्डिकूटकृद्विकलेन्द्रियाः ॥ ७० ॥ पतिताप्तार्थसंबन्धिसहायरिपुतस्कराः । साहसी दृष्टदोषश्च ५निर्धूताद्यास्त्वसाक्षिणः ॥ ७१ ॥ स्त्री प्रसिद्धा, बालोऽप्राप्तव्यवहारः, वृद्धोऽशीतिकावरः, 'वृद्ध'ग्रहणं वचन- निषिद्धानामप्येषामपि श्रोत्रियादीनामुपलक्षणार्थम् ; कितवोऽक्षदेवी, मत्तः पानादिना, उन्मत्तो ६ग्रहाविष्टः, अभिशस्तोऽभियुक्तो ब्रह्महत्यादिना, रङ्गाव- तारी चारणः । पाखण्डिनो निर्ग्रन्थप्रभृतयः । कूटकृत् कपटलेख्यादिकारी । विकलेन्द्रियः श्रोत्रादिरहितः, पतितो ब्रह्महादिः, आप्तः सुहृत्, अर्थ- संबन्धी विप्रतिपद्यमानार्थसंबन्धी, सहाय एककार्यः, रिपुः शत्रुः, तस्करः स्तेनः, साहसी ७बलावष्टम्भकारी । दृष्टदोषो दृष्टविरुद्धवचनः, निर्धूतो बन्धुभिरुत्सृक्तः, 'आद्य' शब्दादन्येषामपि स्मृत्यन्तरोक्तानां दोषादसाक्षिणां भेदाद- साक्षिणां स्वयमुक्तेर्मृतान्तरस्य च ग्रहणम् । एते स्त्रीबालादयः साक्षिणो न भवन्ति ॥ ७०-७१ ॥ १. साक्षित्वं कस्मिन्नर्थे । २. साक्षात्स्यात् । ३. वतारपाषण्डकूट । ४. पाषाण्डि । ५. निर्धूतश्रेयसा । ६. भूताविष्टः । ७. स्वबला । ८. दृष्टवितथवचनः ।
२२६ याज्ञवल्क्यस्मृतिः —स्त्री, बालक ( ८० वर्ष से ऊपर का ), वृद्ध, जुआरी, मत्त ( मदिरा पीने वाला ), उन्मत्त ( पागल ), महापातकी, रंगावतारी, पाखण्डी, झूठा लेख लिखने वाला, विकलेन्द्रिय ( बहरा या गूंगा ), ब्रह्म-हत्यादि महापाप करने वाला पतित, मित्र, धन देने वाला, सहायक, शत्रु, चोर, साहसी ( बलपूर्वक किसी वस्तु का अपहरण करने वाला ), प्रत्यक्ष दोष से युक्त, और बन्धुओं द्वारा परित्यक्त व्यक्ति साक्षी नहीं होते हैं ॥ ७०-७१ ॥ 'त्र्यवराः साक्षिणो ज्ञेयाः' ( व्य० ६९ ) इत्यस्यापवादमाह— उभयानुमतः साक्षी भवत्येकोऽपि धर्मवित् । ज्ञानपूर्वकं नित्यनैमित्तिककर्मानुष्ठायी धर्मवित् स एकोऽप्युभयानुमत- श्चेत्साक्षी भवति । 'अपि'शब्दबलाद् द्वावपि । यद्यपि 'श्रौतस्मार्तक्रियापराः' (व्य० ६९) इति त्र्यवराणामपि धर्मवित्वं समानं, तथापि तेषामुभयानुमत्याभा- वेऽपि साक्षित्वं भवति । एकस्य द्वयोर्वोभयानुमत्यैव साक्षित्वं भवतीत्यर्थवत् 'त्र्यवर'ग्रहणम् ॥— 'तपस्विनो दानशीलाः, ( व्य० ६८ ) इत्यस्यापवादमाह— सर्वः साक्षी संग्रहणे चौर्यपारुष्यसाहसे ॥ ७२ ॥ संग्रहणादीनि वक्ष्यमाणलक्षणानि तेषु सर्वे वचननिषिद्धास्तपःप्रभृतिगुण- रहिताश्च साक्षिणो भवन्ति । दोषादसाक्षिणो भेदादसाक्षिणः स्वयमुक्तिश्चात्रापि साक्षिणो न भवन्ति; सत्याभावादिति हेतोरत्रापि विद्यमानत्वात् ।—'मनुष्यमा- रणं चौर्यं परदारामिमर्शनम् । पारुष्यमुभयं चेति साहसं स्याच्चतुर्विधम् ॥' ( नारदः १४।१ ) इति वचनाद्यद्यपि स्त्रीसंग्रहणचौर्यपारुष्याणां साहसत्वं तथापि तेषां स्वबलावष्टम्भेन जनसमक्षं क्रियमाणानां साहसत्वम् । रहसि क्रियमाणानां तु 'संग्रहणादि'शब्दवाच्यत्वमिति तेषां साहसात्पृथगुपादानम् ॥ ७२ ॥ भाषा—दोनों पक्ष स्वीकार करें तो धर्म को जानने वाला एक ही व्यक्ति साक्षी हो सकता है । चोरी और कठोर वचन के निर्जन स्थान पर करने अर्थात् संग्रहण में और इनके खुल्लमखुल्ला करने पर अर्थात् साहस में सभी साक्षी हो सकते हैं ॥ ७२ ॥ साक्षिश्रावणमाह— साक्षिणः श्रावयेद्वादिप्रतिवादिसमीपगान् । अर्थिप्रत्यर्थिसंनिधौ साक्षिणः समवेतान् 'नासमेताः पृष्टाः प्रब्रूयुः' ( १३।५ ) इति गौतमवचनात्, वक्ष्यमाणं श्रावयेत् । तत्रापि कात्यायनेन विशेषो १. अपिशब्दाद् द्वावपि । २. व्यर्थं च त्र्यवर । ३. सत्यवादित्वहेतोः । ४. पृथग्गुणः ।
दर्शितः—'सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ । प्राड्विवाको नियुञ्जीत विधिनाऽनेन सान्त्वयन् । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद्दतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ॥' ( मनुः ८।७९, ८७ ) 'आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । समस्तान्र्विदिताचारान्वि- ज्ञातान्पृथक्पृथक् ॥' ( नारदः १।१५८ ) इति । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः ( ८।११३ )—'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' इति । ब्राह्मणमन्यथा ब्रु¹वतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति, गोबीजकाञ्च- नादीनि तव विफलानि भविष्यन्तीति वैश्यम् , शूद्रमन्यथा ब्रुवतस्तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस्तेनैव दर्शितः ( ८।१०२ )— 'गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धुषिकांश्चैव विप्रान्शूद्र- वदाचरेत् ॥' इति । 'विप्र' ग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । कुशीलवा गाय- काः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्युक्तयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनाल्लोकतो वा निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषमुद्भाव्य साधयितुं न शक्नोति प्रतिवादी, तदाऽसौ दोषानुसा²रेण दण्ड्यः । अथ साधयति, तदा न साक्षिणः । यथाह—'असा³धयन्दमं दाप्यो दूषणं साक्षिणां स्फुटम् । भाविते साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥' इति । उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रियान्तरनिरपेक्षस्तदा पराजितो भवति; 'जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षिस्वेव व्यवस्थितः ॥' इति स्मरणात् । साकाङ्क्षश्चेत्क्रियान्तरमवलम्बेतैत्य- भिप्रायः ॥—
