याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
१६६ याज्ञवल्क्यस्मृतिः मोहादिष्विति नियमार्थम् । नच 'राजा सर्वस्येष्टे ब्राह्मणवर्जम्' ( ११।१ ) इति गौतमवचनान्न १ ब्राह्मणो दण्ड्या इति मन्तव्यम्; तस्य प्रशंसार्थत्वात् ॥ यत्तु 'षड्भिः परिहार्यो राजाऽवध्यश्चाबन्ध्मश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चापरि- हार्यश्च' (गौ. ८, १२-१३) इति, तदपि 'स एष बहुश्रुतो भवति लोकवेदवे- दाङ्गविद्वाकोवाक्येतिहासपुराणकुशलस्तदपेक्षस्तद्वृत्तिश्चाष्टचत्वारिंशत्संस्कारैः सं- स्कृतस्त्रिषु कर्मष्वभिरतः षट्सु वा सामयाचारिकेष्वभिविनीत' (गौ. ८।४- ११) इति, प्रतिपादितबहुश्रुतविषयं; न ब्राह्मणमात्रविषयम् ॥ ४ ॥ भाषा-( किसी के प्रति ) स्नेह, लोभ या भय के वशीभूत होकर व्यवहार में धर्म के विरुद्ध आचरण करने वाले सभासदों से उस विवाद के पराजय के निमित्त जितना द्रव्य हो उसके दुगुना द्रव्य पृथक् पृथक् दण्डस्वरूप लेना चाहिए ॥ ४ ॥ व्यवहारविषयमाह- स्मृत्याचारव्यपेतेन मार्गेणाऽऽधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ॥ ५ ॥ । धर्मशास्त्रसंमाचारविरुद्धेन मार्गेण परैराधर्षितोऽभिभूतो यद्राज्ञे प्राडि वाकाय वा आवेदयति विज्ञापयति चेद्यदि, तदावेद्यमानं व्यवहारपदं प्रतिज्ञोत्तरसंशय- हेतुपरामर्शप्रमाणनिर्णयप्रयोजनात्मको व्यवहारस्तस्य पदं विषयः । तस्य चेदं सामान्यलक्षणम् । स च द्विविधः-शङ्काभियोगस्तत्त्वाभियोगश्चेति । यथाह नारदः ( १।२७ )- 'अभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः । शङ्काऽ- सतां तु संसर्गात्तत्वं होढाभिदर्शनात् ॥' इति । होढा लोप्त्रं, लिङ्गममिति यावत् । तेन दर्शनं, साक्षाद्वा दर्शनं होढाभिदर्शनं तस्मात् । तत्त्वाभियोगोऽपि द्विविधः-प्रतिषेधात्मको विध्यात्मकश्चेति । यथा-'मत्तो हिरण्यादिकं गृहीत्वा न प्रयच्छति', 'क्षेत्रादिकं ममायमपहरति' इति च । उक्तं च कात्यायनेन- 'न्याय्यं स्वं नेच्छते कर्तुमन्याय्यं वा करोति यः' इति । स पुनश्चाष्टादशधा भिद्यते । यथाह मनुः ( ८।४-७ ) - 'तेषामाद्यमृणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च ॥ वेतनस्यैव चाऽऽदानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः ॥ सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणमेव च ॥ स्त्रीपुंधर्मो विभागश्च द्यूतमाह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह ॥' इति ॥ १. न ब्राह्मणो दण्ड्य इति । २. राज्ञा बध्यश्चावध्यश्च । ३. वेदाङ्गवि- द्धाक्वेतिहास । ४. समयाचार ।
व्यवहाराध्यायः १६७ एतान्यपि साध्यभेदेन पुनर्बहुत्वं गतानि । यथाह नारदः ( १।२० )—‘एवमेव प्रभेदोऽन्यः शतमष्टोत्तरं भवेत् । क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ॥’ इति ॥ 'आवेदयति चेद्राज्ञे' इत्यनेन स्वयमेवागत्यावेदयति, न राजप्रेरितस्तत्पुरु- षप्रेरितो वेति दर्शयति । यथाह मनुः ( ८।४३ )—‘नोत्पादयेत्स्वयं कार्यं राजा वाप्यस्य पूरुषः । न च प्रापितमन्येन ग्रसेतार्थं कथंचन ॥’ इति ॥ परैरिति परेण पराभ्यां परैरित्येकस्यैकेन द्वाभ्यां बहुभिर्वा व्यवहारो भवतीति दर्शयति ॥ यत्पुनः—'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारद (कात्यायन ?) वचनं, तद्भिन्नसा- ध्यद्वयविषयम् । 'आवेदयति चेद्राज्ञे' इत्यनेनैव राज्ञा पृष्टो विनीतवेष आवेद्- येत् । आवेदितं च युक्तं चेन्मुद्रादिना प्रत्यर्थ्याह्वानमकल्पादीनां चानाह्वानमित्या- र्थसिद्धिमिति नोक्तम् । स्मृत्यन्तरे तु स्पष्टार्थमुक्तम् । यथा 'काले कार्यार्थिनं पृच्छेद् गृणन्तं पुरतः स्थितम् । किं कार्यं का च ते पीडा मा भैषीर्ब्रूहि मानव ॥ केन कस्मिन्कदा कस्मात्पृच्छेदेवं सभागतम् । एवं पृष्टः स यद्ब्रूयात्तत्सभ्यैर्ब्रा- ह्मणैः सह ॥ विमृश्य कार्यं न्याय्यं चेदाह्वानार्थमतः परम् । मुद्रां वा निक्षिपेत्त- स्मिन्पुरुषं वा समादिशेत् ॥ अकल्पबालस्थविरविषमस्थक्रियाकुलान् । कार्याति- पातिव्यसनिनृपकार्योत्सवाकुलान् । मत्तोन्मत्तप्रमत्तार्तभृत्यांश्चाह्वानयेन्नृपः ॥ न हीनपक्षां युवतिं कुले जातां प्रसूतिकाम् । सर्ववर्णोत्तमां कन्यां वा ज्ञातिप्रभुकाः स्मृताः ॥ तदधीनकुटुम्बिन्यः स्वैरिण्यो गणिकाश्च याः । निष्कुला याश्च पतिता- स्तासामाह्वानमिष्यते ॥ कालं देशं च विज्ञाय कार्याणां च बलाबले । अकल्पादी- नपि शनैःशनैराह्वानयेन्नृपः ॥ ज्ञात्वाभियोगं येऽपि स्युर्वने प्रव्रजितादयः । तान- प्याह्वानयेद्राजा गुरुकार्येष्वकोपयन् ॥' इति । आसेधव्यवस्थाप्यर्थसिद्धैव नारदेनोक्ता ( १।४७ ५३ )—‘वक्तव्येऽर्थे ह्यतिष्ठन्तमुत्क्रामन्तं च तद्वचः । आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ॥ स्थानासेधः कालकृतः प्रवासात्कर्मण- स्तथा । चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ॥ आसेधकाले आसिद्ध आसेधं योऽतिवर्तते । स विनेयोऽन्यथाकुर्वन्नासेद्धा दण्डभाग्भवेत् ॥ नदीसं- न्तारकान्तारदुद्देशोपप्लवादिषु । आसिद्धस्तं परासेधमुत्क्रामन्नापराध्नुयात् ॥ निर्वे- ष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथाऽन्येन राजकार्योद्यतस्तथा ॥ गवां प्रचारे गोपालाः सस्यावापे कृषीवलाः । शिल्पिनश्चापि तत्कालमायुधीयाश्च विग्रहे ॥’ इति । आसेधो राजाज्ञयाऽवरोधः । अकल्पादयः पुत्रादिकमन्यं वा सुहृदं ³प्रेषयेयुः, नच ते परार्थवादिनः; 'यो न भ्राता न च पिता न पुत्रो न १. स्मृतम् । २. पृच्छेत्प्रणतं । ३. प्रेषयन्ति, प्रेषयिष्यन्ति ।
