याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 123, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ६७ गन्ध आने पर (श्रोत्रियादि) शिष्ट व्यक्ति के घर पर (अनध्याय होता है) ॥ १५० ॥ खरोष्ट्रयानहस्त्यश्वनौवृक्षेरिणरोहणे । सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥ १५१ ॥ यानं रथादि, इरिण^१मूषरं मरुभूमिर्वा, खरादीनामारोहणे तावत्कालमन- ध्यायः । एवं 'श्वक्रोष्टुगर्दभ-'इत्यस्मादारभ्य सप्तत्रिंशदनध्यायानेतांस्तात्कालि- कान्निमित्तसमकालान्विदुरनध्यायविधिज्ञाः । 'विदुः इत्यनेन' स्मृत्यन्तरोक्तान- न्यानपि संगृह्णाति । तथाह मनुः (४।११२)—'शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम्^३। नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥' इत्यादि ॥ १५१ ॥ भाषा—गदहा, ऊँट, रथ, हाथी, घोड़ा, नौका वृक्ष पर चढ़ने और ऊसर भूमि या मरुस्थल में चलने पर अनध्याय होता है । इन सैंतीस अनध्यायों का समय इनके निमित्त की सत्ता रहने तक समझना चाहिए ॥ १५१ ॥ एवमनध्यायानुक्त्वा प्रकृतानि स्नातकव्रतान्याह— देवर्त्विक्स्नातकाचार्यराज्ञां छायां परस्त्रियाः । नाक्रामेद्रक्तविण्मूत्रष्ठीवनोद्वर्तनादि च ॥ १५२ ॥ देवानां देवार्चानाम्ऋत्विक्स्नातकाचार्यराज्ञां परस्त्रियाश्च छायां नाक्रामेन्ना- धितिष्ठेन्न लङ्घयेद्बुद्धिपूर्वकम् । तथाह मनुः (४।१३०)—'देवतानां गुरो राज्ञः स्नातकाचार्ययोस्तथा । नाक्रामेत्कामतश्छायां बभ्रुगो दीक्षितस्य च ॥' इति । बभ्रुगो नकुलवर्णस्य यस्य कस्यचिद्धोरन्यस्य वा श्यामादेः,^४ 'बभ्रुणु' इति नपुंसक- लिङ्गनिर्देशात् । रक्तादीनि च नाधितिष्ठेत् । 'आदि' ग्रहणात्स्नानोदकादेर्ग्रहण्म् । (मनु. ४।१३२)—'उद्वर्तनमपस्नानं विण्मूत्रे रक्तमेव च । श्लेष्मनिष्ठ्यूत- वान्तानि नाधितिष्ठेत कामतः ॥' इति ॥ १५२ ॥ भाषा—देवता, ऋत्विज्, स्नातक, आचार्य, राजा और पर स्त्री की छाया न लाँघे । रुधिर, विष्ठा, मूत्र, खखार, उद्वर्तन (उबटन की झीली) (तथा स्नान करने पर गिरे हुए जल) को भी न लाँघे ॥ १५२ ॥ विप्राद्दिक्षत्रियात्मानो नावज्ञेयाः कदाचन । आ मृत्योः श्रियमाकाङ्क्षेन्न कञ्चिन्मर्माणि स्पृशेत् ॥ १५३ ॥ विप्रो बहुश्रुतो ब्राह्मणः, अहिः सर्पः, क्षत्रियो नृपतिः, एते कदाचिदपि नावमन्तव्याः । आत्मा च स्वयं नावमन्तव्यः । आमृत्योर्यावज्जीवं श्रिय- १. ऊखरं । २. अध्ययन अध्यापन । ३. कृतावसक्थिक ऊरुभ्यामवर्न गतः । ४. सोमादेः ।