याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 125, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ६६ कर्मणा कायेन यथाशक्ति धर्ममनुतिष्ठेत् तमेव मनसा ध्यायेत् वाचा च वदेत् । १धर्मं विहितमपि लोकविद्विष्टं लोकाभिशस्तिजननं मधुपर्के गोवधादिकं नाचरेत् । यस्मादस्वर्ग्यमग्नीषोमीयवत्स्वर्गसाधनं न भवति ॥ १५६ ॥ भाषा- कर्म, मन और वचन से यत्नपूर्वक धर्म का आचरण करे, धर्म- विहित होने पर भी लोकविरुद्ध कर्म हो और उससे स्वर्ग की प्राप्ति न हो तो उसे नहीं करना चाहिए ॥ १५६ ॥ मातृपितॄतिथिश्रातृजामिसम्बन्धिमातुलैः । वृद्धबालातुराचार्यवैद्यसंश्रितबान्धवैः ॥ १५७ ॥ ऋत्विक्पुरोहितापत्यभार्यादाससनाभिभिः । विवादं वर्जयित्वा तु सर्वाँल्लोकाञ्जयेद् गृही ॥ १५८ ॥ माता जननी, पिता जनकः, अतिथिरध्वनीनः, भ्रातरो भिन्नोदरा अपि। जामयो विद्यमानभर्तृकाः स्त्रियः, संबन्धिनो वैवाह्याः मातुलौ मातृभ्राता, वृद्धः सप्तत्युत्तरवयस्कः, बाल आ षोडशाद्वर्षात् , आतुरो रोगी, आचार्य उपनेता, वैद्यो विद्वान् भिषग्वा, संश्रितः उपजीवी, बान्धवाः पितृपक्ष्या मातृ- पक्ष्याश्च, मातुलस्य पृथगुपादानमादरार्थम् । ऋत्विग्याजकः, पुरोहितः शान्त्यादेः कर्ता, अपत्यं पुत्रादि, भार्या सहधर्मचारिणी, दासः कर्मकरः, सनाभयः सोदराः, भ्रातृभ्यः पृथगुपादानमजाभिभगिनीप्राप्त्यर्थम् । एतैर्मात्रादिभिः सह वाक्कलहं परित्यज्य सर्वान्प्राजापत्यादीन् लोकान्प्राप्नोति ॥ १५७-१५८ ॥ भाषा - माता, पिता, अतिथि, भाई, सुहागिन स्त्री, सम्बन्धी, मामा, वृद्ध, बालक, रोगी, आचार्य, वैद्य, आश्रितजन, ( पिता एवं माता पक्ष के ) बान्धव, ऋत्विज, पुरोहित, पुत्र पत्नी, दास और सोदर भाइयों के साथ विवाद न करके गृहस्थ सभी लोकों को प्राप्त करता है १५७-१५८ ॥ पञ्च पिण्डाननुद्धृत्य न स्नायात्परवारिषु । स्नायान्नदीदेवखातह्रदप्रस्रवणेषु च ॥ १५९ ॥ परवारिषु परसंबन्धिषु सर्वसत्त्वोद्देशेनात्यक्तेषु तडगादिषु पञ्च पिण्डान- नुद्धृत्य न स्नायात् । अनेनात्मीयोत्सृष्टाभ्यनुज्ञातेषु पिण्डोद्धारमन्तरेणापि स्नानम- भ्यनुज्ञातम् । नद्यादिषु कथं तर्हीत्याह - स्नायान्नदीति । साक्षात्परम्परया वा समुद्रगाः स्त्रवन्त्यो नद्यः, देवखातं देवनिर्मितं पुष्करादि, उदकप्रवाहाभिपात- कृत्सजलो महानिम्नप्रदेशो ह्रदः, पर्वताद्युच्चप्रदेशात्प्रस्रुतमुदकं प्रस्रवणम्, एतेषु पञ्चपिण्डानुद्धरणेनैव स्नायात् । एतच्च नित्यस्नानविषयं सति संभवे मनुः १. धर्म्यम् । २. मग्निष्टोमीयवत् । ३. मन्तरेणापि ।