१६८ याज्ञवल्क्यस्मृतिः नियोगकृत् । परार्थवादी दण्ड्यः स्याद्व्यवहारेषु विब्रुवन् ॥' (२।२३) इति नारदवचनात् ॥ ५ ॥ भाषा—यदि धर्मशास्त्र और समय के आचार के विरुद्ध ढंग से दूसरों द्वारा पीडित होकर राजा निवेदन करे तो वह व्यवहार का विषय होता है ॥ ५ ॥ प्रत्यर्थिनि मुद्रालेख्यपुरुषाणामन्यतमेनानीते किं कुर्यादित्यत आह— प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना । समामासतदर्द्धाहर्नामजात्यादिचिह्नितम् ॥ ६ ॥ अर्थ्यते इत्यर्थः साध्यः, सोऽस्यास्तीत्यर्थी; तत्प्रतिपक्षः प्रत्यर्थी, तस्याग्रतः पुरतो लेख्यं लेखनीयम् । यथा येन प्रकारेण पूर्वमावेदनकाले आवेदितं तथा, न पुनरन्यथा; अन्यथावादित्वेन व्यवहारस्य भङ्गप्रसङ्गात् ।—'अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः । 'आहूतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥' ( नारदः १।३३ ) इति । आवेदनकाल एवार्त्तिवचनस्य लिखितत्वात्पुनर्लेखन- मनर्थकमित्यत आह—समामासेत्यादि । संवत्सरमासपक्षतिथिवारादिना— अर्थिप्रत्यर्थिनामब्राह्मणजात्यादिचिह्नितम् । 'आदि' शब्देन द्रव्यतत्सङ्ख्यास्थान- वेलाक्षमालिङ्गादीनि गृह्यन्ते ॥ यथोक्तम्—'अर्थबद्धमसंयुक्तं परिपूर्णमनाकुलम् । साध्यवद्वाचकपदं प्रकृतार्थानुबन्धि च ॥ प्रसिद्धमविरुद्धं च निश्चितं साधनै- क्षमम् । संक्षिप्तं निखिलार्थं च देशकालाविरोधि च । वर्षर्तुमासपक्षाहोवेलादेश- प्रदेशवत् । स्थानावसथसाध्याख्याजात्याकारवयोयुतम् ॥ साध्यप्रमाणसंख्यावदा- त्मप्रत्यर्थिनामवत् । परात्मपूर्वजानेकराजनामभिरङ्कितम् ॥ क्षमालिङ्गारमपीडाव- स्कथिताहर्तृदायकम् । यदावेदयते राज्ञे तद्भाष्येत्यभिधीयते ॥' इति । भाषा 'प्रतिज्ञा' 'पक्ष' इति नार्थान्तरम् । आवेदनसमये कार्यमात्रं लिखितं प्रत्यर्थिनोऽग्रतः समा- मासादिविशिष्टं लिख्यत इति विशेषः । संवत्सरविशेषणं यद्यपि सर्वव्यवहारेषु नोपयुज्यते, तथाप्याधिप्रतिग्रहक्रयेषु निर्णयार्थमुपयुज्यते; आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' इति वचनात् । अर्थव्यवहारोऽपि एकस्मिन्संवत्सरे यत्सङ्ख्याकं यद्द्रव्यं यतो येन गृहीतं प्रत्यर्पितं च पुनरन्यस्मिन्वत्सरे तद्द्रव्यं तत्संख्याकं तत- स्तेन गृहीतं, याच्यमानो यदि ब्रूयात्सत्यं गृहीतं प्रत्यर्पितं चेति । वत्सरान्तरे गृहीतं प्रत्यर्पितं नास्मिन्वत्सरे इत्युपयुज्यते । एवं मासाद्यपि योज्यम् । देश- स्थानादयः पुनः स्थावरेष्वेवोपयुज्यन्ते—'देशश्चैव तथा स्थानं संनिवेशस्तथैव च। १. आहूतम्प्रपलापी । २. साधने क्षमम् । ३. नियतार्थं ।
जातिः संज्ञाऽधिवासश्च प्रमाणं क्षेत्रनाम च ॥ पितृपैतामहं चैव पूर्वराजाऽनुकीर्त- नम् । स्थावरेषु विवादेषु दशैतानि निवेशयेत् ॥ इति स्मरणात् । देशो मध्य- देशादिः । स्थानं वाराणस्यादि । संनिवेशः तत्रैव पूर्वापरदिग्विभागपरिच्छिन्नः सम्यङ्निवेशो गृहक्षेत्रादिः । जातिः अर्थिप्रत्यर्थिनोर्ब्राह्मणत्वादिः । संज्ञा च देव- दत्तादिः । अधिवासः समीपदेशनिवासी जनः । प्रमाणं निवर्तनादि भूपरिमाणम् । क्षेत्रनाम शालिक्षेत्रं क्रमुकक्षेत्रं कृष्णभूमः पाण्डुभूमः इति । पितुः पितामहस्य च नामार्थिप्रत्यर्थिनोः पूर्वेषां त्रयाणाम् । राज्ञां नामकीर्तनं चेति । समामासादीनां यस्मिन् व्यवहारे यावदुपयुज्यते तन्न तावल्लेखनीयमिति तात्पर्यार्थः । एवं पक्ष- लक्षणे स्थिते पक्षलक्षणरहितानां पक्षवदवभासमानानां पक्षाभासत्वं सिद्धमेवेति योगीश्वरेण न पृथक्पक्षाभासा उक्ताः । अन्यैस्तु विस्पष्टार्थमुक्ताः । — अप्रसिद्धं निराबाधं निरर्थं निष्प्रयोजनम् । असाध्यं वा विरुद्धं वा पक्षाभासं विवर्जयेत् ॥' इति । अप्रसिद्धं 'मदीयं शशविषाणं गृहीत्वा न प्रयच्छति' इत्यादि । निराबाधं अस्मद्गृहदीपप्रकाशेनायं स्वगृहे व्यवहरतीत्यादि । निरर्थं अभिधेयरहितं कच- टतपगजडदबेत्यादि । निष्प्रयोजनं यथा-अयं देवदत्तोऽस्मद्गृहसंनिधौ सुस्वरम- धीतेत्यादि । असाध्यं यथा-अहं देवदत्तेन सभ्रूभङ्गमुपहसित इत्यादि । एतत्त्सा- धनासंभवात्साध्यम् । अल्पकालत्वान्न साक्षिसंभवो लिखितं दूरतोऽपस्थाच्च दिव्यमिति । विरुद्धं यथाऽहं मूकेन शप्त इत्यादि । पुरराष्ट्रादिविरुद्धं वा—'राज्ञा विवर्जितो यश्च यश्च पौरविरोधकृत् । राष्ट्रस्य वा समस्तस्य प्रकृतीनां तथैव च ॥ अन्ये वा ये पुरग्राममहाजनविरोधकाः । अनादेयास्तु ते सर्वे व्यवहाराः प्रकी- र्तिताः ॥' इति ॥ यत्तु—'अनेकपदसंकीर्णः पूर्वपक्षो न सिद्ध्यति' इति, तन्न यद्यनेकवस्तुसंकीर्ण इत्युच्यते, तदा न दोषः; मदीयमनेन हिरण्यं वासो रूप- कादि वाऽपहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानादिपदसंकरे पक्षाभास इति चेत्तदपि न । मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णं चास्य हस्ते निक्षि- प्तम् , मदीयं क्षेत्रमयमपहरतीत्यादीनां पक्षत्वमिष्यत एव । किंतु क्रियाभेदात्क्र- मेण व्यवहारो न युगपदित्येतावत् ॥ तथाह कात्यायनः—'बहुप्रतिज्ञं यत्कार्यं व्यवहारे सुनिश्चितम् । कामं तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सया ॥' इति तस्मा- दनेकपदसंकीर्णः पूर्वपक्षो युगपन्न सिद्ध्यतीति तस्यार्थः । अर्थिग्रहणात्पुत्रपित्रादि- ग्रहणं तेषामेकार्थत्वात् । नियुक्तस्यापि नियोगेनैव तदेकार्थत्वात्क्षेपात् ॥ —'अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा । यो यस्यार्थे विवदते तयोर्जय- पराजयौ ॥' इति स्मरणात् नियुक्तजयपराजयौ मूलस्वामिनोरेव । एतच्च भूमौ फलके वा पाण्डुलेखेन लिखित्वा आवापोद्धारेण विशोधितं पश्चात्पत्रे निवेशयेत् ।
पादटिप्पणी: १. पुत्रपौत्रादीनां ।
१७० याज्ञवल्क्यस्मृतिः पूर्वपक्षं स्वभावोक्तं प्राड्विवाकोऽभिलेषयेत् । पाण्डुलेखेन फलके ततः पत्रे विशोधितम् ॥' इति कात्यायनस्मरणात् । शोधनं च यावदुत्तरदर्शनं कर्तव्यं नातः परम् । अनवस्थाप्रसङ्गात् । अतएव नारदेनोक्तम्—'शोधयेत्पूर्ववादं तु यावन्नोत्तरदर्शनम् । अवष्टब्धस्योत्तरेण निवृत्तं शोधनं भवेत् ॥' इति । पूर्वपक्षम्- अशोधयित्वैव यदोत्तरं दापयन्ति सभ्यास्तदा 'रागाल्लोभात्' इत्युक्तदण्डेन सभ्यान्दण्डयित्वा पुनः प्रतिज्ञापूर्वकं व्यवहारः प्रवर्तनीयो राज्ञेति ॥ ६ ॥ भाषा—पहले प्रत्यर्थी, (प्रतिपक्षी, प्रतिवादी या मुद्दई) के विषय में अर्थी (वादी, मुद्दालह) द्वारा पहले बताया गया (अभियोग) लिखे, और उसके आगे वर्ष, मास, पक्ष, दिन, नाम और जाति आदि अङ्कित करे ॥ ६ ॥ एवं शोधितपत्रारूढे पूर्वपक्षे किं कर्तव्यमित्यत आह— श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । श्रुतो भाषार्थो येन प्रत्यर्थिनाऽसौ श्रुतार्थः, तस्योत्तरं पूर्वपक्षादुत्तरत्र भवतीत्युत्तरं लेख्यं लेखनीयम् । पूर्वावेदकस्यार्थिनः संनिधौ समीपे उत्तरं च यत्पूर्वोक्तस्य निराकरणं तदुच्यते । यथाह—'पक्षस्य व्यापकं सारमसंदिग्धमना- कुलम् । अव्याख्यागम्यमित्येतदुत्तरं तद्विदो विदुः ॥' इति पक्षस्य व्यापकं निराकरणसमर्थम् । सारं न्याय्यं न्यायादनपेतम् । असंदिग्धं संदेहरहितम् । अनाकुलं पूर्वापरविरुद्धम् । अव्याख्यागम्यं अप्रसिद्धपदप्रयोगेण दुःश्लिष्ट- विभक्तिसमासाध्याहाराभिधानेन वा अन्यदेशभाषाभिधानेन वा यद् व्याख्येयार्थं न भवति तत्सदुत्तरम् ॥ तच्च चतुर्विधम्—संप्रतिपत्तिः, मिथ्या, प्रत्यवस्कन्दनं पूर्व- न्यायश्चेति । यथाह कात्यायनः—'सत्यं मिथ्योत्तरं चैव प्रत्यवस्कन्दनं तथा । पूर्व- न्यायविधिश्चैवमुत्तरं स्याच्चतुर्विधम् ॥' इति । तत्र सत्योत्तरं यथा—'रूपकशतं मह्यं धारयति' इत्युक्ते 'सत्यं धारयामि' इति । यथाह—'साध्यस्य सत्यवचनं प्रतिपत्तिरुदाहृता' इति । मिथ्योत्तरं तु नाहं धारयामीति । तथा च कात्यायनः— 'अभियुक्तोऽभियोगंस्य यदि कुर्यादपह्नवम् । मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥' इति ॥ तच्च मिथ्योत्तरं चतुर्विधम्—'मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः । अजातश्चास्मि तत्काल इति मिथ्या चतुर्विधम् ॥' इति । प्रत्यवस्कन्दनं नाम 'सत्यं गृहीतं प्रतिदत्तं प्रतिग्रहेण लब्धम्' इति वा । यथाह नारदः—'अर्थिना लिखितो योऽर्थः प्रत्यर्थी यदि तं तथा । प्रपद्य कारणं ब्रूयात्- प्रत्यवस्कन्दनं स्मृतम् ॥' इति । प्राङ्न्यायोत्तरं तु यत्राभियुक्त एवं ब्रूयात् 'अस्मिन्नर्थेऽनेनाहमभियुक्तस्तत्र चायं व्यवहारमार्गेण पराजितः' इति । उक्तं १. अभियुक्तस्य ।
व्यवहाराध्यायः १७१
च कात्यायनेन — 'आचारेणावसन्नोऽपि पुनर्लेखयते यदि । सोऽभिधेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥' इति । एवमुत्तरलक्षणे स्थिते उत्तरलक्षणरहिता- नामुत्तरवदवभासमानानामुत्तराभासत्वमर्थसिद्धम् । स्पष्टीकृतं च स्मृत्यन्तरे — 'संदिग्धमन्यत्प्रकृतादत्यल्पमतिभूरि च । पक्षैकदेशव्याप्यन्यत्तथा नैवोत्तरं भवेत् ॥ यद्व्यस्तपदमव्यापि निगूढार्थं तथाकुलम् । व्याख्यागम्यमसारं च नोत्तरं स्वार्थसिद्धये ॥ इति । तत्र संदिग्धं—'सुवर्णशतमनेन गृहीत'मित्युक्ते 'सत्यं गृहीतं सुवर्णशतं माषशतं वे'ति । प्रकृतादन्यद्यथा—'सुवर्णशताभियोगे पणशतं धारयामी'ति । अत्यल्पं—'सुवर्णशताभियोगे पणशतं धारयामी'ति । अति- भूरि—'सुवर्णशताभियोगे द्विशतं धारयामी'ति । पक्षैकदेशव्यापि—'हिरण्य- वस्त्राद्यभियोगे हिरण्यं गृहीतं नान्यदि'ति । व्यस्तपदं—ऋणादानाभियोगे पदान्तरेणोत्तरम्, यथा 'सुवर्णशताभियोगे अनेनाहं ताडितः' इति । अव्यापि— देशस्थानादिविशेषणाव्यापि यथा—'मध्यदेशे वाराणस्यां पूर्वस्यां दिशि क्षेत्रमनेनापहृत'मिति पूर्वपक्षे लिखिते, 'क्षेत्रमपहृतमि'ति । निगूढार्थं यथा— 'सुवर्णशताभियोगे किमहमेवास्मै धारयामी'त्यत्र ध्वनिना प्राड्विवाकः सभ्यो वा अर्थी वा अन्यस्मै धारयतीति सूचयतीति निगूढार्थम् । आकुलं पूर्वापरविरुद्धं यथा—'सुवर्णशताभियोगे कृते, सत्यं गृहीतं न धारयामी'ति । व्याख्यागम्यं— दुःश्लिष्टविभक्तिसमाससाध्याहाराभिधानेन व्याख्यागम्यम्, अदेशभाषाभिधानेन वा । यथा—'सुवर्णशतविषये पितृऋणाभियोगे, 'गृहीतशतवचनात् सुवर्णानां पितुर्न जानामी'ति । अत्र गृहीतशतस्य पितुर्वचनात् 'सुवर्णानां शतं गृहीत- मि'ति न जानामीति । असारं—न्यायविरुद्धं, यथा 'सुवर्णशतमनेन वृद्ध्या गृहीतं वृद्धिरेव दत्ता न मूल'मित्यभियोगे, 'सत्यं वृद्धिर्दत्ता न मूलं गृहीत' मिति । उत्तरमित्येकवचननिर्देशादुत्तराणां संकरो निरस्तः । यथाह कात्यायनः— 'पक्षैकदेशे यत्सत्यमेकदेशे च कारणम् । मिथ्या चैवैकदेशे च संकरात्तदनुत्तरम् ॥' इति । अनुत्तरत्वे च कारणं तेनैवोक्तम्—'न चैकस्मिन्विवादे तु क्रिया स्याद्वादिनोर्द्वयोः । न चार्थसिद्धिरुभयोर्न चैकत्र क्रियाद्वयम् ॥' इति । मिथ्याकारणोत्तरयोः संकरे अर्थिप्रत्यर्थिनोर्द्वयोरपि क्रिया प्राप्नोति—'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि' इति स्मरणात् । तदुभयमेकस्मिन्व्यवहारे विरुद्धम् । यथा—'सुवर्णं रूपकशतं चानेन गृहीत'मित्यभियोगे, 'सुवर्णं न गृहीतं, रूपकशतं गृहीतं प्रतिदत्तं चे'ति । कारणप्राङ्न्यायसंकरे तु प्रत्यर्थिन एव क्रियाद्वयम्—'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम्' इति । तथा सुवर्णं गृहीतं प्रतिदत्तं,—रूपके व्यवहारमार्गेण पराजितः' इति । अत्र च प्राङ्-
१. रूपकशते ।
न्याये जयपत्रेण वा प्राङ्न्यायदर्शिभिर्वा भावियतव्यम्, कारणोक्तौ तु साक्षिलेख्यादिभिर्भावितव्यमिति विशेषः । एवमुत्तरत्रयसंकरेऽपि द्रष्टव्यम् । यथा—'अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानी'त्यभियोगे, 'सत्यं सुवर्णं गृहीतं प्रतिदत्तं रूपकशतं न गृहीतं, वस्त्रविषये तु पूर्वन्यायेन पराजितः' इति । एवं चतुः- संकरेऽपि । एतेषां चानुत्तरत्वं यौगपद्येन तस्य तस्यांशस्य तेन तेन विनाऽसिद्धेः क्रमेणोत्तरत्वमेव । क्रमश्चार्थिनः प्रत्यर्थिनः सभ्यानां चेच्छया भवति । यत्र पुनरुभयोः संकरे तत्र यस्य प्रभूतार्थविषयत्वं तत्क्रियोपादानेन पूर्वं व्यवहारः प्रवर्त्तयितव्यः, पश्चादल्पविषयोत्तरोपादानेन च व्यवहारो द्रष्टव्यः । यत्र तु संप्रतिपत्तेरुत्तरान्तरस्य च संकरस्तत्रोत्तरान्तरोपादानेन व्यवहारो द्रष्टव्यः । संप्रतिपत्तौ क्रियाभावात् ॥ यथा हारीतेन—'मिथ्योत्तरं कारणं च स्यातामेकत्र चेदुभे । सत्यं चापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ॥' इत्युक्त्वोक्तम्—'यत्प्रभू- तार्थविषयं यत्र वा स्यात्क्रियाफलम् । उत्तरं तत्र तज्ज्ञेयमसंकीर्णमतोऽन्यथा ॥' संकीर्णं भवतीति शेषः । शेषोपेक्षया ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभूतार्थं यथा—'अनेन सुवर्णं रूपकशतं वस्त्राणि च गृहीतानी'त्यभियोगे; 'सत्यम् , सुवर्णं रूपकशतं च न गृहीतं, वस्त्राणि तु गृहीतानि प्रतिदत्तानि चे'ति । अत्र मिथ्योत्तरस्य प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः पश्चाद्वस्त्रविषयो व्यवहारः । एवं मिथ्याप्राङ्न्यायसंकरे कारणप्राङ्न्यायसंकरे च योजनीयम् । तथा तस्मिन्नेवाभियोगे, 'सत्यं सुवर्णं रूपकशतं च गृहीतं प्रति दास्यामि, वस्त्राणि तु न गृहीतानि, गृहीतानि प्रतिदत्तानी'ति वा वस्त्रविषये पूर्वं पराजित इति चोत्तरे संप्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियाभावान्मिथ्या- युत्तरक्रियामादाय व्यवहारः प्रवर्त्तयितव्यः । यत्र तु मिथ्याकारणोत्तरयोः कृत्स्न- पक्षव्यापित्वं यथा—शृङ्गग्राहिकतया कश्चिद्वदति 'इयं गौर्मदीया अमुकस्मिन्काले नष्टा, अद्यास्य गृहे दृष्टे'ति । अन्यस्तु 'मिथ्यैतत्, प्रदर्शितकालात्पूर्वमेवास्म- द्गृहे स्थिता मम गृहे जाता वे'ति वदति । इदं तावत्पक्षनिराकरणसमर्थत्वात्ता- वुत्तरम् । नापि मिथ्यैव; कारणोपन्यासात् । नापि कारणम् ; एकदेशस्याप्य- भ्युपगमाभावात् । तस्मात्सकारणं मिथ्योत्तरमिदम्—अत्र च प्रतिवादिनः क्रिया, 'कारणे प्रतिवादिनि' इति वचनात् ॥ ननु 'मिथ्या क्रिया पूर्ववादे' इति पूर्ववा- दिनः कस्मात्क्रिया न भवति ? तस्य शुद्धमिथ्याविषयत्वात् । 'कारणे प्रति- वादिनी'त्येतदपि कस्माच्छुद्धकारणविषयं न भवति । नैतत्; सर्वस्यापि कारणो- त्तरस्य मिथ्यासहचरितरूपत्वाच्छुद्धकारणोत्तरस्याभावात् ॥ प्रसिद्धकारणोत्तरे
१. कारणोत्तरे तु । २. प्रतिदास्यामि । ३. ऐच्छिकक्रममपेक्ष्याक्रमं भवतीत्यर्थः । ४. ऐच्छिकः क्रमो भवतीत्यर्थः । ५. एतत्प्रदर्शित ।
व्यवहाराध्यायः १७३
