याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 167, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १११ ब्राह्मणप्रार्थना— दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति ॥ २४६ ॥ दातारो हिरण्यादेः नोऽस्माकं कुलेऽभिवर्धन्तां बहवो भवन्तु । वेदाश्च वर्धन्तां अध्ययनाध्यापनतदर्थज्ञानानुष्ठानद्वारेण । संततिश्च पुत्रपौत्रादिपरम्प- रया । श्रद्धा च पित्र्ये कर्मण्यास्था नोऽस्माकं मा व्यगमत् मा गच्छतु । 'न माङ्योगे' ( पा. ६।४।७४ ) इत्यडभावः । देयं च हिरण्यादि बहु अपर्यन्तं अस्माकं भवत्विति जपेदित्यर्थः ॥ २४६ ॥ भाषा—हमारे कुल में ( हिरण्य आदि ) के दाता ( दानशील पुरुष ) अनेक होवें, ( अध्ययन-अध्यापन द्वारा ) वेद की और सन्तान ( पुत्र, पौत्र ) की वृद्धि होवे । पितृकर्म ( पितरों की पूजा ) आदि में हमारी श्रद्धा कम न होवें, ( सोना आदि ) दान देने योग्य वस्तुएँ प्रचुर मात्रा में बनी रहें ॥ २४६ ॥ २इत्युक्त्वोत्त्वा प्रिया वाचः प्रणिपत्य विसर्जयेत् । वाजे वाज इति प्रीतः पितृपूर्वं ३विसर्जनम् ॥ २४७ ॥ एवं पूर्वोक्तं प्रार्थना मन्त्रं जप्त्वा, उक्त्वा च प्रिया वाचः 'धन्या वयं भवच्च- रणयुगलरजःपवित्रीकृतमस्मन्मन्दिरं शाकाद्यशनक्लेशमविगणय्य भवद्भिरनु- गृहीता वयम्' इत्येवंरूपाः । प्रणिपत्य प्रदक्षिणापूर्वं नमस्कृत्य विसर्जयेत् । कथं विसर्जयेदित्याह—'वाजे वाजेवत वाजिनो नः' ( ऋ. ५।४।५।८ इत्यनयर्चा पितृपूर्वं प्रपितामहादि विश्वेदेवान्तं दर्भान्वारम्भेण 'उत्तिष्ठत पितरः' इति प्रीतः सुप्रीतमना विसर्जनं कुर्यात् ॥ २४७ ॥ भाषा—इस मन्त्र का जप करके, प्रियवचन कह कर ( पितरों को ) प्रणाम करके विसर्जित करे । 'वाजे वाजेवत वाजिनो नः' इस मन्त्र के साथ प्रसन्नचित्त होकर पितरों से आरम्भ करके ( विश्वेदेव तक का ) विसर्जन करना चाहिए ॥ २४७ ॥ ४यस्मिंस्तु संस्रवाः पूर्वमर्घ्यपात्रे५ निवेशिताः । पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् ॥ २४८ ॥ यस्मिन्नर्घ्यपात्रे पूर्वमर्घ्य६दानान्ते संस्रवा ब्राह्मणहस्तगलितार्घ्योदकानि निवेशिताः स्थापितास्तदर्घ्यपात्रं न्युब्जं तदुत्तानमूर्ध्वमुखं कृत्वा विप्रान्विसर्ज- १. रेव नः । २. इत्युक्त्वा तु । ३. विसर्जयेत् । ४. यस्मिंस्ते संस्रवाः पूर्वं । ५. पितृपात्रे । ६. दानानन्तरं ते संस्रवा ।