याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 155, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः ६६ भाषा—सभी वेदों का ध्यानपूर्वक अध्ययन करने वाले, श्रुताध्ययनसंपन्न, ब्रह्मज्ञानी, युवक, वेद का अर्थ जानने वाले, ज्येष्ठसाम नाम के साममंत्रों का आचरणपूर्वक अध्ययन करने वाले, (ऋग्वेद के) त्रिमधु मन्त्रों को व्रता- चरण सहित पढ़ने वाले (ऋग्यजुस् के) त्रिसपर्ण मन्त्रों का नियम के साथ पारायण करने वाले ब्राह्मण—॥ २१९ ॥ स्वस्रीयक्रत्विग्जामातृयाज्यश्वशुरमातुलाः । त्रिणाचिकेतदौहित्रशिष्यसंबन्धिवान्धवाः ॥ २२० ॥ स्वस्त्रीयो भागिनेयः, ऋत्विगुक्तलक्षणः, जामाता दुहितुर्भर्ता, त्रिणाचिकेतं यजुर्वेदैकदेशः, तद्व्रतं च तद्व्रताचरणेन यस्तदध्यायी स त्रिणाचिकेतः । अन्य- प्रसिद्धम् । एते च पूर्वोक्तान्यश्रोत्रियाचभावे वेदितव्याः, ‘एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पस्त्वयं प्रोक्तः सदा सद्भिरगर्हितः ॥’ (मनु. ३।१४७) इत्यभिधाय मनुना स्वस्त्रीयादीनामभिहितत्वात् ॥ २२० ॥ भाषा—भागिनेय, ऋत्विज्, दामाद, यजमान, श्वशुर मामा, (यजुर्वेद के) त्रिणाचिकेत का व्रत एवं अध्ययन करने वाले, दौहित्र (कन्या का पुत्र, नाती) शिष्य, सम्बन्धी, बान्धव— ॥ २२० ॥ कर्मनिष्ठास्तपोनिष्ठाः पञ्चाग्निर्ब्रह्मचारिणः । पितृमातृपराश्चैव ब्राह्मणाः श्राद्धसंपदः ॥ २२१ ॥ कर्मनिष्ठा विहितानुष्ठानतत्पराः, तपोनिष्ठास्तपःशीलाः, सभ्यावसथ्यौ त्रेताग्नयश्च यस्य सन्ति स पञ्चाग्निः, पञ्चाग्निविद्याध्यायी च, ब्रह्मचारी उप- कुर्वाणको नैष्ठिकश्च, पितृमातृपरास्तत्पूजापराः, चकारात् ज्ञाननिष्ठादयः । ब्राह्मणाः न क्षत्रियादयः । श्राद्धसंपदः श्राद्धेष्वक्षय्यफलसंपत्तिहेतवः ॥ २२१ ॥ भाषा—कर्मनिष्ठ (विहित अनुष्ठान में तत्पर रहने वाले), तपस्वी, पञ्चाग्नि का आधान करने वाले, ब्रह्मचारी, पिता-माता की सेवा करने वाले ब्राह्मण श्राद्ध में अक्षय फल के हेतु होते हैं (क्षत्रिय आदि नहीं) ॥ २२१ ॥ वर्ज्यानाह— रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा । अवकीर्णी कुण्डगोलौ कुनखी श्यावदन्तकः ॥ २२२ ॥ रोगी महारोगोपसृष्टः, हीनमतिरिक्तं वाऽङ्गं यस्यासौ हीनातिरिक्ताङ्गः, एके- नाक्ष्णा यो न पश्यति स काणः, एतस्मादेवान्धबधिरवृद्ध³प्रजनन⁴खलतिदुश्चर्म- १. ज्ञान । २. श्राद्धसंपदे (= श्राद्धस्य संपदे समृद्धये) । ३. वृद्धप्रजनन । ४. खलतिर्निष्केशशिराः खल्वाटः ।