याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 190, कुल 782 में से
संदर्भ में पढ़ें१३४ याज्ञवल्क्यस्मृतिः विधानत इति । ग्रहानादित्यादीन्वक्ष्यमाणेन विधिना संपूज्य कर्मणां सिद्धि- माप्नोति श्रियं चाप्नोति इति ॥ २९३ ॥ भाषा—इस प्रकार विनायक की पूजा करके और सभी ग्रहों की विधिपूर्वक पूजा करके सभी कर्मों का फल प्राप्त करता है और उत्कृष्ट समृद्धि का लाभ करता है ॥ २९३ ॥ नित्यकाम्यसंयोगानाह— आदित्यस्य सदा पूजां तिलकं स्वामिनस्तथा । महागणपतेश्चैव कुर्वन्सिद्धिमवाप्नुयात् ॥ २९४ ॥ आदित्यस्य भगवतः सदा प्रतिदिवसं रक्तचन्दनकुङ्कुमकुसुमादिभिः पूजां कुर्वन् स्कन्दस्य महागणपतेश्च नित्यं पूजां कुर्वन् सिद्धिं मोक्षमात्मज्ञानद्वारेण प्राप्नोतीति नित्यसंयोगः । आदित्यस्कन्दगणपतीनामन्यतमस्य सर्वेषां वा तिलकं स्वर्णनिर्मितं रूप्यनिर्मितं वा कुर्वन् सिद्धिमभिलषितामाप्नोति । तथा चक्षुषी चेति काम्यसंयोगः ॥ २९४ ॥ भाषा—प्रतिदिन सूर्य भगवान् को (लाल चन्दन, कुङ्कुम और पुष्प आदि से) तथा महागणपति की पूजा करने और इनके लिये (सोने या चाँदी का) तिलक बनवाने वाला अभिलषित फल प्राप्त करता है (सिद्धि प्राप्त करता है) ॥ २९४ ॥ इति महागणपतिकल्पः । ग्रहशान्तिप्रकरणम् ‘एवं विनायकं पूज्य ग्रहांश्चैव विधानतः । कर्मणां फलमाप्नोति श्रियं चाप्नोत्यनुत्तमाम्’ ( आ० २९३ ) इत्यनेन ग्रहपूजायाः कर्मणामसिद्धिानेन फलसिद्धिः श्रीश्च फलमित्युक्तम् । इदानीं फलान्तराण्याह— श्रीकामः शान्तिकामो वा ग्रहयज्ञं समाचरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाऽभिचरन्नपि ॥ २९५ ॥ श्रीकाम इति पूर्वोक्तस्यानुवादः, शान्तिकाम आपदुपशान्तिकामः, सस्या- दिवृद्ध्यर्थं प्रवर्षणं वृष्टिः, आयुरपमृत्युजयेन दीर्घकालजीवनम् । पुष्टिरनवद्य- शरीरत्वं, एताः कामयत इति वृष्ट्यायुःपुष्टिकामः। एते श्रीकामादयो ग्रहयज्ञं ग्रहपूजां समाचरेयुः। तथाऽभिचरन्नपि अघशेोपायेन परपीडा अभिचारस्तत्कामश्च ग्रहयज्ञं समाचरेत् ॥ २९५ ॥