याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 206, कुल 782 में से
संदर्भ में पढ़ें१५० - याज्ञवल्क्यस्मृतिः चाटतस्करदुर्वृत्तमहासाहसिकादिभिः । पीड्यमानाः प्रजा रक्षेत्कायस्थैश्च विशेषतः ॥ ३३६ ॥ चाटाः प्रतारकाः विश्वास्य ये परधनमपहरन्ति, प्रच्छन्नापहारिणस्त- स्कराः, दुर्वृत्ता १ऐन्द्रजालिककितवादयः, सहो बलं सहसा बलेन कृतं साहसं महत् तत्साहसं च महासाहसं तेन वर्तन्त इति महासाहसिकाः २प्रसह्योपहारिणः, 'आदि' शब्दान्मौलिककुहकदुर्वृत्तयः । एतैः पीड्यमाना बाध्य- मानाः प्रजा रक्षेत् । कायस्था लेखका गणकाश्च तैः पीड्यमाना विशेषतो रक्षेत्, तेषां राजवल्लभतयातिमायावितया च दुर्निवारत्वात् ॥ ३३६ ॥ भाषा—लुटेरों, चोरों, ऐन्द्रजालिक आदि धूर्तों एवं दुस्साहसी डाकुओं आदि से पीडित प्रजा की रक्षा करे और विशेषतया कायस्थों (लेखकों एवं गणकों) से पीडित व्यक्तियों की रक्षा करे ॥ ३३६ ॥ अरक्ष्यमाणाः कुर्वन्ति यत्किञ्चित्किल्बिषं प्रजाः । तस्मात्तु नृपतेरर्धं यस्माद् गृह्णात्यसौ करान् ॥ ३३७ ॥ अरक्ष्यमाणाः प्रजाः यत्किञ्चित्किल्बिषं चौर्यपरदारगमनादि कुर्वन्ति तस्मात्पापादधं नृपतेर्भवति । यस्मादसौ राजा रक्षणार्थं प्रजाभ्यः करान् गृह्णाति ॥ ३३७ ॥ भाषा—राजा द्वारा अरक्षित प्रजा जो कुछ (चोरी आदि) पाप करती है, उसमें से आधा पाप उसका हो जाता है; क्योंकि वह रक्षा करने के लिये ही प्रजाओं से कर लेता है ॥ ३३७ ॥ ये राष्ट्राधिकृतास्तेषां चारैर्ज्ञात्वा विचेष्टितम् । साधून्समानयेद्राजा विपरीतांश्च३ घातयेत् ॥ ३३८ ॥ उत्कोचजीविनो द्रव्यहीनान्कृत्वा विवासयेत् । ४संदानमानसत्कारैःश्रोत्रियान्वासयेत्सदा ॥ ३३९ ॥ राष्ट्रे राष्ट्राधिकारेषु ये नियुक्तास्तेषां विचेष्टितं चरितं चारैरुक्तलक्षणैः सम्यक् ज्ञात्वा साधून्सुचरितान् संमानयेत् दानमानसत्कारैः पूजयेत् । विपरीतान्दुष्टचरितान्सम्पग्विदित्वा घातयेत् अपराधानुसारेण । ये पुन- रुत्कोचजीविनस्तान्द्रव्यरहितानकृत्वा स्वराष्ट्रात्प्रवासयेत् । श्रोत्रियान्सदान- मानसत्कारैः सहितान्कृत्वा स्वराष्ट्रे स्वदेशे सदैव वासयेत् ॥ ३३८-३३९ ॥ भाषा—जो राज्यकार्य में अधिकारयुक्त पदों पर नियुक्त हों उनका आचरण भलीभाँति गुप्तचरों द्वारा जानकर राजा उत्तमचरित्रवालों का १. ऐन्द्रजालिक । २. अपकारिणः । ३. स्तु । ४. सदानमान ।