याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 280, कुल 782 में से
संदर्भ में पढ़ें२२४ याज्ञवल्क्यस्मृतिः त्र्यवराः साक्षिणो ज्ञेयाः श्रौतस्मार्तक्रियापराः । यथाजाति यथावर्णं सर्वे सर्वेषु वा स्मृताः ॥ ६९ ॥ तपस्विनस्तपःशीलाः, दानशीला दाननिरताः, कुलीना महाकुलप्रसूताः, सत्यवादिनः सत्येवदनशीलाः, धर्मप्रधाना न स्वार्थकामप्रधानाः, ऋजवोऽ- कुटिलाः, पुत्रवन्तो विद्यमानपुत्राः, धनान्रिता बहुसुवर्णादिधनयुक्ताः, श्रौतस्मा- र्तक्रियापराः नित्यनैमित्तिकानुष्ठानरताः, एवंभूताः पुरुषास्त्र्यवराः साक्षिणो भवन्ति । त्रयः अवरा न्यूना येषां ते त्र्यवराः त्रिभ्योऽर्वाङ् न भवन्ति । परतस्तु यथाकामं भवन्तीत्यर्थः । जातिम नतिक्रम्य यथाजाति । जातयो मूर्धावसिक्ताद्याः अनुलोमजाः प्रतिलोमजाश्च। तत्र मूर्धावसिक्तानां मूर्धावसिक्ताः साक्षिणो भवन्ति । एवमम्बष्ठादिष्वपि द्रष्टव्यम् । वर्णमनतिक्रम्य यथावर्णम् । वर्णा ब्राह्मणादयः । तत्र ब्राह्मणानां ब्राह्मणा एवोक्तलक्षणा उक्तसंख्याकाः साक्षिणो भवन्ति । एवं क्षत्रियादिष्वपि द्रष्टव्यम् । तथा स्त्रीणां साक्ष्यं स्त्रिय एव कुर्युः । यथाह मनुः ( ८।६८ ) - 'स्त्रीणां साक्ष्यं स्त्रियः कुर्युः' इति । सजातिसवर्णसंभवे सर्वे मूर्धावसिक्तादयो ब्राह्मणादयश्च सर्वेषु मूर्धावसिक्तादिषु ब्राह्मणादिषु च यथा- संभवं साक्षिणो भवन्ति । उक्तलक्षणानां साक्षिणामसंभवे प्रतिषेधरहिता- नामन्येषामपि साक्षित्वप्रतिपादनार्थमसाक्षिणो वक्तव्याः । ते च पञ्च- विधा नारदेन दर्शिताः - 'असाक्ष्यपि हि शास्त्रेषु दृष्टः पञ्चविधो बुधैः । वचनाद्दोषतो भेदात्स्वयमुक्तिर्मृतान्तरः ॥' इति । के पुनर्वचनात् असा- क्षिण इत्यत आह- 'श्रोत्रियास्तापसा वृद्धा ये च प्रव्रजितादयः । असाक्षि- णस्ते वचनान्नात्र हेतुरुदाहृतः ॥' ( १।१५८ ) इति । तापसा वानप्रस्थाः । 'आदि'शब्देन पित्रा विवदमानादीनां ग्रहणम् । यथाह शङ्खः - 'पित्रा विवद- मानगुरुकुलवासिपरिव्राजकवानप्रस्थ४निर्ग्रन्था असाक्षिणः' इति । दोषादसाक्षिणो दर्शिताः- 'स्तेनाः साहसिकाय्चण्डाः कितवा वै५ञ्चकास्तथा । असाक्षिणस्ते दुष्टत्वात्तेषु सत्यं न विद्यते ॥' ( नारदः १।१५९ ) । चण्डाः कोपनाः, कितवा द्यूतकृतः । भेदादसाक्षिणां च स्वरूपं तेनैव दर्शितम् - 'साक्षिणां लिखितानां च निर्दिष्टांनां च ६वादिनाम् । तेषामेकोऽन्यथावादी भेदात्सर्वे नै साक्षिणः ॥' इति । तथा स्वयमुक्तिस्वरूपं चोक्तम् - 'स्वयमुक्तिर्८निर्दिष्टः स्वयमेवैत्य यो वदेत् । सूच्यित्युक्तः स शास्त्रेषु न स साक्षित्वमर्हति ॥' ( १।१६१ ) इति । १. सत्यवादन । २. छानपराः । ३. स्वयमुक्तिर्मृतान्तरम् ; स्वयमुक्तैः । ४. वानप्रस्था निर्ग्रन्थाश्चाप्ता; निर्ग्रन्था निगडस्थाः । ५. वञ्चकास्तथा । ६. वादिना । ७. असाक्षिणः । ८. मुक्तिर्हि निर्दिष्टः ।