याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 168, कुल 782 में से
संदर्भ में पढ़ें११२ याज्ञवल्क्यस्मृतिः येत् । एतच्चाशीर्मन्त्रजपादूर्ध्वं 'वाजे' इत्यतः प्राग्द्रष्टव्यम् ; 'कृत्वा विसर्ज- येत्' इति क्त्वाप्रत्ययश्रवणात् ॥ २४८ ॥ भाषा—पहले जिस अर्घ्यपात्र में ( ब्राह्मणों के हाथों से ) गिरा हुआ जल रोपा गया था उस औंधे किये गये ) पितृपात्र का मुँह ऊपर करे और ब्राह्मणों को बिदा करे ॥ २४८ ॥ प्रदक्षिणमनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह ॥ २४९ ॥ अनन्तरमासीमान्तं ब्राह्मणाननुव्रज्य तैः 'गम्यताम्' इत्यनुज्ञातस्तान्प्रदक्षिणी- कृत्य प्रतिनिवृत्तः पितृसेवितं श्राद्धशिष्टमिष्टैः सह भुञ्जीत । नियम एवार्थं, न परिसंख्या । 'मांसे तु यथारुचि' इति 'द्विजकाम्यया' ( आ० १७९ ) इत्यत्रो- क्तम् । यस्मिन्दिने श्राद्धं कृतं तत्संबन्धिनीं रात्रिं भोक्तृभिर्ब्राह्मणैः सह कर्ता ब्रह्मचारी भवेत् । तुशब्दात् पुनर्भाजनादिरहितोऽपि भवेत् ; 'दन्तधावनताम्बूलं स्निग्धस्नानमभोजनम् । रत्यौषधपरान्नानि श्राद्धकृत् सप्त वर्जयेत् ॥ पुनर्भाजन- मध्वानं भाराध्ययनमैथुनम् । दानं प्रतिग्रहं होमं श्राद्धभुक्सप्त वर्जयेत् ॥' इति वचनात् ॥ २४९ ॥ भाषा—तब ब्राह्मणों को अपने गांव की सीमा तक पहुँचा कर उनकी आज्ञा मिलने पर प्रदक्षिणा करके लौटे और इष्ट जनों के साथ अवशिष्ट अन्न का भोजन करे । उस रात्रि ब्राह्मणों के साथ श्राद्धकर्ता ब्रह्मचारी होकर रहे ॥ २४९ ॥ एवं पार्वणश्राद्धमुक्त्वेदानीं वृद्धिश्राद्धमाह— एवं १प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् । यजेत २दधिकर्कन्धुमिश्रान्पिण्डान्यवैः क्रियाः ॥ २५० ॥ वृद्धौ पुत्रजन्मादिनिमित्ते श्राद्धे एवमुक्तेन प्रकारेण पितॄन्यजेत् पूजयेत् । तत्र विशेषमाह—प्रदक्षिणावृत्त इति । प्रदक्षिणा आवृत् अनुष्ठानपद्धतिर्यस्यासौ प्रदक्षिणावृत्कः, प्रदक्षिणप्रचार इति यावत् । 'नान्दीमुखान्' इति पितॄणां विशेषणम् । अतश्चावाहनादौ 'नान्दीमुखान्पितॄनावाहयिष्ये नान्दीमुखान्पिता- महान्' इत्यादिप्रयोगो द्रष्टव्यः । कथं यजेतेत्याह—दधिकर्कन्धुमिश्रान् ।
- मिश्रान्पिण्डान्दत्त्वा, 'यजेत' इति संबध्यते । तिलसाध्याः सर्वाः क्रिया यवैः क र्त्तव्याः । अत्र च ब्राह्मणसंख्या दर्शितेव 'युग्मान्दैवे यथाशक्ति' ( आ० २२७ ) इत्यत्र । प्रदक्षिणावृत्कादिपरि- १. प्रदक्षिणं कृत्वा । २. कर्कन्धुमिश्राः पिण्डा यवैः ।