याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 117, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ६१ भाषा—नदी, छाया, मार्ग, गोशाला, जल और भस्म में मूत्र एवं मल का त्याग न करे । अग्नि, सूर्य, गाय, चन्द्रमा, संध्या, जल, स्त्री और द्विज की ओर मुँह कर भी (मूत्र एवं पुरीष) न करे ॥ १३४ ॥ नैक्षेताकं न नग्नां स्त्रीं न च संसृष्टमैथुनाम् । न च मूत्रं पुरीषं वा नाशुची राहुतारकाः ॥ १३५ ॥ नैवार्कमिक्षेतेति यद्यप्यत्र सामान्येनोक्तं, तथाप्युदयास्तमयराहुग्रस्तोदक- प्रतिबिम्बमध्याह्नवत्तिन एवादित्यस्यावेक्षणं निषिध्यते, न सर्वदा । यथोक्तं मनुना (४।३७)—'नेक्षेतोद्यन्तमादित्यं नास्तं यन्तं कदाचन । नोपसृष्टं न वारिस्थं न मध्यं नभसो गतम् ॥' इति । उपभोगादन्यत्र नग्नां स्त्रियं नेक्षेत । न नग्नां स्त्रियमिक्षेतान्यत्र मैथुनात्' इत्याश्वलायनः । संसृष्टमैथुनां कृतोपभोगाम् । उपभोगान्ते नग्नामपि नेक्षेत । चकाराञ्जनादिकमाचरन्तीम् । तथा च मनुः (४।४३)—'नाश्नीयाद्भार्यया सार्धं नैनामीक्षेत चाश्नतीम् । क्षुवतीं जृम्भमाणां च न चासीनां यथासुखम् ॥ नाञ्जयन्तीं स्वके नेत्रे न चाभ्यक्तामनावृताम् । न पश्येत्प्रसवन्तीं च श्रेयस्कामो द्विजोत्तमः ॥' इति । मूत्रपुरीषे च न पश्येत् । तथा अशुचिः सन् राहुतारकाश्च न पश्येत् । चकारादुदके स्वप्रतिबिम्बं न पश्येत्, 'न चोदके निरीक्षेत स्वं रूपमिति धारणा (मनु. ४।३८) इति वचनात् ॥ १३५ ॥ भाषा—(उदय, अस्त, राहुग्रस्त, जल में प्रतिबिम्बित एवं मध्याह्न- कालीन) सूर्य को, (संभोग के अतिरिक्त अन्यत्र) नंगी स्त्री को, जिसके साथ सद्यः मैथुन किया गया हो ऐसी (अनग्ना) स्त्री को, मूत्र तथा पुरीष को और अपवित्र रहते राहु एवं तारों को न देखे ॥ १२५ ॥ अयं मे वज्र इत्येवं सर्वं मन्त्रमुदीरयेत् । वर्षत्यप्रावृतो गच्छेत्स्वपेत्प्रत्यक्शिरा न च ॥ १३६ ॥ वर्षति सति 'अयं मे वज्रः पाप्मानमंपहन्तु' इति मन्त्रमुच्चारयेत् । वर्षति अप्रावृतोऽनाच्छादितो न गच्छेन्न धावेत् । 'न प्रधावेच्च वर्षति' इति प्रतिषेधात्; न च प्रत्यक्शिराः स्वप्यात् । चकारान्नग्नो न शयांत । एकश्च शून्यगृहे न च नग्नः शयीतेति । 'नैकः सुप्याच्छून्यगेहे' (४।५७) मनुस्मरणात् ॥ १३६ ॥ भाषा—वर्षा होने पर 'अयं मे वज्रः पाप्मानमपहन्तु' मन्त्र का उच्चारण करे । (वर्षा में) छाता आदि से आच्छादित हुए बिना कहीं न जावे । पश्चिम की ओर शिर करके (और नंगा) न सोवे ॥ १३६ ॥ १. अपहनत् । २. ऽच्छादितो न स्यात् ।