प्रतिज्ञातार्थैकदेशस्याप्यभ्युपगमैनैकदेशस्य मिथ्यात्वम्—यथा ‘सत्यं रूपकशतं गृहीतं न धारयामि, प्रतिदत्तत्वादिति । प्रकृतोदाहरणे तु प्रतिज्ञातार्थैकदेश- स्याप्यभ्युपगमो नास्तीति विशेषः ॥ एतच्च हारीतेन स्पष्टमुक्तम्—'मिथ्या- कारणयोर्वापि ग्राह्यं कारणमुत्तरम्' इति । यत्र मिथ्याप्राङ्न्याययोः पक्षव्यापित्वं यथा—'रूपकशतं धारयती'त्यभियोगे, 'मिथ्यैतदस्मिन्नर्थे पूर्वमयं पराजितः' इति । अत्रापि प्रतिवादिन एव क्रिया; 'प्राङ्न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशे- त्क्रियाम्' इति वचनात् , शुद्धस्य प्राङ्न्यायस्याभावादनुत्तरत्वप्रसङ्गात्, संप्रति- पत्तेरपि साध्यत्वेनोपदिष्टस्य पक्षस्य सिद्धत्वोपन्यासेन साध्यत्वनिराकरणा- देवोत्तरत्वम् । यदा तु कारणप्राङ्न्यायसंकरः यथा—'शतमनेन गृहीत'मित्य- भियुक्तः प्रतिवदति 'सत्यं गृहीतं प्रतिदत्तं चेत्यस्मिन्नेवार्थे प्राङ्न्यायेनायं पराजितः' इति । तत्र प्रतिवादिनो यथारुचीति न क्वचिद्वादिप्रतिवादिनोरेक- स्मिन्व्यवहारे क्रियाद्वयप्रसङ्ग इति निर्णयः ॥
एवमुत्तरे पत्रे निवेशिते साध्यसिद्धेः साधनायत्तत्वात्साधननिर्देशं कः कुर्या- दित्यपेक्षित आह—
ततोऽर्थी लेखयेत् सद्यः प्रतिज्ञातार्थसाधनम् ॥ ७ ॥
तत उत्तरानन्तरम् , अर्थी साध्यवान् सद्य एवानन्तरमेव प्रतिज्ञातार्थ- साधनं लेखयेत् । प्रतिज्ञातः साध्यः स चासावर्थश्चेति प्रतिज्ञातार्थः तस्य साधनं साध्यतेऽनेनेति साधनं प्रमाणम् । अत्र 'सद्यो लेखयेत्' इति वदतोत्तराभिधाने कालविलम्बनमप्यङ्गीकृतमिति गम्यते । तच्चोत्तरत्र विवेचयिष्यते । अर्थी प्रतिज्ञातार्थसाधनं लेखयेदिति वदता यस्य साध्यमस्ति स प्रतिज्ञातार्थसाधनं लेखयेदित्युक्तं, अतश्च प्राङ्न्यायोत्तरे प्राङ्न्यायस्यैव साध्यत्वात्प्रत्यर्थ्येवार्थी जात इति स एव साधनं लेखयेत् । कारणोत्तरेऽपि कारणस्यैव साध्यत्वात्कारण- वाद्येवार्थीति स एव लेखयेत् । मिथ्योत्तरे तु पूर्ववाद्येवार्थी स एव साधनं निर्दिशेत् । ततोऽर्थी लेखयेदिति वदता अर्थ्येव लेखयेन्नान्य इत्युक्तम् । अतश्च संप्रतिपत्त्युत्तरे साध्याभावेन भाषोत्तरवादिनोर्द्वयोरप्यर्थित्वाभावात्साधननिर्देश एव नास्तीति तावतैव व्यवहारः परिसमाप्यत इति गम्यते । एतदेव हारीतेन स्पष्टमुक्तम्—'प्राङ् न्यायकारणोक्तौ तु प्रत्यर्थी निर्दिशेत्क्रियाम् । मिथोक्तौ पूर्ववादी तु प्रतिपत्तौ न सा भवेत् ॥' इति ॥ ७ ॥
भाषा—प्रत्यर्थी द्वारा सुनी हुई बात और उसका उत्तर अर्थी की उपस्थिति में लिखावे । (उत्तर के बाद) अर्थी अभियोग को सिद्ध करने वाला प्रमाण तत्काल लिखावे ॥ ७ ॥
१७४ याज्ञवल्क्यस्मृतिः ततः किमित्यत आह— तत्सिद्धौ सिद्धिमवाप्नोति विपरीतमतोऽन्यथा। तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखितसाक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जयलक्षणां प्राप्नोति । अतोऽस्मात्प्रकारादन्यथा प्रका- रान्तरेण साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणमाप्नोतीति संबन्धः ॥ एवं व्यवहाररूपमभिधायोपसंहरति— चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः ॥ ८ ॥ 'व्यवहारान्नृपः पश्येत्' (व्य० १) इत्युक्तो व्यवहारः सोऽयमित्थं चतु- ष्पाच्चतुरंशकल्पनया विवादेषु ऋणादानादिषूपदर्शितो वर्णितः । तत्र 'प्रत्यर्थि- नोऽग्रतो लेख्यं' इति भाषापादः प्रथमः । 'श्रुतार्थस्योत्तरं लेख्यम्' इत्युत्तरपादो द्वितीयः । ततः 'अर्थी लेखयेत्सद्यः' इति क्रियापादस्तृतीयः । 'तत्सिद्धौ सिद्धिम- प्नोति' इति साध्यसिद्धिपादश्चतुर्थः । यथोक्तम्—'परस्परं मनुष्याणां स्वार्थवि- प्रतिपत्तिषु । वाक्यन्यायाद्व्यवस्थानं व्यवहार उदाहृतः ॥ भाषोत्तरक्रियासाध्य- सिद्धिभिः क्रमवृत्तिभिः । आक्षिप्तचतुरंशस्तु चतुष्पादभिधीयते ॥' इति । संप्रति- पत्त्युत्तरे तु साधनानिर्देशाद्भाषार्थस्यासाध्यत्वाच्च न साध्यसिद्धिलक्षणः पादोऽ- स्तीति द्विपात्त्वमेव । उत्तराभिधानानन्तरं सभ्यानामर्थिप्रत्यर्थिनोः कस्य क्रिया स्यादिति परामर्श लक्षणस्य प्रत्याकलितस्य योगीश्वरेण व्यवहारपादत्वेनानभि- धानाद् व्यवहर्तृसंबन्धाभावाच्च न व्यवहारपादत्वमिति स्थितम् ॥ ८ ॥ भाषा—उस साधन या प्रमाण की सिद्धि होने पर वह विजयी होता है, अन्यथा हार जाता है। यह व्यवहार चतुष्पद (पूर्वोक्त चार स्तर वाला) होता है जो ऋणदान आदि के विवादों में प्रदर्शित किया गया है ॥८॥ इति साधारणव्यवहारमातृकाप्रकरणम् । असाधारणव्यवहारमातृकाप्रकरणम् एवं सर्वव्यवहारोपयोगिनीं व्यवहारमातृकामभिधायाधुना कचिद्व्यवहार- विशेषे कंचिद्विशेषं दर्शयितुमाह— अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । १. इति व्यवहारमातृकप्राकरणम् । २. साधारणासाधारणव्यवहार ।