कथं श्रावयेदित्यत आह— ये⁴ पातककृतां लोका महापातकिनां तथा ॥ ७३ ॥ अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । स तान्⁵सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ ७४ ॥ सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ ७५ ॥ 'पातकोपपातकसमहापातककारिणामग्निदानां स्त्रीबालघातिनां च ये लोका- स्तान्सर्वानसावाप्नोति यः साक्ष्यमनृतं वदति । तथा⁶ जन्मान्तरशतैर्यत्सुकृतं कृतं, तत्सर्वं तस्य भवति, यस्ते⁷ऽनृतवदनेन पराजितो भवति' इति, 'इति
१. ब्रुवन्तं । २. सारानुसारेण । ३. असाधयन् अभावयन् । ४. ये च पातकिनां लोकाः । ५. तान्सर्वान्समवा । ६. यथा । ७. यस्तेऽनृतवचनेन । यस्तेनोऽनृतवदनेन ।
१५ या०
२२८ याज्ञवल्क्यस्मृतिः श्रावयेत्' इति संबन्धः । एतच्च शूद्रविषयं द्रष्टव्यम् ; 'शूद्रं सर्वैस्तु पातकैः' ( मनुः ८।१२३ ) इति शूद्रे सर्वपातक'श्रावणस्य विहितत्वात् । गोरक्षकादि- द्विजातिविषयं च; 'गोरक्षकान्वाणिजकान्' ( मनुः ८।१०२ ) इत्युक्तत्वात् । अस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश्चानृतवचनमात्रेणानु- नुपपत्तेः, साक्षिसंत्रासार्थमिदमुच्यते । तथाह नारदः ( १।२०० ) - 'पुराणै- र्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्रासयेदिमान् ॥' इति ॥ ७३-७५ ॥
भाषा—वादी और प्रतिवादी के समीप स्थित साक्षियों को सम्बोधित कर उन्हें इस प्रकार सुनावे—जो लोक पातक करने वाले एवं महापातकियों को मिलते हैं, जो लोक आग लगाने वालों को एवं जो लोक स्त्री एवं बालकों की हत्या करने वालों को मिलते हैं उन सभी लोकों को वह व्यक्ति प्राप्त करता है जो साक्ष्य में झूठ बोलता है । तुम लोगों ने सौ जन्म-जन्मान्तर में जो कुछ भी पुण्यार्जन किया है उन सबको उस व्यक्ति का समझना जिसे तुम झूठे ही पराजित करोगे ॥ ७३-७५ ॥
यदा तु श्राविताः साक्षिणः कथंचिन्न ब्रूयुस्तदा किं कर्तव्यमित्यत आह— अब्रुवन्हि नरः साक्ष्यमृणं सदशबन्धकम् । राज्ञा सर्वं प्रदाप्यैः स्यात्षट्चत्वारिंशकेऽहनि ॥ ७६ ॥
यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथंचिन्न वदति स राज्ञा सर्वं सबृद्धिक- मृणं धनिने दाप्यः, सदशबन्धकं दशांशसहितम् । दशांशश्च राज्ञो भवति; 'राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम्' ( व्य० ४२ ) इत्युक्तत्वात् । एतच्च षट्चत्वारिंशकेऽहनि प्राप्ते वेदितव्यम् । ततोऽर्वाग्वदन्न दाप्यः, इदं च व्याध्याद्युपप्लवरहितस्य । तथाह मनुः ( ८।१०७ )—'त्रिपक्षादब्रुवन्साक्ष्य- मृणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वशः ॥' इति । 'अगद' इति राजदैवोपप्लवविरहोपलक्षणम् ॥ ७६ ॥
भाषा—जो साक्ष्य स्वीकार करके उसके अनन्तर कुछ न बोले उससे राजा वृद्धि के साथ सम्पूर्ण ऋण का धन धनी को दिलावे तथा साथ ही उसका दशमांश वसूल करे । इन सभी धनों को राजा छियालिसवें दिन दिलावे ॥ ७६ ॥
१. श्रवणस्य । २. विहितं च । ३. अस्यानेक । ३. भृशं संत्रासयेत् । ५. प्रदाप्यः षट् । ६. चत्वारिंशत्तमेऽहनि ।
व्यवहाराध्यायः २२६ यस्तु जानन्नपि साक्ष्यमेव नाङ्गीकरोति दौरात्म्यात्तं प्रत्याह— न ददाति हि यः साक्ष्यं जानन्नपि नराधमः । स कूटसाक्षिणां पापैस्तुल्यो दण्डेन चैव हि ॥ ७७ ॥ यः पुनर्नराधमो विप्रतिपन्नमर्थं विशेषतो जानन्नपि साक्ष्यं न ददाति नाङ्गीकरोति स कूटसाक्षिणां तुल्यः पापैः दण्डेन च । कूटसाक्षिणां च दण्डं वक्ष्यति । कूटसाक्षिणश्च दण्डयित्वा पुनर्व्यवहारः प्रवर्तनीयः । कृतोऽपि वा, कौटसाक्ष्ये विदिते निवर्तनीयः । यथाह मनुः (८।११७)—'यस्मिन्यस्मि- न्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् ॥' इति ॥ ७७ ॥ भाषा—जो नीच मनुष्य जानता हुआ भी साक्ष्य (गवाही) नहीं देता है वह कूटसाक्षियों का पाप करता और उस उन्हीं के समान दण्ड देना चाहिए ॥७७॥ साक्षिविप्रतिपत्तौ कथं निर्णय इत्यत आह— द्वैधे बहूनां वचनं समेषु गुणिनां तथा । गुणिद्वैधे तु वचनं ग्राह्यं ये गुणवत्तमाः ॥ ७८ ॥ साक्षिणां द्वैधे विप्रतिपत्तौ बहूनां वचनं ग्राह्यम् । समेषु समसंख्येषु द्वैधे ये गुणिनस्तेषां वचनं प्रमाणम् । यदा पुनर्गुणिनां विप्रतिपत्तिस्तदा ये गुण- वत्तमाः श्रुताध्ययनतदर्थानुष्ठानधनपुत्रादिगुणसंपन्नास्तेषां वचनं ग्राह्यम् । यत्र तु गुणिनः कतिपये, इतरे च बहवस्तत्रापि गुणिनामेव वचनं ग्राह्यम् ; 'उभया- नुमतः साक्षी भवत्येकोऽपि धर्मवित्' (व्य० ७२) इति गुणातिशयस्य मुख्यत्वात् । यत्तु 'भेदात्साक्षिणः' (व्य० ६८।६९) इत्युक्तं, तत्सर्वसाम्येनागृ- ह्यमाणविशेषविषयम् ॥ ७८ ॥ भाषा—साक्षियों के कथनों में अन्तर (द्वैध) हो तो उनमें से अधिकांश की बात को, दोनों ओर समान हों तो गुणियों के कथन को और गुणियों में भी परस्पर विरोध हो तो जो सर्वाधिक गुणवान् साक्षी हों उनके वचन को ग्रहण करना चाहिए ॥ ७८ ॥ साक्षिभिश्च कथमुक्ते जयः कथं वा पराजय इत्यत आह— यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत् । अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः ॥ ७९ ॥ यस्य वादिनः प्रतिज्ञां द्रव्यजातिसंख्यादिविशिष्टां साक्षिणः सत्यां वदन्ति सत्यमेवं जानीमो वयमिति स जयो भवति । यस्य पुनर्वादिनः प्रतिज्ञा- १. कृतेऽपि कौटसाक्ष्ये । २. यत्र गुणिनः ।
