याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 192, कुल 782 में से
संदर्भ में पढ़ें१३६ याज्ञवल्क्यस्मृतिः पूजाविधिमाह— यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥ २९८ ॥ गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् ॥ २९९ ॥ यथावर्णं यस्य ग्रहस्य यो वर्णस्तद्वर्णानि वस्त्रगन्धपुष्पाणि देयानि । बलयश्च धूपश्च सर्वेभ्यो गुग्गुलुर्देयः । चरवश्च प्रतिदैवतमग्निप्रतिष्ठापनान्वा- धानादिपूर्वकं ‘चतुरश्चतुरो मुष्टीन्निर्वपति’, ‘अमुष्मै त्वा जुष्टं निर्वपामी'त्यादिवि- धिना कार्याः । अनन्तरं सुसमिद्धेऽग्नाविध्माधानाद्याघारान्तं कर्म कृत्वा१ आदित्याद्युद्देशेन यथाक्रमं वक्ष्यमाणमन्त्रैर्वक्ष्यमाणाः समिधो वक्ष्यमाणप्रकारेण हुत्वा चरवो होतव्याः ॥ २९८-२९९ ॥ भाषा—( सूर्य आदि ग्रहों की मूर्तियाँ ) क्रमशः तांबे, स्फटिक, लाल- चन्दन, सोने की दो, चाँदी, लोहा, सीसा की क्रमशः बनवानी चाहिए । अथवा (इनकी आकृतियाँ) तत्तत् रंगों से वस्त्र पर अथवा मण्डल में चन्दनादि गन्धों से बनावे। ग्रह के वर्ण के अनुसार (उस-उस वर्ण का) वस्त्र और फूल दे। गन्ध, बलि, धूप और गुग्गुल देना चाहिए और प्रत्येक देवता के लिए मन्त्र के साथ चरु बनाकर (उसका हवन करना चाहिए) ॥ २९७-२९९ ॥ मन्त्रानाह— आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः ॥ ३०० ॥ बृहस्पते अतियदर्यस्तथैवान्नात्परिस्रुतः । शं नो देवीस्तथा काण्डात्तेकेतुं कृण्वन्निमांस्तथा ॥ ३०१ ॥ ‘आकृष्णेन रजसा वर्तमान’ (ऋ. १।३५।२) इत्यादयो नव मन्त्राः यथाक्रमादित्यादीनां वेदितव्याः ॥ ३००-३०१ ॥ भाषा—'आकृष्णेन’, ‘इमं देवा', 'अग्निर्मूर्धा दिवः ककुत्' ‘उद्बुध्यस्व’, 'बृहस्पते अतियदर्यः', 'अन्नात्परिस्रुतः', 'शं नो देवी', और 'काण्डात्' 'केतुं कृण्वन्' ये यथाक्रम नौ देवताओं के मन्त्र हैं ॥ ३००-३०१ ॥ इदानीं समिध आह— अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ ३०२ ॥ १. ऽग्नावन्वाधानादनन्तरं कर्म कृत्वा । २. न्निमा अपि । ३. औदुम्बर ।