याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 142, कुल 782 में से
संदर्भ में पढ़ें८६ याज्ञवल्क्यस्मृतिः शङ्खः—'अभ्यवहार्याणां घृतेनाभिघारितानां पुनः $^१$पचनमेषं स्नेहानां स्नेहवद्द्र- सानां' इति ॥ १९० ॥ भाषा—पीतल, सीसा, ताँबा, खारे या अम्लजल से शुद्ध होता है । काँसे और लोहे की शुद्धि भस्म और जल से होती है । ( घी या तेल जैसे ) द्रव पदार्थ की शुद्धि उसके पात्र में वही द्रव इतना डालने पर होती है जितने से पात्र भरकर ऊपर गिरने लगे ॥ १९० ॥ एवं सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामप्युच्छिष्टस्नेहाद्युपघाते- शुद्धिमुक्त्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह— अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् । वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ॥ १९१ ॥ अमेध्याः शरीरजा मला वसाशुक्रादयः, 'वसा शुक्रमसृङ्मज्जामूत्रविट्कर्ण- विण्नखाः । श्लेष्माऽश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥' ( ५।१३६ ) तथा— 'मानुषास्थि शवं विष्ठा रेतो मूत्रार्तवं वसा । स्वेदादोऽश्रु दूषिका श्लेष्म मद्यं चामेध्यमुच्यते ॥' इति अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तैर्वसादि- रक्तलिप्तममेध्याक्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या $^२$गन्धापकर्षणात् । आदि- ग्रहणाल्लेपस्यापि ग्रहणम् । यथाह गौतमः ( १।४२ )—'लेपगन्धापकर्षणैः शौच- ममेध्यलिप्तस्य' इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्षणं कार्यम् । यदि गन्धादिमृत्तोयेर्न गच्छति तदान्येन, 'अशक्तावन्येन मृदद्भिः पूर्वं मृदा च' ( १।४३ ) इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपघाताय—'मद्यैर्मूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्धयेत पुनःपाकेन मृन्मयम् ॥' ( मनु० ५।१२३ ) इत्युपघाते विशेषाभिधानात्—'अमेध्यत्वं चैवैमेषां देहाच्चैव मलाव्युताः' इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरुर्ध्वं करव्यतिरिक्ताङ्गा$^३$नामप्यामध्यस्पर्शे स्नानम् । यथाह देवलः— 'मानुषास्थि वसां विष्ठामार्तवं मूत्ररेतसी । मज्जानं शोणितं स्पृष्ट्वा परस्य स्नान- माचरेत् ॥' इति—'तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्धयति' इति । तथा— 'ऊर्ध्वं नाभेः करौ मुक्त्वा यदङ्गमनुपहन्यते । तत्र स्नानमधस्तात् प्रक्षाल्याचम्य शुद्धयति ॥' इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुचि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बु- निर्णिक्तं यत्र प्रतिपादिता शुद्धिर्नास्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य १. पचनं । २. गन्धापकर्षणेन । ३. ङ्गानां मध्या ।