२४० याज्ञवल्क्यस्मृतिः मन्यथा वैपरीत्येन मिथ्यैतदिति वदन्ति तस्य पराजयो ध्रुवो निश्चितः । यत्र तु प्रतिज्ञातार्थस्य विस्मरणादिना भावाभावौ साक्षिणो न प्रतिपादयन्ति, तत्र प्रमाणान्तरेण निर्णयः कार्यः । न च राज्ञा साक्षिणः पुनः पुनः प्रष्टव्याः । स्वभावोक्तमेव वचनं ग्राह्यम् । यथाह—'स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोष- वर्जितम् । उक्ते तु साक्षिणो राज्ञा न प्रष्टव्याः पुनः पुनः ॥' इति ॥ ७९ ॥ भाषा—जिसकी ( जिस वादी की ) प्रतिज्ञा ( दावे ) को साक्षी सत्य करार दें वह विजयी होता है और जिस ( वादी ) की प्रतिज्ञा को वे असत्य बताते हैं उसकी निश्चित पराजय होती है ॥ ७९ ॥ 'अन्यथा वादिनो यस्य ध्रुवस्तस्य पराजयः' ( व्य० ७९ ) इत्यस्यापवादमाह- उक्तेऽपि साक्षिभिः साक्ष्ये यद्यन्ये गुणवत्तमाः । द्विगुणा वाऽन्यथा ब्रूयुः कूटाः स्युः पूर्वसाक्षिणः ॥ ८० ॥ पूर्वोक्तलक्षणैः साक्षिभिः साक्ष्ये स्वाभिप्राये प्रतिज्ञातार्थवैपरीत्येनाभिहिते यद्यन्ये पूर्वेभ्यो गुणवत्तमाः द्विगुणा वा अन्यथा प्रतिज्ञातार्थाननुगुण्येन साक्ष्यं ब्रूयुस्तदा पूर्वे साक्षिणः कूटा मिथ्यावादिनो भवेयुः । नन्वेतदनुपपन्नम् ; अर्थिप्रत्यर्थिसभ्यसभापतिभिः परीक्षितैः प्रमाणभूतैः साक्षिभिर्निगदिते प्रमा- णान्तरान्वेषणेऽनवस्थादोषप्रसङ्गात्—'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥', 'यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः । निर्णिक्तव्यवहाराणां प्रमाणमफलं तथा ॥' ( ना० १।६३-६२ ) इति नारदवचनाच्च । उच्यते,-यदाऽर्थी प्रतिज्ञातार्थस्या- न्तरात्मसाक्षित्वेनानाविष्कृतदोषाणामपि साक्षिणां वचनमर्थविसंवादित्वेनाप्रमाणं मन्यमानः साक्षिष्वपि दोषं कल्पयति तदा प्रमाणान्तरान्वेषणं केन वार्यते ? उक्तं च—'यस्य च दुष्टं करणं यत्र च मिथ्येति प्रत्ययः स एवासमीचीनः' इति ॥ यथा चक्षुरादिकरणदोषानध्यवसायेऽप्यर्थविसंवादात्तज्जनितस्य ज्ञानस्या- प्रामाण्येन करणदोषकल्पना तथेहापि; साक्षिपरीक्षातिरेकेण वाक्यपरीक्षोप- देशाच्च ।—'साक्षिभिर्भाषितं वाक्यं सह सभ्यैः परीक्षयेत्' इति । कात्यायनेना- प्युक्तम्—'यदा शुद्धा क्रिया न्यायात्तदा तद्वाक्यशोधनम् । शुद्धाच्च वाक्याद्यः शुद्धः स शुद्धोऽर्थ इति स्थितिः ॥' इति । क्रिया साक्षिलक्षणा, 'नार्थसम्बन्धिनो नाप्ताः' ( मनुः ८।६४ ) इति न्यायाद्यदा शुद्धा तदा तद्वाक्यशोधनं साक्षिवा- क्यशोधनं कर्तव्यम् ; वाक्यशुद्धिश्च सत्यार्थप्रतिपादनेन; 'सत्येन शुद्धयते १. स्वाभिप्रायेण प्रतिज्ञा । २. मिथ्यासाक्षिणो । ३. कारणं दुष्टं । ४. ज्ञानस्य प्रामाण्य । ५. वाक्यपरीक्षोप॑ । -
व्यवहाराध्यायः २१९
वाक्यम्' इति स्मरणात् । एवं शुद्धायाः क्रियायाः शुद्धवाक्याच्च यः शुद्धोऽव- गतोऽर्थः स शुद्धस्तथाभूत इति स्थितिरीदृशी मर्यादा न्यायविदाम् । कारण- दोषबाधकप्रत्ययाभावे सत्यवितथ एवार्थ इत्यर्थः । ननु स्वयमर्थिना प्रमाणीकृ- तान्त्साक्षिणोऽतिक्रम्य कथं क्रियान्तरं प्रमाणीक्रियते ? नैष दोषः; यतः—'क्रियां बलवतीं मुक्त्वा दुर्बलां योऽवलम्बते । स जयेऽवधृते सभ्यैः पुनस्तां नाप्नुयात्क्रियाम् ॥' इति कात्यायनेन जयावधारणोत्तरकालं क्रियान्तरपरिग्रह- निषेधाज्जयावधारणात्प्राक् क्रियान्तरपरिग्रहो दर्शितः । नारदेनापि ( ना० १।६२ )—'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत्' इति वदता जयावधार- णोत्तरकालमेव प्रमाणान्तरं निषिद्धं न प्रागपि । तस्मादुक्तेऽपि साक्षिभिः साध्येऽ- परितुष्यता क्रियान्तरमङ्गीकर्तव्यमिति स्थितम् । एवं स्थिते यद्यभिहितवचनेभ्यः साक्षिभ्यो गुणवत्तमा द्विगुणा वा पूर्वनिर्दिष्टा असन्निहिताः साक्षिणः सन्ति तदा त एव प्रमाणीकर्तव्याः; 'स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम्' इत्यस्य सर्वव्यवहारशेषत्वात् , 'निर्णिक्ते व्यवहारे तु प्रमाणमफलं भवेत् । लिखितं साक्षिणो वापि पूर्वमावेदितं न चेत् ॥' ( ना० १।६२ ) इति नारदवचनाच्च । पूर्वनिर्दिष्टानामसम्भवे स्वनिर्दिष्टा अपि तथाविधाः साक्षिण एव ग्राह्या न दिव्यं; 'सम्भवे साक्षिणां प्राज्ञो वर्जयेद्दैविक क्रियाम्' इति स्मरणात् । तेषामसंभवे दिव्यं प्रमाणीकर्तव्यम् । अतः परमपरितुष्यताप्यर्थिना न प्रमाणान्तरमन्वेषणीयमवच- नादिति परिसमापनीयो व्यवहारः । यत्र तु प्रत्यर्थिनः स्वप्रत्ययविसंवादित्वेन साक्षिवचनस्याप्रामाण्यं मन्यमानस्य साक्षिषु दोषारोपेणापरितोषस्तत्र प्रत्यर्थिनः क्रियोपन्यासावसराभावान्सप्ताहावधिकदैविकराजिकव्यसनोद्भवेन साक्षिपरीक्षणं कर्तव्यम् । तत्र च दोषावधारणे साक्षिणो विवादस्पदीभूतमृणं दाप्याः, सारापु- सारेण दण्डनीयाश्च । अथ दोषानवधारणं, तदा प्रत्यर्थिना तावता संतोष्टव्यम् । यथाह मनुः ( ८।१०८ )— 'यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणमृणं दाप्यो दमं च सः ॥' इति । एतच्च 'यस्योचुः साक्षिणः सत्यां प्रतिज्ञां स जयी भवेत्' इत्यस्य अपरिसुष्यत्प्रत्यर्थिविषयेऽपवादो द्रष्टव्यः । केचितु 'उक्तेऽपि साक्षिभिः साध्ये' ( व्य० ८० ) इत्येतद्वचनमर्थिना निर्दिष्टेषु साक्षिष्वर्थ्यनुकूलमभिहितवत्सु यदि प्रत्यर्थी गुणवत्तमान्द्विगुणान्वाऽन्यान्साक्षिणः पूर्वोक्तविपरीतं संवादयति तदा पूर्ववादिनः साक्षिणः कूटा इति व्याचक्षते,– तदसत्; प्रत्यर्थिनः क्रियानुपपत्तेः । तथा हि—अर्थी नाम साध्यस्यार्थस्य
