याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 197, कुल 782 में से
संदर्भ में पढ़ेंएवं दण्डनीति ( योग क्षेमोपयोगी ) विद्या एवं वार्ता ( कृषिवणिज्य ) तीनों में प्रवीण होना चाहिए ॥ ३०९-३११ ॥ एवमभिषेकयुक्तस्यान्तरङ्गान्धर्मानभिधायेदानीं बहिरङ्गानाह- स मन्त्रिणः प्रकुर्वीत प्राज्ञान्मौलान्स्थिराञ्शुचीन् । तैः सार्धं चिन्तयेद्राज्यं विप्रेणाथ ततः स्वयम् ॥ ३१२ ॥ महोत्साहादिगुणैर्युक्तो राजा मन्त्रिणः कुर्वीत । कथंभूतान् ? प्राज्ञान् हिता- हितविवेककुशलान्, मौलान् स्ववंशपरम्परायातान्, स्थिरान् महत्यपि ^२हर्ष- विषादस्थाने विकाररहितान् । शुचीन् धर्मार्थकामभयोपधाशुद्धान्, ते च सप्ताष्टौ वा कार्याः । यथाह मनुः ( ७।५४ ) - 'मौलाञ्शास्त्रविदः शूरान्लब्धलक्षान्कुलोद्ग- बान् । सचिवांस्सप्त चाष्टौ वा कुर्वीत सुपरीक्षितान् ॥' इति । एवं मन्त्रिणः पूर्वं कृत्वा तैः सार्धं राज्यं संधिविग्रहादिलक्षणं कार्यं चिन्तयेत् समस्तैर्व्यस्तैश्च । अनन्तरं तेषामभिप्रायं ज्ञात्वा सकलशास्त्रार्थविचारकुशलेन ब्राह्मणेन पुरोहितेन सह कार्यं विचिन्त्य ततः स्वयं बुद्धया कार्यं चिन्तयेत् ॥ ३१२ ॥ भाषा - वह ज्ञानी ( विवेकी ), वंशपरम्परा से चले आने वाले, धैर्यवान् एवं पवित्र पुरुषों को मन्त्री बनावे; उनके साथ राज्य के ( संधि, विग्रह आदि ) कार्यों पर विचार करे, फिर ब्राह्मण ( पुरोहित ) से परामर्श ले और तब स्वयं ( अपनी बुद्धि से ) कर्तव्य का चिन्तन करे ॥ ३१२ ॥ कीदृशं पुरोहितं कुर्यादित्याह- पुरोहितं ^३प्रकुर्वीत दैवज्ञमुदितोदितम् । दण्डनीत्यां च कुशलमथर्वाङ्गिरसे तथा ॥ ३१३ ॥ पुरोहितं च सर्वेषु दृष्टार्थेषु ^४कर्मसु पुरतो निहितं दानमानसत्कारैरात्मसं- बद्धं कुर्यात् । कथंभूतम् ? दैवज्ञं ग्रहोत्पाततच्छमनादेर्वेदितारम्, उदितोदितं विद्याभिजनानुष्ठानादिभिरुदितैः शास्त्रोक्तैरुदितं समृद्धम्, दण्डनीत्यामर्थशास्त्रे कुशलम्, अथर्वाङ्गिरसे च शान्त्यादिकर्मणि ॥ ३१३ ॥ भाषा - दैवज्ञ ( ग्रहों के उत्पात एवं शमन का ज्ञान रखने वाले ) सभी शास्त्रों के ज्ञान एवं अनुष्ठान से समृद्ध, दण्ड और नीति में कुशल तथा अथर्वाङ्गिरस ( शान्त और घोर कर्म ) में प्रविष्ट ब्राह्मण को पुरोहित बनावे ॥ श्रौतस्मार्तक्रियाहेतोर्वृणुयादेव चर्त्विजः । यज्ञांश्चैव प्रकुर्वीत विधिवद्द्वूरिदक्षिणान् ॥ ३१४ ॥ १. ततः परम् । २. हर्षविकारस्थाने विषादरहितान् । ३. च कुर्वीत । ४. कर्मंसु पुरो निहितं ।