याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 201, कुल 782 में से
संदर्भ में पढ़ेंआचाराध्यायः १५३ तत्र तत्र च निष्णातानध्यक्षान्कुशलाञ्छुचीन् । प्रकुर्यादायकर्मान्तव्ययकर्मसु चोद्यतान् ॥ ३२२ ॥ किंच, तत्र तत्र ¹धर्मार्थकामादिषु अध्यक्षान् योग्यानधिकारिणः प्रकुर्यान्नियु- ञ्जीत । यथाहुः- 'धर्मकृत्येषु धर्मज्ञानर्थकृत्येषु पण्डितान् । स्त्रीषु क्लीबान्नियु- ञ्जीत नीचांश्चिच्छ्रेषु कर्मसु ॥' इति । कीदृशान् ? निष्णातानन्यव्यापारान् । कुशलान् तत्तद्व्यापारचतुरान् , शुचीन् चतुर्विधोपधाशुद्धान् । आयकर्मसु सुवर्णाद्युत्पत्तिस्थानेषु व्ययकर्मसु सुवर्णादिदानस्थानेषु च उद्यताननलसान् । चशब्दात्प्राज्ञत्वादिगुणयुक्तान् । उक्तं च-'प्राज्ञत्वमुपधाशुद्धिरप्रमादोऽभियुक्तता । कार्येषु व्यसनाभावः स्वामिभक्तिश्च योग्यता ॥' इति ॥ ३२२ ॥ भाषा-तत्तत (धर्म, अर्थ, काम आदि) कर्मों में, आयकर्म और व्यय कर्म में योग्य, कार्यकुशल, पवित्र एवं कर्त्तव्यनिष्ठ अध्यक्षों को नियुक्त करे ॥ ३२२ ॥ 'भोगांश्च दद्याद्विप्रेभ्यो वसूनि विविधानि च' (आ० ३१५) इति सामा- न्येन स्वस्वदानमुक्तम्, इदानीं नृपाणां विक्रमार्जितस्य दाने फलातिशयमाह- नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ ३२३ ॥ अस्मादुत्कृष्टतमो धर्मो नृपाणां न विद्यते यद्रणार्जितं द्रव्यं विप्रेभ्यो दीयते । यच्च प्रजाभ्योऽभयदानम् ॥ ३२३ ॥ भाषा-राजाओं के लिए इससे बढ़कर कोई धर्म नहीं है कि युद्ध में अपहृत धन ब्राह्मणों को दान करें और अपनी प्रजाओं को अभयदान दें ॥३२३॥ 'रणार्जितं देयम्' इत्युक्तं, द्रव्यार्जनाय रणे प्रवृत्तस्य विपत्तिरपि संभवतीति 'न धर्मो नाप्यर्थ इति ततो निवृत्तिरेव ²श्रेयसीत्यत आह- य आहवेषु वध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ ३२४ ॥ ये भूम्यर्थमाहवेषु प्रवृत्ता अपराङ्मुखा अभिमुखा वध्यन्ते मार्यन्ते ते स्वर्गं यान्ति। योगाभ्यासरता यथा । यद्यकूटैरविषदिग्धादिभिरायुधैर्योद्धारो भवन्ति ॥ ३२४ ॥ भाषा-जो भूमि के लिये युद्ध में सन्मुख लड़ते हुए अकूट (विष से न बुझे हुए) हथियारों से मारे जाते हैं वे योगियों के समान (मृत्यु के उपरान्त) स्वर्ग को जाते हैं ॥ ३२४ ॥ १. धर्मादिस्त्यादिषु । २. ज्यायसी । १० या०