याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 191, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १३५ भाषा—समृद्धि की इच्छा रखने वाला, आपत्ति से शान्ति चाहने वाला, (खेती के लिये) वृष्टि, दीर्घजीवन, पुष्टि की कामना करने वाला तथा अदृष्ट उपाय से दूसरे (शत्रु आदि) को पीडित करने की इच्छा वाला ग्रह यज्ञ करे ॥ २९५ ॥ ग्रहानाह— सूर्य्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥ २९६ ॥ एते सूर्यादयो नव ग्रहाः ॥ २९६ ॥ भाषा—सूर्य, चन्द्रमा, मंगल, बुध (चन्द्रमा का पुत्र), बृहस्पति, शुक्र, शनि, राहु और केतु—ये नवग्रह कहे गये हैं ॥ २९६ ॥ 'ग्रहाः पूज्याः' इत्युक्तं, कि कृत्वेत्याह— ताम्रात्स्फटिकाद्रक्तचन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् ॥ २९७ ॥ स्ववर्णैर्वा पटे लेख्या १गन्धैर्मण्डलकेषु वा । सूर्यादीनां मूर्तयस्ताम्रादिभिर्यथाक्रमं कार्याः । तदलाभे स्ववर्णैर्वर्णकैः पटे लेख्याः, मण्डलकेषु वा । गन्धैः रक्तचन्दनादिभिर्यथावर्णं लेख्या इत्यन्वयः । द्विभुजत्वादिविशेषस्तु मत्स्यपुराणोक्तो द्रष्टव्यः । यथा—'पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ॥ श्वेतः श्वेता- म्बरधरो दशाश्वः श्वेतभूषणः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजो मेषगमो वरदः स्याद्धरा- सुतः॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः। खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः। बाणबाणासनधरः कर्तव्योऽर्कसुतः सदा ॥ करालवदनः खड्गचर्मशूली वरप्रदः। नीलः ३सिंहासन- रथश्च राहुरत्र प्रशस्यते ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृतानना। गृध्रासन- गता नित्यं केतवः स्युर्वरप्रदाः ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा' इति ॥ एतेषां स्थापनदेशश्च तत्रै- वोक्तः—'मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्याद् बुधं : पूर्वोत्तरेण तु ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्या- न्द्राहुं पश्चिमदक्षिणे ॥ पश्चिमोत्तरतः केतुं स्थाप्या वै शुक्लतण्डुलैः ॥' इति ॥ २९७ ॥
१. गन्धमण्डलकेषु वा । २. सप्ताश्वरथसंस्थश्च । ३. नीलसिंहासनः ।