व्यवहाराध्यायः १७५ अभियुक्त इति अभियोगोऽपराधः तमभियोगमनिस्तीर्यापरिहृत्य एनम- भियोक्तारं न प्रत्यभियोजयेत् अपराधेन न संयोजयेत् । यद्यपि प्रत्यवस्कन्दनं प्रत्यभियोगरूपं तथापि स्वापराधपरिहारात्मकत्वान्नास्य प्रतिषेधविषयत्वम् । अतः स्वाभियोगानुपमर्दनरूपस्य प्रत्यभियोगस्यायं निषेधः । इदं प्रत्यर्थिनम- धिकृत्योक्तम् ॥- अथ अर्थिनं प्रत्याह- अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् ॥ ९ ॥ अभियुक्तं च नान्येनेति । अन्येनाभियुक्तमनिस्तीर्णाभियोगमन्योऽर्थी नाभियोजयेत् । किं च, उक्तमावेदनसमये यदुक्तं तद्विप्रकृतिं विरुद्धभावं न नयेत् न प्रापयेत् । एतदुक्तं भवति-यद्वस्तु येन रूपेणावेदनसमये निवेदितं तद्वस्तु तथैव भाषाकालेऽपि लेखनीयं, नान्यथेति ॥ ननु 'प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिना' ( व्य० ६ ) इत्यत्रैवेदमुकं, किमर्थं पुनरुच्यते 'नोक्तं विप्रकृतिं नयेत्' इति ? उच्यते, - 'यथावेदितमर्थिना' ( व्य० ६ ) इत्यनेनाऽऽवेदनसमये यद्वस्तु निवेदितं तदेव भाषासमयेऽपि तथैव लेखनीयम् । एकस्मिन्नपि पदे न वस्त्वन्तरमित्युक्तम् । यथा- 'अनेन रूपकशतं वृद्ध्या गृहीतम्' इत्यावेदनसमये प्रतिपाद्य प्रत्यर्थिसंनिधौ भाषासमये 'वस्त्रशतं वृद्ध्या गृहीतम्' इति न वक्तव्यम् । तथा सति पदान्तरागमनेऽपि वस्त्वन्तरगमनाद्धीनवादी दण्ड्यः स्यादिति 'नोक्तं विप्रकृतिं नयेत्' इत्यनेनैकवस्तुत्वेऽपि पदान्तरगमनं निषिद्धयते । यथा 'रूपकशतं वृद्ध्या गृहीत्वाऽयं न प्रयच्छति' इत्यावेदनकालेऽभिधाय भाषाकाले 'रूपकशतं बलादपहृतवान्' इति वदतीति । तत्र वस्त्वन्तरगमनं निषिद्धम् , इह तु पदान्तरगमनं निषिद्धयत इति न पौनरुक्त्यम् । एतदेव स्पष्टीकृतं नारदेन- 'पूर्वपादं परित्यज्य योऽन्यमालम्बते पुनः । पदसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ॥' इति । हीनवादी दण्डयो भवति, न प्रकृतार्थाद्धीयते । अतः प्रत्यर्थिनोऽर्थिनश्च प्रमादपरिहारार्थमेवायम् 'अभियोगमनिस्तीर्य' इत्याद्यु- पदेशो न प्रकृतार्थसिद्धयसिद्विविषयः । अत एव वक्ष्यति ( व्य० १९ ) 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' इति । एतच्चार्थव्यवहारे द्रष्टव्यम् । मन्युकृते तु व्यवहारे प्रमादाभिधाने प्रकृतादपि व्यवहाराद्धीयत एव । यथाह नारदः- 'सर्वेष्वर्थविवादेषु वाक्छले नावसीदति । परस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ॥' इति । अस्यार्थः- सर्वेष्वर्थविवादेषु न मन्युकृतेषु वाक्छले प्रमादा- भिधानेऽपि नावसीदति न पराजीयते । न प्रकृतार्थाद्धीयत इत्यर्थः । अत्रोदा- हरणं परस्त्रीत्यादि । परस्त्रीभूम्यृणादाने प्रमादाभिधानेन दण्ड्योऽपि यथा प्रकृता-
१७६ याज्ञवल्क्यस्मृतिः दर्थाच्च हीयते, एवं सर्वेष्वर्थविवादेष्विति । अर्थविवादग्रहणाम्मन्युक्तविवादेषु प्रमादाभिधाने प्रकृतादप्यर्थाद्धीयत इति गम्यते । यथा—'अहमनेन शिरसि पादेन ताडित' इत्यावेदनसमयेऽभिधाय भाषाकाले 'पादेन हस्ते ताडित' इति वदन्न केवलं दण्ड्यः । पराजीयते च ॥ ९ ॥ भाषा—अभियोग (अपराध) का उत्तर दिये विना अभियोग करने वाले पर उलटा अभियोग न करे । जिस पर किसी दूसरे ने अभियोग किया हो उस पर अभियोग न करे और न कही हुई बात को बाद में बदले ॥ ९ ॥ 'अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत्' (व्य० ९) इत्यस्यापवादमाह— कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । कलहे वाग्दण्डपारुष्यात्मके साहसेषु विषशस्त्रादिनिमित्तप्राणव्यापादना- दिषु प्रत्यभियोगसंभवे स्वाभियोगमनिस्तीर्याप्यभियोक्तारं प्रत्यभियोजयत् । नन्वत्रापि पूर्वपक्षानुपमर्दनरूपत्वेनानुत्तरत्वात्प्रत्यभियोगस्य प्रतिज्ञान्तरत्वे युग- पद्यवहारासंभवः समानः । सत्यम् । नात्र युगपद्व्यवहाराय प्रत्यभियोगोपदेशः, अपि तु न्यूनदण्डप्राप्तये अधिकदण्डनिवृत्तये वा । तथा हि—'अनेनाहं ताडितः शप्तो वा' इत्यभियोगे, 'पूर्वमहमनेन ताडितः शप्तो वा' इति प्रत्यभियोगे दण्डा- ल्पत्वम् । यथाह नारदः (१५।९) 'पूर्वमाचारयेद्यस्तु नियतं स्यात्स दोषभाक् । पश्चात्तु सोऽप्यसत्कारी पूर्वे तु विनयो गुरुः ॥' इति । यदा पुनर्द्वयोर्युगपत्ताडना- दिप्रवृत्तिस्तत्राधिकदण्डनिवृत्तिः—'पारुष्ये साहसे चापि युगपत्संप्रवृत्तयोः । विशेषश्चेन्न लभ्येत विनयः स्यात्समस्तयोः ॥' इति । एवं युगपद्व्यवहारप्रवृत्त्य- संभवेऽपि कलहादौ प्रत्यभियोगोऽर्थवान्ऋणादानादिषु तु निरर्थक एव ॥ अर्थिप्रत्यर्थिनोर्विधिमुक्त्वा ससभ्यस्य सभापतेः कर्तव्यमाह— उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये ॥ १० ॥ उभयोरर्थिप्रत्यर्थिनोः सर्वेषु विवादेषु निर्णयस्य कार्यं कार्यनिर्णयः । आहिताग्न्यादिषु पाठात्कार्यशब्दस्य पूर्वनिपातः । निर्णयस्य च यत्कार्यं साधि- तधनदानं दण्डदानं च तस्मिन्समर्थः प्रतिभूः प्रतिभवति तत्कार्यं तद्भवतीतिति प्रतिभूर्ग्राह्यः ससभ्येन सभापतिना । तस्यासंभवेऽर्थिप्रत्यर्थिनौ रक्षणे पुरुषा नियोक्तव्याः । तेभ्यश्च ताभ्यां प्रतिदिनं वेतनं देयम् । यथाह कात्यायनः— 'अथ चेत्प्रतिभूर्नास्ति कार्ययोग्यस्तु वादिनः । स रक्षितो दिनस्यान्ते दद्याद्- भृत्याय वेतनम् ॥' इति ॥ १० ॥ १. वदन्केवलं । २. एवं सति । ३. निर्णयस्य कार्यं च ।
[व्यवस्था / शीर्षभाग] व्यवहाराध्यायः १७७
