याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 283, कुल 782 में से
संदर्भ में पढ़ेंदर्शितः—'सभान्तः साक्षिणः सर्वानर्थिप्रत्यर्थिसंनिधौ । प्राड्विवाको नियुञ्जीत विधिनाऽनेन सान्त्वयन् । देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेद्दतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ॥' ( मनुः ८।७९, ८७ ) 'आहूय साक्षिणः पृच्छेन्नियम्य शपथैर्भृशम् । समस्तान्र्विदिताचारान्वि- ज्ञातान्पृथक्पृथक् ॥' ( नारदः १।१५८ ) इति । तथा ब्राह्मणादिषु श्रावणे मनुना नियमो दर्शितः ( ८।११३ )—'सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥' इति । ब्राह्मणमन्यथा ब्रु¹वतः सत्यं ते नश्यतीति शापयेत् । क्षत्रियं वाहनायुधानि तव विफलानीति, गोबीजकाञ्च- नादीनि तव विफलानि भविष्यन्तीति वैश्यम् , शूद्रमन्यथा ब्रुवतस्तव सर्वाणि पातकानि भविष्यन्तीति शापयेत् । अत्र चापवादस्तेनैव दर्शितः ( ८।१०२ )— 'गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धुषिकांश्चैव विप्रान्शूद्र- वदाचरेत् ॥' इति । 'विप्र' ग्रहणं क्षत्रियवैश्ययोरुपलक्षणार्थम् । कुशीलवा गाय- काः । प्रतिवादिना साक्षिदूषणे दत्ते प्रत्युक्तयोग्यदूषणेषु बाल्यादिषु तथैव निर्णयः । अयोग्येषु तु तद्वचनाल्लोकतो वा निर्णयो न साक्ष्यन्तरेणेति नानवस्था । यदि साक्षिदोषमुद्भाव्य साधयितुं न शक्नोति प्रतिवादी, तदाऽसौ दोषानुसा²रेण दण्ड्यः । अथ साधयति, तदा न साक्षिणः । यथाह—'असा³धयन्दमं दाप्यो दूषणं साक्षिणां स्फुटम् । भाविते साक्षिणो वर्ज्याः साक्षिधर्मनिराकृताः ॥' इति । उद्दिष्टेषु च सर्वेषु साक्षिषु दुष्टेष्वर्थी यदा क्रियान्तरनिरपेक्षस्तदा पराजितो भवति; 'जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षिस्वेव व्यवस्थितः ॥' इति स्मरणात् । साकाङ्क्षश्चेत्क्रियान्तरमवलम्बेतैत्य- भिप्रायः ॥—
कथं श्रावयेदित्यत आह— ये⁴ पातककृतां लोका महापातकिनां तथा ॥ ७३ ॥ अग्निदानां च ये लोका ये च स्त्रीबालघातिनाम् । स तान्⁵सर्वानवाप्नोति यः साक्ष्यमनृतं वदेत् ॥ ७४ ॥ सुकृतं यत्त्वया किंचिज्जन्मान्तरशतैः कृतम् । तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥ ७५ ॥ 'पातकोपपातकसमहापातककारिणामग्निदानां स्त्रीबालघातिनां च ये लोका- स्तान्सर्वानसावाप्नोति यः साक्ष्यमनृतं वदति । तथा⁶ जन्मान्तरशतैर्यत्सुकृतं कृतं, तत्सर्वं तस्य भवति, यस्ते⁷ऽनृतवदनेन पराजितो भवति' इति, 'इति
१. ब्रुवन्तं । २. सारानुसारेण । ३. असाधयन् अभावयन् । ४. ये च पातकिनां लोकाः । ५. तान्सर्वान्समवा । ६. यथा । ७. यस्तेऽनृतवचनेन । यस्तेनोऽनृतवदनेन ।
१५ या०