याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 152, कुल 782 में से
संदर्भ में पढ़ें६६ याज्ञवल्क्यस्मृतिः भाषा—सब धर्मों के ज्ञान से युक्त होने के कारण वेद का दान सभी दानों से बढ़कर होता है । इसका दान करने वाला ब्रह्मलोक में अचल होकर सतत निवास करता है ॥ २१२ ॥ १दाने फलमुक्तम्, इदानीं दानव्यतिरेकेणापि दानफलावाप्तेर्हेतुमाह— प्रतिग्रहसमर्थोऽपि नादत्ते यः प्रतिग्रहम् । ये लोका दानशीलानां स तानाप्नोति पुष्कलान् ॥ २१३ ॥ यः पात्रभूतोऽपि प्राप्तं प्रतिग्रहं सुवर्णादिकं नादत्ते न स्वीकरोति, असौ यद्यत्प्राप्तं नोपादत्ते तत्तद्दानशीलानां ये लोकास्तान्तान्समग्रानाप्नोति ॥ २१३ ॥ भाषा—जो व्यक्ति दान लेने का पात्र होते हुए भी दान नहीं लेता वह उन सभी लोकों को प्राप्त कर लेता है जो लोक दान देने वाले को मिलते हैं ॥ २१३ ॥ इदानीं सर्वप्रतिग्रहप्रवृत्तिप्रसङ्गेऽपवादमाह— कुशाः शाकं पयो मत्स्याः गन्धाः पुष्पं दधि क्षितिः । मांसं शय्यासनं धानाः प्रत्याख्येयं न वारि च ॥ २१४ ॥ धानाः भृष्टा यवाः, क्षितिर्मृत्तिका, शेषं प्रसिद्धम् । एतत् कुशादिकं स्वयमुपानीतं न प्रत्याख्येयम् । चकाराद्गृह्यादि (मनुः ४।२५०)—'शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि । धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णुदेत् ॥' तथा—'एधोदकं मूलफलमन्नमभ्युद्यतं च यत् । सर्वतः प्रतिगृह्णी- यान्मध्वथाभयदक्षिणाम् ॥' ( ४।२४७ ) इति मनुस्मरणात् ॥ २१३ ॥ भाषा—कुश, शाक, दूध, मछली, सुगन्धि, फूल, दही, भूमि, मांस, शय्या, आसन, भूने हुए धान, और जल ये सब बिना माँगे ही मिले तो अस्वीकार न करना चाहिए ॥ २१४ ॥ किमिति न प्रत्याख्येयमित्याह— अयाचिताहृतं ग्राह्यमपि दुष्कृतकर्मणः । अन्यत्र कुलटाषण्ढपतितेभ्यस्तथा द्विषः ॥ २१५ ॥ यस्माद्याचितमेतत्कुशाद्याहृतं दुष्कृतकारिणोऽपि संबन्धि ग्राह्यं, किमुत यथोक्तकारिणः । तस्मान्न प्रत्याख्येयम् । अन्यत्र कुलटाषण्ढपतितेभ्यः शत्रोश्च । कुलात्कुलमटन्तीति कुलटाः स्वैरिण्यादिकाः, षण्ढस्तृतीयाप्रकृतिः ॥ २१५ ॥ १. दातुः फलमुक्त्वेदानों । २. भ्रष्टतण्डुलाः । ३. मध्वाज्याभय । ४. षण्ड ।