१. शुद्धाच्च वाक्याद्यः शुद्धो । २. कृताः साक्षिणो । ३. तथाविधा एव साक्षिणो ग्राह्याः । ४. प्रमाणं कर्तव्यं । ५. मनुवचनात . यमवचनात् । ६. दोषावधारणं ।
२३२ याज्ञवल्क्यस्मृतिः निर्देष्टा, तत्प्रतिपक्षस्तदभाववादी प्रत्यर्थी, तत्राभावस्य भावसिद्धिसापेक्षसिद्धि- त्वाद्भावस्य चाभावसिद्धिनिरपेक्षसिद्धित्वाद्भावस्यैव साध्यत्वं युक्तम् ; अभावस्य^२ स्वरूपेण साध्यादिप्रमेयत्वाभावात् । अतश्चार्थिन एव क्रिया युक्ता । अपि चोत्तरानुसारेण सर्वत्रैव क्रिया नियता स्मर्यते; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति । न चैकस्मिन्व्यवहारे द्वयोः क्रिया; 'नचैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः' इति स्मरणात् । तस्मात्प्रतिवादिनः साक्षिणो गुणवत्तमा द्विगुणा वाऽन्यथा ब्रूयुरित्यनुपपन्नम् ॥ अथ मतम्-यत्र द्वावपि भावप्रतिज्ञावादिनौ 'मदीयमिदं दायादप्राप्तं मदीयमिदं दायादप्राप्त'मिति प्रतिज्ञावादिनोः पूर्वापरकालविभागा- नाकलिंतमेव वदतस्तत्र द्वयोः साक्षिषु सत्सु कस्य साक्षिणो ग्राह्या इत्या- काङ्क्षायां-'द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवे- युस्तस्य साक्षिणः ॥' इति वचनेन यः पूर्वं निवेदयति, तस्य साक्षिणो ग्राह्या इति स्थिते, तस्यापवादः-'उक्तेऽपि साक्षिभिः साध्ये' इति । अतश्च पूर्वोत्त- रयोर्वा दिनोः समसंख्येषु समगुणेषु साक्षिषु सत्सु पूर्ववादिन एव साक्षिणः प्रष्टव्याः । यदा तु उत्तरवादिनः साक्षिणो गुणवत्तमा द्विगुणा वा तदा प्रति- वादिनः साक्षिणः प्रष्टव्याः । एवं च नाभावस्य साध्यता; उभयोरपि भाववादि- त्वात्, चतुर्विधोत्तरविलक्षणत्वाच्च प्रकृतोदाहरणे न क्रियाव्यवस्था । एकस्मिन्व्य- वहारे तु यथैकस्यार्थिनः क्रियाद्वयं परमते तथा वादिप्रतिवादिनोः क्रियाद्वयेऽ- प्यविरोध इति । तदप्याचार्यो नानुमन्यते- 'उक्तेऽपि साक्षिभिः साध्ये' इत्यवि- झाब्दादर्थात्प्रकरणाद्वाऽस्यार्थस्यानवगमादित्यलं प्रसङ्गेन ॥ ८० ॥ भाषा—साक्षियों के अपना वक्तव्य (बयान) दे लेने पर जो दूसरी प्रकृष्ट गुणवाले व्यक्ति या उनसे दूने व्यक्ति अन्यथा (उनके वक्तव्य के विप- रीत) कहें तो वे पहले के साक्षी कूट साक्षी हो जाते हैं ॥ ८० ॥ कूटसाक्षिणो दर्शितास्तेषां दण्डमाह— पृथक्पृथग्दण्डनीयाः कूटकृत्साक्षिणस्तथा । विवादाद् द्विगुणं दण्डं विवास्यो ब्राह्मणः स्मृतः ॥ ८१ ॥ यो धनदानादिना कूटान्त्सान्क्षिणः करोति स कूटकृत्, साक्षिणश्च ये तथा कूटान्ते विवादान्नाम विर्वादास्पदजयात्पराजये यो दण्डस्तत्र तत्रोक्तस्तं दण्डं १. वाभावनिरपेक्ष । २. अभावस्वरूपेण । ३. कस्मिन्विवादे । ४. पवादमाह । ५. प्याचार्या नानुमन्यन्ते । ६. विवादाद्विवादपराजयै, 'विवादास्पदपराजयै ।
[Header] व्यवहाराध्यायः २३३
द्विगुणं पृथक्पृथगेकैकशो दण्डनीयाः । ब्राह्मणस्तु विवास्यो राष्ट्रात्रिर्वास्यः, न¹ दण्डनीयः । एतच्च लोभादिकारणविशेषापरिज्ञाने अनभ्यासे च वेदितव्यम्² । लोभादिकारणविशेषपरिज्ञानेऽभ्यासे च मनूक्तम् (८।१२०-२१)—'लोभा- त्सहस्रं दण्ड्यः स्यान्मोहात्पूर्वं तु साहसम् । भयाद् द्वौ मध्यमौ दण्डौ³ मैत्र्यात्पूर्वं चतुर्गुणम् ॥ कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । अज्ञानाद् द्वे शते पूर्णे बालिश्याच्छतमेव तु ॥' इति । तत्र लोभोऽर्थलिप्सा, मोहो विपर्ययज्ञानम् , भयं संत्रासः, मैत्री स्नेहातिशयः, कामः स्त्रीव्य⁴तिकराभिलाषः, क्रोधोऽमर्षः । अज्ञानमस्फुटज्ञानम्, बालिश्यं ज्ञानानुत्पादः । - सहस्रादिषु तान्त्रिकाः पणा गृह्यन्ते । तथा (मनुः ८।१२३)- 'कूटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् ॥' इति, एतच्चाभ्यासविषयम् ; कुर्वा- णानिति वर्तमान⁵निर्देशात् । त्रीन्वर्णान्वक्षत्रियादीन् पूर्वोक्तं दण्डं दण्डयित्वा प्रवा- सयेन्मारयेत् । अर्थशास्त्रे 'प्रवास'शब्दस्य मारणे प्रयोगात् , अस्य चार्थशास्त्ररूप-⁶ त्वात् । तत्रापि प्रवासनमोष्ठच्छेदने जिह्वाच्छेदनं प्राणवियोजनं च कूटसाक्ष्य- विषयानुसारेण द्रष्टव्यम् । ब्राह्मणं तु दण्डयित्वा विवासयेत् स्वराष्ट्रात्रिष्कासयेत् । यद्वा, -वाससो विगती विवासाः । विवासनं करोतीति णिचि कृते 'णाविष्ठव- त्प्रातिपदिकस्य' इति टिलोपे रूपम् । विवासयेत् नग्नीकुर्यादित्यर्थः । अथवा वसत्यस्मिन्निति वासो गृहम् । विवासयेत् भग्नगृहं कुर्यादित्यर्थः । ब्राह्मणस्यापि लोभादिकारणविशेषापरिज्ञानेऽनभ्यासे च तत्र तत्रोक्तो दण्ड एव । अभ्यासे स्वर्थ- दण्डो विवासनं च । तत्रापि जातिद्रव्यानुबन्धाद्यपेक्षया विवासनं नग्नीकरणं गृह- भङ्गो देशान्निर्वासनं चेति व्यवस्था द्रष्टव्या । लोभादिकारणविशेषापरिज्ञानेऽ- नभ्यासे चाल्पविषये कूटसाक्ष्ये ब्राह्मणस्यापि क्षत्रियादिवदर्थदण्ड एव । महाविषये तु देशान्निर्वासनमेव । अत्राप्यभ्यासे सर्वेषामेव मनूक्तं द्रष्टव्यम् । न च ब्राह्मणस्यार्थदण्डो नास्तीति मन्तव्यम् । अर्थदण्डाभावे शारीरदण्डे च निषिद्धे स्वल्पेऽप्यपराधे नग्नीकरणगृहमङ्गाङ्ककरणविप्रवासनं दण्डाभावो वा प्रसज्येत; 'चतुर्णामपि वर्णानां प्रायश्चित्तमकुर्वताम् । शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ॥' इति स्मरणाच्च । तथा (मनुः ८।३७८ )-'सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद् व्रजन्' इति स्मरणात् । यत्तु शङ्खवचनम्- 'त्रयाणां वर्णानां धनापहारवध-बन्धक्रिया विवासनाङ्ककरणं ब्राह्मणस्य' इति, तत्र धनापहारः सर्वस्वापहारो विवक्षितः वधसाहचर्यात् ; 'शारीर- स्त्ववरोधादिर्जीवितान्तः प्रकीर्तितः । काकिण्यादिस्त्वर्थदण्डः सर्वस्वान्त-
