याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 127, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ७१ चिकित्सकातुरक्रुद्धपुंश्चलीमत्तविद्विषाम् । क्रूरोग्रपतितव्रात्यदाम्भिकोच्छिष्टभोजिनाम् ॥ १६२ ॥ चिकित्सको भिषग्वृत्युपजीवी, आतुरो महारोगोपसृष्टः, 'वातव्याध्यश्मरी- कुष्ठमेहोदरभगन्दराः। अर्शांसि ग्रहणीत्यष्टौ महारोगाः प्रकीर्तिताः' इति । क्रुद्धः कुपितः, पुंश्चली व्यभिचारिणी, मत्तो विद्यादिना गर्वितः विद्विट् शत्रुः, क्रूरो दृढाभ्यन्तरकोपः, बाह्यान्वयापरेणोद्वेजक उग्रः, पतितो ब्रह्महादिः, व्रात्यः पतितसावित्रीकः, दाम्भिको वञ्चकः, उच्छिष्टभोजी परमुखोज्झिताशी, एतेषां चिकित्सकादीनामन्नं नाश्नीयात् ॥ १६२ ॥ भाषा—चिकित्सक, रोगी, क्रोधी, व्यभिचारिणी, (विद्या आदि के) अभिमानी, शत्रु, क्रूर, उद्धत, पतित, (सावित्रीदान से च्युत) व्रात्य, धोखेबाज और जूठा भोजन करने वाले व्यक्ति का (अन्न नहीं खाना चाहिए) ॥ १६२ ॥ अवीरास्त्रीस्वर्णकारस्त्रीजितग्रामयाजिनाम् । शस्त्रविक्रयिकर्म्मारतन्तुवायश्ववृत्तिनाम् ॥ १६३ ॥ अवीरा स्त्री स्वतन्त्रा-व्यभिचारमन्तरेणापि । पतिपुत्ररहितेत्यर्थः । स्वर्ण- कारः सुवर्णस्य विकारान्तरकृत् , स्त्रीजितः सर्वत्र स्त्रीवशवर्ती, ग्रामयाजी ग्रामस्य शान्त्यादिकर्त्ता, बहूनामुपनेता वा। शस्त्रविक्रयी शस्त्रविक्रयोपजीवी, कर्म्मारो लोहकारः तक्षादिश्च, तन्तुवायः सूचिशिपोपजीवी । श्वभिर्वृत्तिर्वर्त्तनं जीवनमस्यास्तीति श्ववृत्ती, एतेषामन्नं नाश्नीयात् ॥ १६३ ॥ भाषा—कुलटा (स्वतन्त्र रहने वाली स्त्री), स्वर्णकार, (सर्वत्र) स्त्री के वश में रहने वाले, गांव भर के लिए यज्ञ करने वाले (या अनेक व्यक्तियों का उपनयन करने वाले), शस्त्र बेचनेवाले, लोहार, तन्तुवाय (जुलाहा तथा दर्जी) और कुत्तों के सहारे वृत्ति चलाने वाले का (अन्न नहीं खाना चाहिए) ॥ १६३ ॥ नृशंसराजरजककृतघ्नवधजीविनाम् । चैलधावसुराजीवसहोपपतिवेश्मनाम् ॥ १६४ ॥ पिशुनानृतिनोश्चैव तथा चाक्रिकबन्दिनाम् । एषामन्नं न भोक्तव्यं सोमविक्रयिणस्तथा ॥ १६५ ॥ नृशंसो निर्दयः, राजा भूपतिः, तत्साहचर्यात्पुरोहितश्च । यथाह शङ्खः— 'भीतावगीतहृष्टिताक्रन्दितावघुष्टक्षुधितपरिशुक्तविस्मितोन्मत्तावधूतर।जपुरोहितान्ना- नि वर्जयेत्' इति। रजको वस्त्रादीनां नीलीदिरागकारकः, कृतघ्न उपकृतस्य हन्ता वधजीवी प्राणिनां वधेन वर्त्तकः, चैलधावो वस्त्रनिर्णेजनकृत्, सुराजीवी मद्यविक्रयजीवी, उपपतिर्जारः। सहोपपतिना वेश्म यस्यासौ सहोपपतिवेश्मा । १. नील्यादिरागकरः ।