याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 222, कुल 782 में से
संदर्भ में पढ़ें१६६ याज्ञवल्क्यस्मृतिः मोहादिष्विति नियमार्थम् । नच 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' ( ११।१ ) इति गौतमवचनान्न १ ब्राह्मणो दण्ड्या इति मन्तव्यम्; तस्य प्रशंसार्थत्वात् ॥ यत्तु 'षड्भिः परिहार्यो राजाऽवध्यश्चाबन्ध्मश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरि- हार्यश्च' (गौ. ८, १२-१३) इति, तदपि 'स एष बहुश्रुतो भवति लोकवेदवे- दाङ्गविद्वाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तद्वृत्तिश्चाष्टचत्वारिंशत्संस्कारैः सं- स्कृतस्त्रिषु कर्मष्वभिरतः षट्सु वा सामयाचारिकेष्वभिविनीत' (गौ. ८।४- ११) इति, प्रतिपादितबहुश्रुतविषयं; न ब्राह्मणमात्रविषयम् ॥ ४ ॥ भाषा-( किसी के प्रति ) स्नेह, लोभ या भय के वशीभूत होकर व्यवहार में धर्म के विरुद्ध आचरण करने वाले सभासदों से उस विवाद के पराजय के निमित्त जितना द्रव्य हो उसके दुगुना द्रव्य पृथक् पृथक् दण्डस्वरूप लेना चाहिए ॥ ४ ॥ व्यवहारविषयमाह- स्मृत्याचारव्यपेतेन मार्गेणाऽऽधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ५ ॥ । धर्मशास्त्रसंमाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यद्राज्ञे प्राडि वाकाय वा आवेदयति विज्ञापयति चेद्यदि, तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशय- हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयः । तस्य चेदं सामान्यलक्षणम् । स च द्विविधः-शङ्काभियोगस्तत्त्वाभियोगश्चेति । यथाह नारदः ( १।२७ )- 'अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽ- सतां तु संसर्गात्तत्वं होढाभिदर्शनात् ॥' इति । होढा लोप्त्रं, लिङ्गममिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः-प्रतिषेधात्मको विध्यात्मकश्चेति । यथा-'मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति', 'क्षेत्रादिकं ममायमपहरति' इति च । उक्तं च कात्यायनेन- 'न्याय्यं स्वं नेच्छते कर्तुमन्याय्यं वा करोति यः' इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनुः ( ८।४-७ ) - 'तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चाऽऽदानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥' इति ॥ १. न ब्राह्मणो दण्ड्य इति । २. राज्ञा बध्यश्चावध्यश्च । ३. वेदाङ्गवि- द्धाक्वेतिहास । ४. समयाचार ।