भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 124, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 124

मिच्छेत्। न क्वचित् पुरुषं मर्मणि स्पृशेत् कस्यचिदपि मर्म दुश्चरितं न प्रकाशयेत् ॥ १५३ ॥ भाषा—(वेदज्ञ) ब्राह्मण, साँप, क्षत्रिय (या राजा) तथा अपने आत्मा का कभी भी अपमान नहीं करना चाहिए। किसी व्यक्ति का हृदय न दुखाते हुए जीवनपर्यन्त शुभ सम्पत्ति की आकांक्षा रखे ॥ १५३ ॥ दूरादुच्छिष्टविण्मूत्रपादाम्भांसि समुत्सृजेत् । श्रुतिस्मृत्युदितं सम्यङ्नित्यमाचारमाचरेत् ॥ १५४ ॥ भोजनाद्युच्छिष्टं विण्मूत्रे पादप्रक्षालनोदकं च गृहाद्दूरात्समुत्सृजेत्। श्रौतं स्मार्तं चाचारं नित्यं सम्यगनुतिष्ठेत् ॥ १५४ ॥ भाषा—(भोजन का) उच्छिष्टांश, मल-मूत्र तथा पैर धोने से दूषित जल को घर से दूर फेंकना चाहिए। श्रुति एवं स्मृति में बताए गये नियमों का प्रतिदिन भलीभाँति पालन करे ॥ १५४ ॥ गोब्राह्मणानलान्नानि नोच्छिष्टो न पदा स्पृशेत् । न निन्दाताडने कुर्यात्पुत्रं शिष्यं च ताडयेत् ॥ १५५ ॥ गां ब्राह्मणमग्निं अन्नमदनीयं, विशेषतः पक्वमशुचिर्न स्पृशेत् । पादेन त्वनुच्छिष्टोऽपि। यदा पुनः प्रमादात्स्पृशति तदा आचमनोत्तरकालम्—'स्पृष्टैतान- शुचिर्नित्यमद्भिः प्राणानुपस्पृशेत् । गात्राणि चैव सर्वाणि नाभिं पाणितलेन तु॥' इति (४।१४३) मनूक्तं कार्यम् । एवं प्राणादीनुपस्पृशेत् । कस्यचिदपि निन्दाताडने न कुर्यात्। एतच्चानपकारिणि । मनुः (४।१६७)-'अयुध्यमान- स्योत्पाद्य ब्राह्मणस्यासृगङ्गतः । दुःखं सुमहदाप्नोति प्रेत्याप्राज्ञतया नरः ॥' इति। पुत्रशिष्यौ शिक्षार्थमेव ताडयेत्। चकाराद्दासादीनपि। ताडनं च रज्वा- दिनोत्तमाङ्गव्यतिरेकेण कार्यम् ; 'शिष्यशिष्टिरवधेनाशक्तौ¹ रज्जुवेणुविदलाभ्यां तनुभ्यामन्येन घ्नन् राज्ञा शास्यते' (२।४२,३।४) इति गौतमवचनात्। '—पृष्ठ- तस्तु शरीरस्य नोत्तमाङ्गे कथंचन' इति (८।३००) मनुवचनात् ॥ १५५ ॥ भाषा—गाय, ब्राह्मण, अग्नि और अन्न को अशुद्ध रहने पर न छूए और न इन्हें पैर से छूए। किसी की निन्दा नहीं करनी चाहिए और न किसी को मारना-पीटना चाहिए, किन्तु पुत्र और शिष्य को (पढ़ाते समय) मारना चाहिए ॥ १५५ ॥ कर्मणा मनसा वाचा यत्नाद्धर्मं समाचरेत् । अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्न तु ॥ १५६ ॥

१. रवधेन वाधनाशक्तौ।