याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 154, कुल 782 में से
संदर्भ में पढ़ें९८ याज्ञवल्क्यस्मृतिः यत्र दिने चन्द्रमा न दृश्यते सा अमावश्या, तस्यामहर्द्वयव्यापिन्याम- पराह्नव्यापिनी ग्राह्या; 'अपराह्नः पितॄणाम्' इति वचनात् । अपराह्नश्च पञ्चधा विभक्ते दिने चतुर्थो भागस्त्रिमुहूर्तः । अष्टकाश्चतस्रः 'हेमन्तशिशिर- योश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकाः' (गृ. सू. २४।१) इत्याश्वलायनोक्ताः, वृद्धिः पुत्रजन्मादिः, कृष्णपक्षोऽपरपक्षः, अयनद्वयं दक्षिणोत्तरसंज्ञकम्, द्रव्यं १कृसर- माषादिकम्, ब्राह्मणसंपत्तिर्वक्ष्यमाणा, विषुवद्वयं मेषतुलयोः सूर्यगमनम्, सूर्यसंक्रमः आदित्यस्य राशेः राश्यन्तरगमनम्, अयनविषुवतोः संक्रान्तित्वे सिद्धेऽपि पृथगुपादानं फलातिशयप्रतिपादनार्थम् । व्यतीपातो योगविशेषः । गजच्छाया—'यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः । २यस्यां तिथिर्भवेत्सा हि गजच्छाया प्रकीर्तिता ॥' इति परिभाषिता । हस्तिच्छा्येति केचित्, सेह न गृह्यते; कालप्रक्रमात् । ग्रहणं सोमसूर्ययोरुपरागः । यदा च कर्तुः श्राद्धं प्रति रुचिर्भवति तदापि । चशब्दाद्युगादिप्रभृतयः । एते श्राद्धकालाः । यद्यपि—'चन्द्रसूर्यग्रहे नाद्यात्' इति ग्रहणे भोजननिषेधस्तथापि भोक्तुर्दोषः, दातुरभ्युदयः ॥ २१७-१८ ॥ भाषा—अमावश्या अष्टका (हेमन्त और शिशिर ऋतु के कृष्णपक्षों की चारों अष्टमी तिथियों) को, पुत्र जन्म के अवसर पर, कृष्णपक्ष में, दोनों (उत्तर एवं दक्षिण) अयनों में, द्रव्य (कृषरमाष) ब्राह्मणसम्पत्ति, मेष और तुला राशि पर सूर्यसंक्रमण, सूर्य की दूसरी राशि पर गमन, व्यतीपात (एक विशेष योग), गजच्छाया, चन्द्रमा और सूर्य ग्रहण के समय और जब करने की इच्छा हो तब श्राद्ध का काल होता है ॥ २१७-२१८ ॥ अहरहः श्राद्धव्यतिरिक्तवक्ष्यमाणचतुर्विधश्राद्धेषु ब्राह्मणसंपत्तिमाह— अग्र्यः सर्वेषु वेदेषु श्रोत्रियो ब्रह्मविद्युवा । वेदार्थविज्ज्येष्ठसामा त्रिमधुस्त्रिसुपर्णकः ॥ २१९ ॥ सर्वेषु वेदेषु ऋग्वेदादिषु अनन्यमनस्कतयाप्यजस्रास्खलिताध्ययनत्तम अग्र्यः । श्रोत्रियः श्रुताध्ययनसंपन्नः । वक्ष्यमाणं ब्रह्म यो वेत्ति असौ ब्रह्म- वित् । युवा मध्यमवयस्कः । सर्वस्येदं विशेषणम् । मन्त्रब्राह्मणयोरर्थं वेत्तीति वेदार्थवित् । ज्येष्ठसाम सामविशेषः, तदध्ययनाङ्गव्रतं च तद्व्रताचरणेन यस्तद- धीते स ज्येष्ठसामा । त्रिमधुः ऋग्वेदैकदेशः, तद्व्रतं च तद्व्रताचरणेन ३तदधीते इति त्रिमधुः । त्रिसुपर्णं ऋग्यजुषोरेकदेशः, तद्व्रतं च तद्व्रताचरणेन यस्तदधीते स त्रिसुपर्णकः । 'एते ब्राह्मणाः श्राद्धसंपद' इति ४वक्ष्यमाणेन संबन्धः ॥ २१९ ॥ १. कृष्णसारमांसादि । २. याऽया तिथि तिथिवैश्ववणीया ( =त्रयोदशी) । ३. तदुत्थ्याञ्चौ । ४. वक्ष्यमाणक्रियासंबन्धः ।