याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 151, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ६५ ङ्कुदः श्रियं पुष्टां मोदो ब्रध्नस्य विष्टपम् ॥' इत्यादिफलान्तरश्रवणात् । गोचर्मलक्षणं च बृहस्पतिना दर्शितम्- 'सप्तहस्तेन दण्डेन त्रिंशद्दण्डं निवर्तनम् । दश तान्येव गोचर्म दत्त्वा स्वर्गे महीयते ॥' इति ॥ २१० ॥ भाषा-( उर्वर ) भूमि, दीपक, अन्न; वस्त्र, जल, तिल, घी, परदेशी को आश्रयस्थान ( गृहस्थाश्रम के लिये ) कन्या, सोना और भार ढोने वाले बैल का दान देकर दाता स्वर्ग में सम्माननीय स्थान पाता है ॥ २१० ॥ गृहधान्याभयोपानच्छत्रमाल्यानुलेपनम् । यानं वृक्षं प्रियं शय्यां दत्त्वाऽत्यन्तं सुखी भवेत् ॥ २११ ॥ गृहं प्रसिद्धम्, धान्यानि च शालीगोधूमादीनि, अभयं भीतत्राणम्, उपानहौ, छत्रम्, माल्यं मल्लिकादेः, अनुलेपनं कुङ्कुमचन्दनानि, यानं रथादि, वृक्षं उपजीव्यमाम्रादिकम्, प्रियं यद्यस्य प्रियं धर्मादिकम्, शय्यां च दत्त्वा, अत्यन्तमतिशयेन सुखी भवति । न च हिरण्यादिवद्धस्ते दातुमशक्यत्वाद्धर्मस्य¹ दानासम्भवः । भूमिदानादावपि समानत्वात् । स्मृत्यन्तरेऽपि धर्मदानश्रवणात्- 'देवतानां गुरूणां च मातापित्रोस्तथैव च । पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं क्वचित् ॥' अपुण्यदाने² तदेव वर्धते प्रतिग्रहीतुर्दाप लोभादिना प्रवृत्तस्य, 'यः पापमबलं³ ज्ञात्वा प्रतिगृह्णाति दुर्मतिः । गर्हिताचरणात्तस्य पापं तावत्समाश्वयेत् ॥ समद्विगुणसाहस्रमानन्त्यं च प्रदातृषु ॥' इति स्मरणात् । इह च सर्वत्र देशकालपात्रविशेषाद्देयविशेषात्- 'दाने फलं मया प्रोक्तं हिंसायां तद्वदेव हि' इति प्रतिग्रहीतृवृत्तिविशेषाच्च दातृप्रतिग्रहीत्रोः फलतारतम्यं द्रष्टव्यम् ॥ २११ ॥ भाषा-घर, और धान्य का दान, ( डरे हुए को ) अभयदान, जूता, छाता कुङ्कुमचन्दन आदि लेपन, रथ इत्यादि सवारी, ( आम्रादि फल वाले ) वृक्ष, अभीष्ट वस्तु तथा शय्या का दान देकर दाता अत्यन्त सुखी होता है ॥ २११ ॥ दानात्फलमुक्तमिदानीं दानफलावाप्तिहेतूनाह- सर्वधर्ममयं ब्रह्म प्रदानेभ्योऽधिकं यतः । तद्दत्समवाप्नोति ब्रह्मलोकम⁴विच्युतम् ॥ २१२ ॥ यस्मात्सर्वधर्ममयं ब्रह्म अवबोधकत्वेन तस्मात्तद्दानं सर्वदानेभ्योऽप्य- धिकं अतस्तद्ददध्यापन द्वारेण ब्रह्मलोकमवाप्नोति । अविच्युतं च्युतिर्यथा न भवति । आभूतसंप्लवं ब्रह्मलोकेऽवतिष्ठत इत्यर्थः । अत्र च ब्रह्मदाने परस्वत्वापादनमात्रं दानम् ; स्वत्वनिवृत्तेः कर्तुमशक्यत्वात् ॥ २१२ ॥ १. धर्मादीनामसंभवः । २. दानेन । ३. प्रबलं ज्ञात्वा । ४. मविच्युतः ।