याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 672, कुल 782 में से
संदर्भ में पढ़ें६१६ याज्ञवल्क्यस्मृतिः भाषा—जिसका दोष सबको ज्ञात हो गया हो वह पर्षद की आज्ञा से (जैसा पर्षद द्वारा विहित हो वैसा) व्रत करे और जिसका पाप लोगों को ज्ञात न हो वह गुप्त रूप से व्रत करे ॥ ३०० ॥ एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवद् ब्रह्महत्यादिक्र- मेणैव रहस्यप्रायश्चित्तान्याह— त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्ध्येत दत्त्वा गां च पयस्विनीम् ॥ ३०१ ॥ त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं 'ऋतं च सत्यं च' इति ऋचमानुष्टुभं आववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गां दत्त्वा ब्रह्महा विशुध्यति । जपञ्चान्तर्जले निमग्नेन त्रिरावर्तनीयः । यथाह सुमन्तुः—'देवद्विजगुरुहन्ताप्सु निमग्नोऽघमर्षणं सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं स्नुषां सखीं वाऽन्यद्वाऽगम्यागमनं कृत्वाऽघमर्षणमे- वान्तर्जले त्रिरावर्त्य तदेतस्मात्पूतो भवति' इति ।—एतच्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११।२४८)—'सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रूणहणं मासात्पुनन्त्यहरहः कृताः ॥' इति,—तदप्यस्मिन्नेव विषये गोदानांश- क्तस्य वेदितव्यम् । यत्तु गौतमेन षट्त्रिंशद्वार्षव्रतमुक्तवोक्तं 'तद्व्रत एव ब्रह्मह- त्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्नातोऽघमर्षणं जपेत्' (२४।१०) इति,—तदकामतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम्—'ग्रामात्प्राचीं चोदीचीं दिशमुपनिष्क्रम्य स्नातः शुचिः शुचिवासा उदकान्ते स्थण्डिलमुपलिप्य सकृत्क्लिन्न- वासोः सकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । प्रातः शतं मध्याह्ने शतमपराह्ने शतं परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावकं प्राश्नीयात् । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्तरात्रात्प्रमुच्यते द्वादशरात्रान्महापात- केभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरति' (३।६।४) इति,—तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवन- स्थवधविषयं वा । यत्तु मनुनोक्तम् (११।२५८)—'अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वैः पराकैः शोधितस्त्रिभिः ॥' इति,— तत्कामतः श्रोत्रियादिवधविषयम्, इतरत्तु कामतोऽभ्यासविषयं वा । बृहद्वि- ष्णुनाक्तम्—'ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूते- न्धनमग्निं प्रज्वाल्याघमर्षणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति' १. विशुद्धयेत्तु । २. गां दत्त्वा च पयः । ३. ऽगङ्ग्या गमनम् । ४. कामतो ऽवध । ५. वासाः सकृत् ।