[Footnotes] १. न दण्ड्याः । २. द्रष्टव्यम् । ३. भयादौ मध्यमो दण्डो । ४. स्त्रीव्य- तिरेकाभि । ५. वर्तमानकाल । ६. शास्त्रस्वरूप ।
स्तथैव च ॥' ( नारदः परि० ५४ ) इति वधसर्वस्वहरणयोः सहपाठात् । यदप्युक्तम्—'राष्ट्रादेनं बहिः कुर्यात्समग्रधनमक्षतम्' इति, तत्प्रथम- कृतसाहसविषयं; न सर्वविषयम् । शारीरस्तु ब्राह्मणस्य न कदाचिद्भवति । 'न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम्' ( मनुः ८।३८० ) इति सामा- न्येन मनुस्मरणात् । तथा मनुः ( ८।३८१ )—'न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ॥' इति ॥ ८१ ॥ भाषा—( धन लेकर ) मिथ्या बोलने वाले कूट-साक्षियों में प्रत्येक से उस विवाद में हारने वाले पर जितना दण्ड हो उससे दूना धन दण्ड के रूप में लेवे और यदि वह कूटसाक्षी ब्राह्मण हो तो उसे अपने राज्य से निर्वासित करे ॥ ८१ ॥ जानतः साक्ष्यानङ्गीकारे आह— यः साक्ष्यं श्रावितोऽन्येभ्यो निह्नुते तत्तमोवृतः । स दाप्योऽष्टगुणं दण्डं ब्राह्मणं तु विवासयेत् ॥ ८२ ॥ अपि च, यस्तु साक्षित्वमङ्गीकृत्यान्यैः साक्षिभिः सह साक्ष्यं श्रावितः सद्भिगदनकाले तमोवृतो रागाद्याक्रान्तचित्तस्तत्साक्ष्यमन्येभ्यः साक्षिभ्यो निह्नुते—'नाहमत्र साक्षी भवामि' इति, स विवादपराजयो यो दण्डस्तं दण्ड- मष्टगुणं दाप्यः । ब्राह्मणं पुनरष्टगुणद्रव्यदण्डदानासमर्थं विवासयेत् । विवासनं च नग्नीकरणगृहभङ्गदेशनिर्वासनलक्षणं विषयानुसारेण द्रष्टव्यम् । इत- रेषाम् त्वष्टगुणद्रव्यदण्डदानासंभवे स्वजात्युचितकर्मकरणनिगडबन्धनकारागृहप्रवे- शादि द्रष्टव्यम् । एतच्च पूर्वश्लोकेऽप्यनुसर्तव्यम् । यदा सर्वे साक्ष्यं निह्नुवते तदा सर्वे समानदोषाः । यदा तु साक्ष्यमुक्त्वा पुनरन्यथा वदन्ति, तदानुबन्धाद्यपे- क्षया दण्ड्याः । यथाह कात्यायनः—'उक्त्वाऽन्यथा ब्रुवाणाश्च दण्ड्याः स्युर्श- ङ्खलान्विताः' इति । न चान्येनोक्ताः साक्षिणोऽन्येन रहस्यनुसर्तव्याः । यथाह नारदः ( १।१६५ )—'न परेण समुद्दिष्टमुपेयात्साक्षिणं रहः । भेदयेन्नैव चान्येन ^२हीयेतैवं समाचरन् ॥' इति ॥ ८२ ॥ भाषा—जो साक्षी होना स्वीकार करके अन्य साक्षियों के साथ शपथ दिलाये जाने पर साक्षी होने से विरत होता है उससे विवाद के हारने पर जो दण्ड हो उसका आठ गुना धन दण्ड के रूप में ले और यदि वह ब्राह्मण हो तो उसे राज्य से निर्वासित करे ॥ ८२ ॥ साक्षिणामवचनमसत्यवचनं च सर्वत्र प्रतिषिद्धं, तदपवादार्थमाह— वर्णिनां हि वधो यत्र तत्र साक्ष्यनृतं वदेत् । १. दण्डासंभवे । २. हीयेच्चैवं । ३. वदेत् । साक्ष्यमनृतम् ।
व्यवहाराध्यायः २३५ यत्र वर्णिनां शूद्रविट्क्षत्रविप्राणां सत्यवचनेन वधः संभाव्यते तत्र साक्ष्यनृतं वदेत् सत्यं न वदेत् । अनेन च सत्यवचनप्रतिषेधेन साक्षिणः पूर्वप्रतिषिद्धमसत्यवचनमवचनं चाभ्यनुज्ञायते । यत्र शङ्काभियोगादौ सत्यवचने वर्णिनो वधोऽनृतवचने कस्यापि वधस्तत्रानृतवचनमभ्यनुज्ञायते । यत्र तु सत्यवचनेऽर्थिप्रत्यर्थिनोरन्यतरस्य वधोऽसत्यवचने चान्यतरस्य वधस्तत्र तूष्णीं- भावाभ्यनुज्ञा राजा यद्यनुमन्यते । अथ राजा कथमप्यकथने न मुञ्चति तदा भेदादसाक्षित्वं कर्तव्यम् । तस्याप्यसंभवे सत्यमेव वदितव्यम् । असत्यवचने वर्णिवधदोषोऽसत्यवचनदोषश्च । सत्यवचने तु वर्णिवधदोष एव, ^१तत्र च यथा- शास्त्रं प्रायश्चित्तं कर्तव्यम् ॥- तर्ह्यसत्यवचने तूष्णींभावे च शास्त्राभ्यनुज्ञानात्प्रत्यवायाभाव इत्यत आह— तत्पावनाय निर्वाप्यश्चरुः सारस्वतो द्विजैः ॥ ८३ ॥ तत्पावनाय अनृतवचनावचननिमित्तप्रत्यवायपरिहाराय सारस्वतश्च- रुर्द्विजैरेकैकशो निर्वाप्यः कर्तव्यः । सरस्वती देवता अस्येति सारस्वतः । अनवस्त्रावितान्तरूष्मपक्वौदने 'चरु'शब्दः प्रसिद्धः । इहायमभिसन्धिः—'साक्षि- णामनृतवचनमवचनं च यन्निषिद्धं तदिहाभ्यनुज्ञातम् । यत्तु—'^२नानृतं वदेत् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी' ( मनुः ८।१३ ) इति सामान्येनानृत- वचनमवचनं च प्रतिषिद्धं तदतिक्रमनिमित्तमिदं प्रायश्चित्तम् । नच मन्तव्यं साक्षिणामनृतवचनावचनाभ्यनुज्ञानेऽपि साधारणानृतवचनावचनप्रतिषेधातिक्रम- निमित्तकप्रत्यवायस्य तादव^४स्थ्यादभ्यनुज्ञावचनमनर्थकमिति । यतः साक्ष्यनृत- वचनावचनयोर्भूयान्प्रत्यवायः साधारणानृतवचनावचनयोरल्पीयानित्यर्थवदभ्य- नुज्ञावचनम् । यद्यपि भूयसः प्रत्यवायस्य निवृत्या भानुषङ्गिकस्याल्पीयसः प्रत्य- वायस्य निवृत्तिरन्यत्र तथापीहाभ्यनुज्ञावचनात्प्रायश्चित्तविधानाच्च भूयसो निवृ- त्याल्पीयानप्यानुषङ्गिकोऽपि प्रत्यवायो न निवर्तत इति गम्यते । एतदेवान्यत्र प्रश्नेषु वर्णिवधाशङ्कायां पान्थादीनामनृतवचनावचनाभ्यनुज्ञानं वेदितव्यम् । नच तत्र प्रायश्चित्तमस्ति; प्रतिषेधान्तराभावात् । निमित्तान्तरेण कालान्तरेऽर्थतत्त्वा- वगमेऽपि साक्षिणामन्येषां च दण्डाभावोऽस्मादेव वचनादवगम्यत इति ॥ ८३ ॥ भाषा—जहाँ सत्य बोलने से चारों वर्णों में किसी वर्ण के व्यक्ति के वध की संभावना हो वहाँ साक्षी झूठ बोले । उस ( असत्यभाषण ) की शुद्धि के लिए द्विज सरस्वती देवी के लिये चरु बनाकर चढ़ावे ॥ ८३ ॥ इति साक्षिप्रकरणम् ।
