भारतकोश
याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)

Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary

महर्षि याज्ञवल्क्य द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished782 पृष्ठ

पृष्ठ 208, कुल 782 में से

संदर्भ में पढ़ें
पृष्ठ 208

१५२ याज्ञवल्क्यस्मृतिः

किंच, यदा परदेशो वशमुपागतस्तदा न स्वदेशाचारादिसङ्करः कार्यः, किं तु यस्मिन्देशे य आचारः कुलस्थितिर्व्यवहारो वा यथैव प्रागासीत्तथैवासौ परिपालनीयो यदि शास्त्रविरुद्धो न भवति । 'यदा वशमुपागतः' इत्यनेन वशोपगमनात्प्रागनियम इति दर्शितम् । यथोक्तम् ( मनुः ७।१९५)— 'उपसृप्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसाग्नोदकेन्धनम् ॥' इति ॥ ३४३ ॥ भाषा—अपने वश में आ जावे तो जिस देश में जो आचार, व्यवहार और कुल की मर्यादा हो उसका उसी रूप में वह पालन करे ॥ ३४३ ॥ मन्त्रमूलं यतो राज्यं तस्मान्मन्त्रं सुरक्षितम् । कुर्याद्यथाऽस्य न विदुः कर्मणामा फलोदयात् ॥ ३४४ ॥ यस्मात् 'तैः सार्धं चिन्तयेद्राज्यम्' ( आ० ३१२ ) इत्याद्युक्तं मन्त्रमूलं राज्यं तस्मान्मन्त्रं यत्नेन तथा सुरक्षितं कुर्यात्, यथाऽस्य राज्ञः कर्मणां संधिविग्रहा- दीनामाफलोदयात् फलनिष्पत्तेः प्रागन्ये मन्त्रं न जानन्ति ॥ ३४४ ॥ भाषा—राज्यकार्य का मुख्य आधार मन्त्र ( मन्त्रणा, गुप्त परामर्श ) है; अतएव मन्त्र को इस प्रकार गुप्त रखे कि राजा के कर्मों ( सन्धि-विग्रह आदि ) के फलीभूत होने के पूर्व उसकी जानकारी किसी को न मिल सके ॥ ३४४ ॥ अरिर्मित्रमुदासीनोऽनन्तरस्तत्परः परः । क्रमश्रो मण्डलं चिन्त्यं सामादिभिरुपक्रमैः ॥ ३४५ ॥ किंच, अरिः शत्रुः, मित्रं सुहृत् , उभयविलक्षण उदासीनश्च । ते च त्रयस्त्रिविधाः सहजाः कृत्रिमाः प्राकृताश्चेति । तत्र सहजोऽरिः सापत्नपितृव्य- तत्पुत्रादिः । कृत्रिमोऽरिः यस्यापकृतं येन वापकृतम् । प्राकृतस्त्वनन्तर- देशाधिपतिः । सहजं मित्रं भागिनेयपैतृष्वस्रीयमातृष्वस्रीयादि । कृत्रिमं मित्रं येनोपकृतं यस्य चोपकृतम् । प्राकृतमित्रमेकान्तरितदेशाधिपतिः । सहजकृत्रिम- मित्रशत्रुलक्षणरहितौ सहजकृत्रिमोदासीनौ । प्राकृतोदासीनो ^३द्व्यन्तरित- देशाधिपतिः । अरिः पुनश्चतुर्विधः—^४यातव्योच्छेत्तव्यपीडनीयकर्षणीयभेदेन । तत्र यातव्योऽनन्तरभूमिपतिर्व्यसनी हीनबलो विरक्तप्रकृतिः । विदुर्गो मित्रहीनो दुर्बलश्चोच्छेत्तव्यः । पीडनीयो मन्त्रबलहीनः । प्रबलमन्त्रबलयुक्तः कर्शनीयः, 'निर्मूलनात्समुच्छेदं पीडनं बलनिग्रहम् । कर्शनं तु पुनः प्राहुः


१. राज्यमतो मन्त्रं । २. प्राग्यावदन्त्ये । ३. द्व्यनन्तरदेशा । मध्यन्तरदेशा । ४. यातव्योच्छेदनीय ।

याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित) · पृष्ठ 208, कुल 782 में से · BharatKosha