याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 284, कुल 782 में से
संदर्भ में पढ़ें२२८ याज्ञवल्क्यस्मृतिः श्रावयेत्' इति संबन्धः । एतच्च शूद्रविषयं द्रष्टव्यम् ; 'शूद्रं सर्वैस्तु पातकैः' ( मनुः ८।१२३ ) इति शूद्रे सर्वपातक'श्रावणस्य विहितत्वात् । गोरक्षकादि- द्विजातिविषयं च; 'गोरक्षकान्वाणिजकान्' ( मनुः ८।१०२ ) इत्युक्तत्वात् । अस्यानेकजन्मार्जितसुकृतसंक्रमणस्य महापातकादिफलप्राप्तेश्चानृतवचनमात्रेणानु- नुपपत्तेः, साक्षिसंत्रासार्थमिदमुच्यते । तथाह नारदः ( १।२०० ) - 'पुराणै- र्धर्मवचनैः सत्यमाहात्म्यकीर्तनैः । अनृतस्यापवादैश्च भृशमुत्रासयेदिमान् ॥' इति ॥ ७३-७५ ॥
भाषा—वादी और प्रतिवादी के समीप स्थित साक्षियों को सम्बोधित कर उन्हें इस प्रकार सुनावे—जो लोक पातक करने वाले एवं महापातकियों को मिलते हैं, जो लोक आग लगाने वालों को एवं जो लोक स्त्री एवं बालकों की हत्या करने वालों को मिलते हैं उन सभी लोकों को वह व्यक्ति प्राप्त करता है जो साक्ष्य में झूठ बोलता है । तुम लोगों ने सौ जन्म-जन्मान्तर में जो कुछ भी पुण्यार्जन किया है उन सबको उस व्यक्ति का समझना जिसे तुम झूठे ही पराजित करोगे ॥ ७३-७५ ॥
यदा तु श्राविताः साक्षिणः कथंचिन्न ब्रूयुस्तदा किं कर्तव्यमित्यत आह— अब्रुवन्हि नरः साक्ष्यमृणं सदशबन्धकम् । राज्ञा सर्वं प्रदाप्यैः स्यात्षट्चत्वारिंशकेऽहनि ॥ ७६ ॥
यः साक्ष्यमङ्गीकृत्य श्रावितः सन् कथंचिन्न वदति स राज्ञा सर्वं सबृद्धिक- मृणं धनिने दाप्यः, सदशबन्धकं दशांशसहितम् । दशांशश्च राज्ञो भवति; 'राज्ञाऽधमर्णिको दाप्यः साधिताद्दशकं शतम्' ( व्य० ४२ ) इत्युक्तत्वात् । एतच्च षट्चत्वारिंशकेऽहनि प्राप्ते वेदितव्यम् । ततोऽर्वाग्वदन्न दाप्यः, इदं च व्याध्याद्युपप्लवरहितस्य । तथाह मनुः ( ८।१०७ )—'त्रिपक्षादब्रुवन्साक्ष्य- मृणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वशः ॥' इति । 'अगद' इति राजदैवोपप्लवविरहोपलक्षणम् ॥ ७६ ॥
भाषा—जो साक्ष्य स्वीकार करके उसके अनन्तर कुछ न बोले उससे राजा वृद्धि के साथ सम्पूर्ण ऋण का धन धनी को दिलावे तथा साथ ही उसका दशमांश वसूल करे । इन सभी धनों को राजा छियालिसवें दिन दिलावे ॥ ७६ ॥
१. श्रवणस्य । २. विहितं च । ३. अस्यानेक । ३. भृशं संत्रासयेत् । ५. प्रदाप्यः षट् । ६. चत्वारिंशत्तमेऽहनि ।