१. भ्यनुज्ञया । २. नाभृतं । ३. निषिद्धं । ४. स्थ्यादवचनाभ्य- नुज्ञा । ५. साक्षिणामसत्यवचनावचनप्रतिषेधातिक्रमयोः ।
अथ लेख्यप्रकरणम् ६
२३६ याज्ञवल्क्यस्मृतिः अथ लेख्यप्रकरणम् ६ भुक्तिसाक्षिणौ निरूपितौ, सांप्रतं लेख्यं निरूप्यते । तत्र लेख्यं द्विविधम्— शासनं जानपदं चेति । शासनं निरूपितम् । जानपदमभिधीयते । तच्च द्विवि- धम्—स्वहस्तकृतमन्यकृतं चेति । तत्र स्वहस्तकृतमसाक्षिकं, अन्यकृतं ससाक्षि- कम् अनयोश्च देशाचारानुसारेण प्रामाण्यम् । यथाह नारदः ( १।१३५ )— 'लेख्यं तु द्विविधं ज्ञेयं स्वहस्ताऽन्यकृतं तथा । असाक्षिमत्ससाक्षिकं सिद्धिर्देश- स्थितेस्तयोः ॥' इति । तत्रान्यकृतमाह— यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् ॥ ८४ ॥ धनिकाधमर्णयोर्योऽर्थो हिरण्यादिः परस्परं स्वरुच्या 'इयता कालेनैतावद्दे- यम्', 'इयती च प्रतिमासं वृद्धिः'इति निष्णातो व्यवस्थितः तस्मिन्नर्थे कालान्तरे विप्रतिपत्तौ वस्तुतत्त्वनिर्णयार्थं लेख्यं साक्षिमदुक्तलक्षणसाक्षियुक्तं धनिकपूर्वकं धनिकः पूर्वो यस्मिंस्तद्धनिकपूर्वकम् । धनिकनामलेखनपूर्वकमिति यावत् । कार्यं कर्तव्यम् । उक्तलक्षणाः साक्षिणो वा कर्तव्याः; 'कर्ता तु यत्कृतं कार्यं सिद्ध्यर्थं तस्य साक्षिणः । प्रवर्तन्ते विवादेषु स्वकृतं वाऽथ लेखकम् ॥' इति स्मरणात् ॥ ८४ ॥ भाषा—जब धनी और अधमर्ण ( ऋण ) में अपनी इच्छा से परस्पर कोई बात तय हुई हो ( जैसे ऋण भुगतान का समय, वृद्धि की दर आदि ) तो साक्षियों के सामने उसे लिख देना चाहिए । लेख में धनिक ( ऋणदाता ) का उल्लेख करें ॥ ८४ ॥ समामासतदर्धाहर्नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीयपितृनामादिचिह्नितम् ॥ ८५ ॥ अपि च, समा संवत्सरः, मासश्चैत्रादिः, तदर्धं पक्षः—शुक्लः कृष्णो वा, अहस्तिथिः प्रतिपदादिः, नाम धनिकर्णिकयोः, जातिर्ब्राह्मणत्वादिः, स्वगोत्रं वासिष्ठादिगोत्रम् , एतैः समादिभिश्चिह्नितम् , तथा सब्रह्मचारिकं बह्वृचादि- शाखाप्रयुक्तं गुणनाम बह्वृचः कठ इति । आत्मीयपितृनाम धनिकर्णिकपितृनाम, 'आदि'ग्रहणाद् द्रव्यजातिसंख्याचारादेर्ग्रह णम् । 'एतैश्च चिह्नितं लेख्यं कार्यम्' इति गतेन संबन्धः ॥ ८५ ॥ १. मन्यहस्तकृतं । २. सगोत्रकैः । ३. धनिकाऽधमर्णिकयोः । ४. संख्यावारादेः ।
व्यवहाराध्यायः २३० भाषा—वर्ष, मास, पक्ष, दिन, नाम, जाति और गोत्र के साथ लिखना चाहिए । तथा बह्वृच आदि वेद की शाखा, और अपने पिता का नाम लिखना चाहिए ॥ ८५ ॥ समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् ॥ ८६ ॥ किंच, धनिकाधमर्णयोर्योऽर्थः स्वरुच्या व्यवस्थितस्तस्मिन्नर्थे समाप्ते लिखिते ऋणी अधमर्णो नामात्मीयं स्वहस्तेनास्मिंल्लेख्ये यदुपरि लेखितं तन्ममामुक- पुत्रस्य मतं अभिप्रेतमिति निवेशयेत् पत्रे विलिखेत् ॥ ८६ ॥ भाषा—ऋणदाता और ऋणी में तय हुई बात लिखने के उपरान्त ऋणी अपने हाथ से अपना नाम लिखे और यह भी लिखे कि अमुक के पुत्र मुझको ऊपर लिखी हुई बात स्वीकार है ॥ ८६ ॥ साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहममुकः साक्षी लिखेयुरिति ते समाः ॥ ८७ ॥ तथा, तस्मिंल्लेख्ये ये साक्षिणो लिखितास्तेऽप्यात्मीयपितृनामलेखनपूर्वकं अस्मिन्नर्थेऽयममुको देवदत्तः साक्षी इति स्वहस्तेनैकेकशो लिखेयुः । ते च समाः संख्यातो गुणतश्च कर्तव्याः । यद्यधमर्णः साक्षी वा लिपिज्ञो न भवति तदा- धमर्णोऽन्येन साक्षी च साक्ष्यन्तरेण सर्वसाक्षिसंनिधौ स्वमतं लेखयेत् । यथाह नारदः—'अलिपिज्ञ ऋणी यः स्यात्स्वमतं तु स लेखयेत् । साक्षी वा साक्षिणा- ऽन्येन सर्वसाक्षिसमीपतः ॥' इति ॥ ८७ ॥ भाषा—साक्षी लोग भी अपने हाथ से अपने पिता के नाम के साथ अपना नाम लिखे कि इस समय मैं अमुक के यहाँ साक्षी के रूप में उपस्थित हूँ । साक्षियों की संख्या सम होनी चाहिए ॥ ८७ ॥ उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् ॥ ८८ ॥ अपि च, ततो लेखक उभाभ्यां धनिकाधमर्णिकाभ्यां प्रार्थितेन मयाऽमुकेन देवदत्तेन विष्णुमित्रसूनुना एतल्लेख्यं लिखितमित्यन्ते लिखेत् ॥ ८८ ॥ भाषा—तब अन्त में लेखक लिखे कि धनिक और ऋणी दोनों की प्रार्थना से अमुक के पुत्र अमुक नाम के मैंने यह लेख लिखा ॥ ८८ ॥ १. तेऽसमाः, २. काभ्यामुभाभ्यां ।
२३८ \qquad\qquad\qquad\qquad\qquad\qquad याज्ञवल्क्यस्मृतिः
सांप्रतं स्वकृतं लेख्यमाह— विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते ॥ ८९ ॥
यल्लेख्यं स्वहस्तेन लिखितमधमर्णेन तत्साक्षिभिर्विनापि प्रमाणं स्मृतं मन्वादिभिः । बलोपधिकृतादृते बलेन बलात्कारेण उपधिना छललोभक्रोधभय- मदादिलक्षणेन यत्कृतं तस्माद्विना । नारदोऽप्याह ( १।१३७)—'मत्ताभि- युक्तस्त्रीबालबलात्कारकृतं च यत् । तदप्रमाणं लिखितं भयोपधिकृतं तथा ॥' इति तँच्चैतत्स्वहस्तकृतं^३ परहस्तकृतं परहस्तकृतं च यल्लेख्यं देशाचारानुसारेण ^४सम्बन्धक व्यवहारेऽवन्धकव्यवहारे च युक्तमर्थक्रमापरिलोपेन लिप्यक्षरापरिलोपेन च लेख्य- मित्येतावत् न पुनः साधुशब्दैरेव, प्रातिस्विकदेशभाषयापि लेखनीयम् । यथाह नारदः ( १।१३६)—'देशाचाराविरुद्धं यद्व्यक्ताधिविधिलक्षणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाक्षरम् ॥'इति । विधानं विधिः, आधर्विधिराधिविधिराधी- करणं तस्य लक्षणं गोप्योग्निभोग्याधिकालकृतमित्यादितद् व्यक्तं विस्पष्टं यस्मिं- स्तद्व्यक्ताधिविधिलक्षणम् । अविलुप्तक्रमाक्षरम् । अर्थानां क्रमः क्रमश्चाक्षराणि च क्रमाक्षराणि अविलुप्तानि क्रमाक्षराणि यस्मिंस्तदविलुप्तक्रमाक्षरं । तदेवंभूतं लेख्यं प्रमाणम् । राजशासनवन्न साधुशब्दनियमोऽत्रेत्यभिप्रायः ॥ ८९ ॥
भाषा—जो लेख अपने हाथ से लिखा होता है वह साक्षियों के विना भी प्रमाण होता है; बशर्ते वह बलपूर्वक या छल या लोभ से न लिखा गया हो ॥ ८९ ॥
लेख्यप्रसङ्गेन लेख्यारूढमप्यूणं त्रिभिरेव देयमित्याह— ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु ।
यथा साक्ष्यादिकृतमृणं त्रिभिरेव देयं, तथा लेख्यकृतमप्याहर्तुं^५स्तत्पुत्रतत्पुत्रै- स्त्रिभिरेव देयं, न चतुर्थादिभिरिति नियम्यते । ननु 'पुत्रपौत्रैर्ऋणं देयम्' ( व्य० ५० ) इत्यविशेषेण ऋणमात्रं त्रिभिरेव देयमिति नियतमेव । बाढम् । अस्यैवो- त्सर्गस्य पत्रारूढर्णविषये स्मृत्यन्तरप्रभवामपवादशङ्कामपनेतुमिदं वचनमारब्धं । तथा हि—पत्रलक्षणमभिधाय कात्यायनेनाभिहितम्—'एवं कालमतिक्रान्तं पितॄणां दाप्यते ऋणम्' इति । इत्थं पत्रारूढमृणमतिक्रान्तकालमपि पितॄणां संबन्धि दाप्यते । अत्र 'पितॄणाम्' इति बहुवचननिर्देशात्कालमतिक्रान्तमिति
१. विना तु । २. तन्नेतत् । ३. कृतं च लेख्यं । ४. संबन्धव्यवहारे च । ५. तत्पुत्रपौत्रैः ।
व्यवहाराध्यायः २३६ वचनाच्चतुर्थादिर्दाप्य इति प्रतीयते । तथा हारीतेनापि—'लेख्यं यस्य भवेद्धस्ते लाभं तस्य विनिर्दिशेत्' इति । अत्रापि यस्य हस्ते लेख्य (पत्र) मस्ति तस्य- र्णलाभः इति सामान्येन चतुर्थादिभ्योऽप्यृणलाभोऽस्तीति प्रतीयते । अतश्चैत- दाशङ्कानिवृत्त्यर्थमेतद्वचनमित्युक्तम् । वचनद्वयं च योगीश्वरवचनानुसारेण योजनीयम् ॥—
अस्यापवादमाह— आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते ॥ ९० ॥
सबन्धकेऽपि पत्रारूढं ऋणं त्रिभिरेव देयमिति नियमादृणापाकरणाधि- कारेणौऽध्याहरणेऽप्यनधिकारप्राप्ताविदमुच्यते । यावच्चतुर्थेन पञ्चमेन वा ऋणं न दीयते तावदेवाधिर्भुज्यत इति वदता सबन्धकर्णापाकरणे चतुर्थादेरप्य- धिकारो दर्शितः । नन्वेतदप्युक्तमेव 'फलभोग्यो न नश्यति' (व्य० ५८) इति । सत्यम् । तदप्येतस्मिन्नसत्यपवादवचने पुरुषत्रयविषयमेव स्यादिति सर्वमनवद्यम् ॥ ९० ॥
भाषा—लिखा गया ऋण तीन पीढ़ी तक ही देय होता है । और आधि (बन्धक) का भोग उस समय तक किया जाता है जब तक कि ऋण न लौटाया जाय ॥ ९० ॥
प्रासङ्गिकं परिसमाप्य प्रकृतमेवानुसरति— देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे ह्ते तथा । भिन्ने ४दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत् ॥ ९१ ॥
व्यवहाराक्षमे पत्रे पत्रान्तरं कुर्यादिति विधीयते । व्यवहाराक्षमत्वं चात्यन्त- व्यवहितदेशान्तरस्थे पत्रे दुर्लेख्ये दुष्टानि संदिग्धमानानि अवाचकानि वा लेख्यानि लिप्यक्षराणि पदानि वा यस्मिंस्तत् दुर्लेख्यं तस्मिन्दुलेख्ये, नष्टे कालवशेन, उन्मृष्टे मषीदौर्बल्यादिना मृदितलिप्यक्षरे, हृते तस्करादिभिः, भिन्ने विदलिते, दग्धे अग्निना प्रज्वलिते, छिन्ने द्विधाभूते सति पत्रं ६द्विर्भवति । एत- च्चार्थिप्रत्यर्थिनोः परस्परानुमतौ सत्याम् । विमत्यां तु व्यवहारप्राप्तौ देशान्तर- स्थपत्रानयनायाध्वापेक्षया कालो दातव्यः । ८दुर्गदेशावस्थिते नष्टे वा पत्रे साक्षिभिरेव व्यवहारनिर्णयः कार्यः । यथाह नारदः ( ११।४२)—'लेख्ये देशा-
१. वचनाच्च चतुर्थादिः । २. पत्रारूढे ऋणे । ३. कारणापहरणे । ४. दग्धे तथा छि। छिन्ने भिन्ने तथा दग्धे । ५. तस्करादिना । ६. द्वितीयपत्रं भवति । ७. नाय दुर्गाध्वापेक्षया । ८. दुर्देशावस्थिते ।
२४० याज्ञवल्क्यस्मृतिः
न्तरन्यस्ते शीर्णे दुर्लिखिते हृते । सतस्तत्कालकरणमसतो द्रष्टृदर्शनम् ॥' इति । सतो विद्यमानस्य पत्रस्य देशान्तरस्थस्यानयनाय कालकरणं कालावधिर्दातव्यः । असतः पुनर्विद्यमानस्य पत्रस्य पूर्वं ये द्रष्टारः साक्षिणस्तैर्दर्शनं व्यवहारपरि- समापनं कार्यम् । यदा तु साक्षिणो न सन्ति तदा दिव्येन निर्णयः कार्यः- 'अलेख्यसाक्षिके दैवीं व्यवहारे विनिर्दिशेत्' इति स्मरणात् । एतच्च जानपदं व्यवस्थापत्रम् । राजकीयमपि व्यवस्थापत्रमीदृशमेव भवति । इयांस्तु विशेषः- 'राज्ञः स्वहस्तसंयुक्तं स्वमुद्राचिह्नितं तथा । राजकीयं स्मृतं लेख्यं सर्वेष्वर्थेषु साक्षिमत् ॥' इति । तथान्यदपि राजकीयं जयपत्रकं वृद्धवसिष्ठेनोक्तम्-'यथोप- न्यस्तसाध्यार्थसंयुक्तं सोत्तरक्रियम् । सावधारकं चैव जयपत्रकमिष्यते ॥ प्राङ्- विवाकादिहस्ताङ्कमुद्रितं राजमुद्रया । सिद्धेऽर्थे वादिने दद्याज्जायने जयपत्रकम् ॥' इति । तथा सभासदोऽपि मैतं मेऽमुकपुत्रस्येति स्वहस्तं दद्युः ।-'सभासदश्च ये तत्र स्मृतिशास्त्रविदः स्थिताः । यथालेख्यविधौ तद्वत्स्वहस्तं दद्युरेव ते ॥' इति स्मरणात् । सभासदां च परस्परानुमतिव्यतिरेकेण न व्यवहारो निःशल्यो भवति । यथाह नारदः-'यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते । स निःशल्यो विवादः स्यात्सशल्यस्त्वन्यथा भवेत् ॥' इति । एतच्चतुष्पाद्व्यवहार एव ।-'साधयेत्साध्यमर्थं यच्चतुष्पादान्वितं च यत् । ४राजमुद्रान्वितं चैव जयपत्रकमिष्यते ॥' ( कात्यायनः ? ) इति स्मरणात् । यत्र तु हीनता । यथा- 'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । आहूतप्रपँलायी च हीनः पञ्चविधः स्मृतः ॥' ( नारदः मा० २।३३ ) इति । तत्र न जयपत्रकमस्ति, अपि तु हीनपत्रकमेव । तच्च कालान्तरे दण्डप्राप्त्यर्थं, जयपत्रं तु प्राङ्न्यायविधिसिद्ध्य- र्थमिति विशेषः ॥ ९१ ॥ भाषा—लेख के कहीं दूसरे देश में छूट जाने पर, पढ़ने योग्य न रह जाने पर खो जाने, मिटजाने, चुरा लिये जाने, गल जाने, जल जाने अथवा फट जाने पर दूसरा लेख बनवाना चाहिए ॥ ९१ ॥ लेख्यसंदेहे निर्णयनिमित्तान्याह— ६संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्नसंबंधागमहेतुभिः ॥ ९२ ॥ 'शुद्धमशुद्धं वा' इति संदिग्धस्य लेख्यस्य शुद्धिः स्वहस्तलिखितादिभिः स्यात् । स्वहस्तेन लिखितं यल्लेखान्तरं तेन शुद्धिः । यदि सदृशान्यक्षराणि १. दृष्टदर्शनं । २. व्यवहारे । ३. दत्तं मे । ४. मुद्राङ्कितं । ५. व्यपलायी । ६. संदिग्धलेख्ये शुद्धिः ।
[Header] [व्यवहाराध्यायः] [२४६]
[Body] भवन्ति तदा शुद्धिः स्यादित्यर्थः । 'आदि' शब्दात् साक्षिलेखकस्वहस्तलिखिता- न्तरसंवादाच्छुद्धिरिति । युक्त्या प्राप्तिर्युक्तिप्राप्तिः, देशकालपुरुषाणां द्रव्येण सह संबन्धः प्राप्तिः । 'अस्मिन्देशेऽस्मिन्कालेऽस्य पुरुषस्येदं द्रव्यं घटते' इति युक्तिप्राप्तिः, क्रिया तत्साध्युपन्यासः, चिह्न मसाधारणं श्रीकारादि, 'सम्बन्धोऽर्थिप्रत्यर्थिनोः पूर्वमपि परस्परविश्वासेन दानग्रहणादिसंबन्धः, आगमोऽस्यैतावतोऽर्थस्य संभा- वितः प्राप्युपायः, एते एव हेतवः । एभिर्हेतुभिः संदिग्धलेख्यस्य शुद्धिः स्यात्' इत्यन्वयः । यदा तु लेख्यसंदेहे निर्णयो न जायते तदा साक्षिभिर्निर्णयः कार्यः । यथाह कात्यायनः—'दूषिते पत्रके वादी तदारूढांस्तु निर्दिशेत्' इति । साक्षि- संभवविषयमिदं वचनम् । साक्ष्यसंभवविषयं तु हारीतवचनम्—'न मयैतत्कृतं पत्रं कूटमेतेन कारितम् । अधरीकृत्य तत्पत्रमर्थे दिव्येन निर्णयः ॥' इति ॥ ९२ ॥ भाषा—लेख्य के विषय में सन्देह हो तो अपने हाथ से लिखे हुए लेख्य से युक्तिप्राप्ति ( इस देश में इस समय पर इस व्यक्ति पर इतना द्रव्य होता है ), क्रिया ( उसके साक्षी का उपन्यास ), चिह्न ( श्रीकार आदि ) संबन्ध ( धनी और ऋणी का पहले का पारस्परिक संबन्ध ) और आगम ( द्रव्यप्राप्ति का उपाय ) हेतुओं से शुद्धि होती है ॥ ९२ ॥ एवं शोधिते पत्रे ऋणे च दातव्ये प्राप्ते यदा कृत्स्नमेव ऋणं दातुमसमर्थ- स्तदा किं कर्तव्यमित्यत आह— लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वर्णिको धनम् । धनी ^२चोपगतं दद्यात्स्वहस्तपरिचिह्नितम् ॥ ९३ ॥ यदाऽधमर्णिकः सकलमृणं दातुमसमर्थस्तदा शक्त्यनुसारेण दत्त्वा पूर्वकृतस्य लेख्यस्य पृष्ठेऽभिलिखेत् 'एतावन्मया दत्तम्' इति । उत्तमर्णो वा उपगतं प्राप्तं धनं तस्यैव लेख्यस्य पृष्ठे दद्यादभिलिखेत्—'एतावन्मया लब्धम्' इति । कथम् ? स्वहस्तपरिचिह्नितं स्वहस्तलिखिताक्षरचिह्नितम् । यद्वा, उपगतं प्रवेशपत्रं स्वह- स्तलेखित^३चिह्नितमधमर्णायोत्तमर्णो दद्यात् ॥ ९३ ॥ भाषा—ऋणी धन देकर लेख्य के पीछे लिख दिया करे । धनी भी धन प्राप्त करके अपना हस्ताक्षर करके उपगत (प्राप्तिपत्र, रसीद) देवे ॥ ९३ ॥ ऋणे तु कृत्स्ने दत्ते लेख्यं किं कर्तव्यमित्यत आह— दत्त्वर्णं पाटयेल्लेख्यं शुद्ध्यै वाऽन्यत्तु कारयेत् । क्रमेण सकृदेव वा कृत्स्नमृणं दत्त्वा पूर्वकृतं लेख्यं पाटयेत् । यदा तु दुर्गदेशावस्थितं लेख्यं नष्टं वा तदा शुद्ध्यै अधमर्णत्वनिवृत्त्यर्थमन्यल्लेख्यं
[Footnotes] १. संबन्धप्राप्तिः । २. चोपगतं । ३. लिखितपरिचिह्नित ।
२४२ याज्ञवल्क्यस्मृतिः
कार्येहुत्तमर्णेनाधमर्णः । पूर्वोक्तक्रमेणोत्तमर्णो विशुद्धिपत्रमधमर्णाय दद्यादि- त्यर्थः ॥— ससाक्षिके ऋणे कृत्स्ने दातव्ये किं कर्तव्यमित्यत आह— साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् ॥ ९४ ॥ यत्तु ससाक्षिकमृणं तत्पूर्वसाक्षिसमक्षमेव दद्यात् ॥ ९४ ॥ भाषा—ऋण देकर लेख को काट दे अथवा ऋणी की निवृत्ति के लिए धनी दूसरा लेख्य लिखावे । जो ऋण साक्षियों के सामने लिया गया हो उसे उन्हीं साक्षियों के सामने ही लौटाना चाहिए ॥ ९४ ॥ इति लेख्यप्रकरणम् । अथ दिव्यप्रकरणम् ७ लिखितसाक्षिभुक्तिलक्षणं त्रिविधं मानुषं प्रमाणमुक्तम् । अथावसरप्राप्तं दिव्यं प्रमाणमभिधास्यन् ‘तुलाग्न्याप’ इत्यादिभिरौद्यैः पञ्चभिः श्लोकैर्दिव्यमातृकां कथयति । तत्र तावद्दिव्यान्युपदिशति— तुलाग्न्यापो विषं कोशो दिव्यानीह विशुद्धये । तुलादीनि कोशान्तानि पञ्च दिव्यानीह धर्मशास्त्रे विशुद्धये संदिग्धस्यार्थस्य संदेहँनिवृत्तये दातव्यानीति ॥— नन्वन्यत्रान्यान्यपि तण्डुलादीनि दिव्यानि सन्ति—‘घटोऽग्निरुदकं चैव विषं कोशस्तथैव च । तण्डुलाश्चैव दिव्यानि सप्तमस्तप्तमाषकः ॥’ इति पितामह- स्मरणात् । अतः कथमेतावन्त्येवेत्यत आह— महाभियोगेष्वेतानि एतानि महाभियोगेष्वेव नान्यत्रेति नियम्यते न पुनरिमान्येव दिव्या- नीति । महत्त्वावधिं च वक्ष्यति । नन्वल्पाभियोगेऽपि कोश⁶ इष्यते; ‘कोश- मल्पेऽपि दापयेत्’ इति स्मरणात् । सत्यम् । कोशस्य तुलादिषु पाठो न महा- भियोगेष्वेवेति नियमार्थः, किंतु सावष्टम्भाभियोगेऽपि प्राप्त्यर्थः । अन्यथा शङ्काभियोगे एव स्यात् ; ‘अवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत् । तण्डु- लाश्चैव कोशश्च शङ्कास्वेव न संशयः ॥’ इति स्मरणात् ॥
१. उत्तमर्णं अध । २. भिभिरारभ्य । ३. संदिग्ध । ४. अन्यत्रान्या । ५. योगे ष्वेतानि । ६. कोशोऽस्स्येव ।