[मूल पाठ] भाषा—किन्तु कलह और साहस के अपराध में अभियोग करने वाले पर भी अभियोग चला सकता है । दोनों कार्य के निर्णय ( या निर्णय के कार्य ) में समर्थ प्रतिभू ( जमानतदार ) लेना चाहिए ॥ १० ॥ अर्थिप्रत्यर्थिनोर्निर्णयकार्ये ससभ्येन सभापतिना प्रतिभूर्ग्राह्य इत्युक्तम्, किं तन्निर्णयकार्यं यस्मिन्प्रतिभूर्गृह्यत इत्यपेक्षित आह— निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणमभियोगाद्धनं वहेत् ॥ ११ ॥ अर्थिना निवेदितस्याभियोगस्य प्रत्यर्थिनाऽपह्नवे कृते यदाऽर्थिना साक्ष्या- दिभिर्भावितोऽङ्गीकारितः प्रत्यर्थी तदा दद्याद्धनं प्रकृतमर्थिने राज्ञे च तत्सम- मपलापदण्डम् । अथार्थी भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी जात इत्यभियोगादभियुक्तधनाद् द्विगुणं धनं दद्यात् राज्ञे । प्राङ्न्याये प्रत्य- वस्कन्दने चेदमेव योजनीयम् । तत्रार्थ्यैवाऽपह्नववादी प्रत्यर्थिना भावितो राज्ञे प्रकृतधनसमं दण्डं दद्यात् । अथ प्रत्यर्थी प्राङ्न्यायं कारणं वा भावयितुं न शक्नोति तदा स एव मिथ्याभियोगीति राज्ञे द्विगुणं धनं दद्यात् । अर्थिने च प्रकृतं धनम् । संप्रतिपत्त्युत्तरे तु दण्डाभाव एव । एतच्च ऋणादानविषयमेव । पदा- न्तरेषु तत्र तत्र दण्डाभिधानादधनव्यवहारेष्वस्यासंभवाच्च न सर्वविषयत्वम् । 'राज्ञाऽधमर्णिको दाप्यः' (व्य० ४२) इत्यस्य ऋणादानविषयत्वेऽपि तत्रैव विशेषं वक्ष्यामः । यद्वा, —एतदेव सर्वव्यवहारविषयत्वेनापि योजनीयम् । कथम् ? अभियोगस्य निह्नवेऽभियुक्तेन कृते यद्यभियोक्त्रा साक्ष्यादिभिर्भावितोऽभियुक्त- स्तदा तत्समं तत्र तत्र प्रतिपदोक्तमेव । च-शब्दोऽवधारणे । धनं दण्डं दद्याद्राज्ञ इत्यनुवादः । अथामियोक्ता अभियोगं भावयितुं न शक्नोति तदा मिथ्याभियो- गीति प्रतिपदोक्तं धनं दण्डं द्विगुणं दद्यादिति विधीयते । अत्रापि प्राङ्न्याये प्रत्यवस्कन्दने च पूर्ववदेव योजनीयम् ॥ ११ ॥ भाषा—अर्थी द्वारा लगाये गये अभियोग का निह्नव ( छिपाने या अस्वीकार ) करने पर प्रत्यर्थी ( उस वाद के मूल्य के ) समान धन राजा को दण्डस्वरूप देवे । और झूठा अभियोग चलाने वाला अभियोग के मूल्य से दूना धन देवे ॥ ११ ॥
[पाद-टिप्पणी] १. प्रतिभूर्ग्राह्य इत्यत आह । २. धनं दद्याद्राज्ञे । ३. तत्राप्यर्थेऽपह्नव- वादी प्रत्य । ४. वक्तुं ।
१७८ याज्ञवल्क्यस्मृतिः ततः 'अर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इति वदतोत्तरपाद- लेखने कालप्रतीक्षणं दर्शितं तत्रापवादमाह— साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ ॥ साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि, स्तेयं चौर्यम्, पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम्, गौर्दोग्ध्री, अभिशापः पातकाभियोगः, अत्ययः प्राणधनातिपातस्तस्मिन्, द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे, दास्यां स्वत्वविवादे, विवादयेत् उत्तरं दाप- येत्, सद्य एव, न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु, काल उत्तरदानकालः, इच्छयाऽर्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ १२ ॥ भाषा—साहस (विष, शस्त्र आदि से प्राण लेना), चोरी, कठोर भाषण, दूध वाली गौ के महापातक, प्राण और धन का नाश तथा स्त्रियों के (हरण या चरित्रविषयक) विवादों में तत्काल उत्तर देना चाहिए । अन्य विवादों में इच्छानुसार समय बताया गया है ॥ १२ ॥ दुष्टलक्षणमाह— देशाद् देशान्तरं याति सृक्किणी परिलेढि च । ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ १३ ॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥ १४ ॥ स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः । अभियोगेऽर्थे साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ ॥ मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृतिं विकारं याति गच्छति असावभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्शयति—देशाद्देशान्तरं याति न क्वचिदवतिष्ठते । सृक्किणी ओष्ठपर्यन्तौ परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदबिन्दूङ्कितं भवति, मुखं च वैवर्ण्यं विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सद्गद्गदं स्खलद्वयत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूज- यति, चक्षुर्वा प्रतीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् । तथा १. योगे च । २. य वा साध्ये । ३. बिन्दुचितं ।
व्यवहाराध्यायः १७६ ओष्ठौ निर्भुजति वक्रयतीत्यपि कायस्य विकृतिः । एतच्च दोषसंभावनामात्र- मुच्यते, न दोषनिश्चयाय; स्वाभाविकनैमित्तिकविकारयोर्विवेकस्य १दुर्ज्ञेयत्वात् । अथ कश्चिन्निपुणमतिर्विवेकं प्रतिपद्येत, तथापि न पराजयनिमित्तं कार्यं भवति । नहि मरिष्यतो लिङ्गदर्शनेन मृतकार्यं कुर्वन्ति । एवमस्य पराजयो भविष्यतीति लिङ्गादवगतेऽपि न पराजयनिमित्तकार्यप्रसङ्गः ॥ १३-१५ ॥ भाषा—जो इधर-उधर घूमता रहता है ( एक स्थान पर स्थिर नहीं रहता ) ओठों को जीभ से चाटता है, ललाट से पसीना निकलता है, जिसके मुख का रंग उतरा रहता है । जिसका मुँह बोलते समय सूखने लगता है, रुक-रुक कर वाणी निकलती है, अपने विरुद्ध बहुत सी बातें कहता है ( पूर्व काल में कही हुई बात के विरोध में कह ले जाता है ) पूछने पर तत्काल उत्तर नहीं देता; देखने पर सामने आँख उठा कर नहीं देखता, ओठों को टेढ़ा करता रहता है ( काटा करता है ) मन, वाणी, शरीर और कर्म के स्वभाव से परिवर्तित हो गया हो—इस प्रकार के व्यक्ति अभियोग और साक्ष्य में दुष्ट कहे गये हैं ॥ १३-१५ ॥ संदिग्धार्थे स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । न चाहूतो वदेत्किञ्चिद्धीनो दण्ड्यश्च स स्मृतः ॥ १६ ॥ किंच, संदिग्धमर्थमधमर्णेनानङ्गीकृतमेव यः स्वतन्त्रः साधननिरपेक्षः साधयत्यासेधादिना स हीनो दण्ड्यश्च भवति । यश्च स्वयं संप्रतिपन्नं साधनेन वा साधितं याच्यमानो निष्पतेत् पलायेत, यश्चाभियुक्तो राज्ञा चाहूतः सदसि न किंचिद्वदति 'सोऽपि हीनो दण्ड्यश्च स्मृतः' इति संब- ध्यते । 'अभियोगे च साक्ष्ये वा दुष्टः स परिकीर्तितः' इति प्रस्तुतत्वाद्धीनपरि- ज्ञानमात्रमेव मा भूदिति 'दण्ड्य'ग्रहणम् । दण्ड्यस्य चापि 'शास्योऽप्यर्थाच्च हीयत' इत्यार्थाद्धीनत्वदर्शनात्तन्मा भूदिति 'हीन' ग्रहणम् ॥ १६ ॥ भाषा—जो सन्दिग्ध धन अपनी इच्छा से ( बिना किसी प्रमाण के ) लेना चाहे और जो व्यक्ति स्वयं स्वीकार किये गये या प्रमाणित हुए धन के माँगने पर भाग जाय, जो अभियुक्त राजा द्वारा बुलाये जाने पर कुछ भी उत्तर न दे, वे सभी पराजित होते हैं और दण्ड के भागी कहे गये हैं ॥१६॥ अथ यत्र द्वावपि युगपद्धर्माधिकरणं प्राप्तौ भाषावादिनौ । तद्यथा—कश्चि- त्प्रतिग्रहेण क्षेत्रं लब्ध्वा कंचित्कालमुपभुज्य कार्यवशात्सकुटुम्बो देशान्तरं गतः । अन्योऽपि तदेव क्षेत्रं प्रतिग्रहेण लब्ध्वा कंचित्कालमुपभुज्य देशान्तरं १. दुर्ज्ञानत्वात् । १२ या०
१८० याज्ञवल्क्यस्मृतिः
गतः । ततो द्वावपि युगपदागत्य 'मदीयमिदं क्षेत्रं मदीयमिदं क्षेत्रम्' इति पर- स्परं विवदमानौ धर्माधिकरणं प्राप्तौ तत्र कस्य क्रियेत्याकाङ्क्षित आह— साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ १७ ॥ उभयतः उभयोरपि वादिनोः साक्षिषु संभवत्सु साक्षिणः पूर्ववादिनः 'पूर्वस्मिन्काले मया प्रतिगृहीतमुपभुक्तं च' इति यो वदत्यसौ पूर्ववादी, न पुनर्यः पूर्वं निवेदयति तस्य साक्षिणः प्रष्टव्याः । यदा त्वन्य एवं वदति 'सत्यमनेन पूर्वं प्रतिगृहीतमुपभुक्तं च किंतु राज्ञेदमेव क्षेत्रमस्मादेव क्रयेण लब्ध्वा मह्यं दत्तम्' इति, 'अनेन वा प्रतिग्रहेण लब्ध्वा मह्यं दत्तम्' इति तत्र पूर्वपक्षोऽसाध्य- तयाऽधरीभूतैस्तस्मिन्पूर्वपक्षेऽधरीभूते उत्तरकालं प्रतिगृहीतमुपभुक्तं चेति वादिनः साक्षिणः प्रष्टव्या भवन्ति ॥ इदमेव व्याख्यानं युक्ततरम् । मिथ्यो- त्तरे पूर्ववादिनः साक्षिणो भवन्ति ॥ प्राङ्न्यायकारणोक्तौ पूर्वपक्षेऽधरीभूते उत्त- रवादिनः साक्षिणो भवन्तीति व्याख्यानमयुक्तम् । अस्यार्थस्य 'ततोऽर्थी लेख- येत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इत्यनेनैवोक्तत्वात्पुनरुक्तिप्रसङ्गात् । पूर्व- व्याख्यानमेव स्पष्टीकृतं नारदेन—'मिथ्या क्रिया पूर्ववादे कारणे प्रतिवादिनि । प्राङ्न्यायविधिसिद्धौ तु जयपत्रं क्रिया भवेत् ॥' इत्युक्त्वा—'द्वयोर्विवदतोर्थे द्वयोः सत्सु च साक्षिषु । पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः ॥' इति वदता । एतस्य च पूर्वव्यवहारविलक्षणत्वाद् भेदेनोपन्यासः ॥ १७ ॥ भाषा—दोनों ओर के साक्षी आये हों तो पहले अपना पूर्वकाल में अधिकार बताने वाले साक्षी की बात सुने । यदि पूर्वपक्ष कमजोर हो तो बाद के समय में अपना अधिकार बताने वाला साक्षियों से पूछना चाहिए ॥ १७ ॥ सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् । दण्डं च स्वपणं चैव धनिने धनमेव च ॥ १८ ॥ अपि च, यदि विवादो व्यवहारः सपणः-पणनं पणः, तेन सह वर्तत इति सपणः, स्यात्तदा तत्र तस्मिन्सपणे व्यवहारे हीनं पराजितं पूर्वोक्तं दण्डं स्वकृतं पणं राज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेकः कोपावेशवशात् 'यद्यहमत्र पराजितो भवामि तदा पणशतं दास्यामि' इति प्रति- जानीते, अन्यस्तु न किंचित्प्रतिजानीते तत्रापि व्यवहारः प्रवर्तते । तस्मिंश्च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो दण्डं दाप्यः, न पणम्; 'स्वपणं ४ च' इति विशेषोपादानात् । यत्र त्वेकः १. कारिणं । २. साक्षिषु सत्सु । ३. स्तस्मिन्पक्षे । ४. सपणं ।
शतम्, अन्यस्तु पञ्चाशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यौ । ‘सपणश्चेद्विवादः स्यात्’ इति वदता पणरहितोऽपि विवादो दर्शित इति ॥ १८ ॥ भाषा—यदि सपण (शर्त लगाकर) विवाद हो रहा हो और पण की प्रतिज्ञा करने वाला हारता है तो उससे प्रतिज्ञात धन (राजा) दिलावे । वे दोनों ही यदि कम और अधिक धन की शर्त लगावें तो पराजय स्वीकार करने वाले से पण दिलवाये और धन के अधिकारी को धन दिलवाये ॥ १८ ॥ छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतमप्यनुपन्यस्तं हीयते व्यवहारतः ॥ १९ ॥ किंच, छलं प्रमादाभिहितं निरस्य परित्यज्य भूतेन वस्तुतत्त्वानुसारेण व्यवहारान्नयेदन्तं नृपः । यस्माद् भूतमपि वस्तुतत्त्वमपि अनुपन्यस्तमनभिहितं हीयते हानिमुपगच्छति व्यवहारतो व्यवहारेण साक्ष्यादिभिः । तस्माद् भूतानु- सरणं कर्तव्यम् । यथार्थिप्रत्यर्थिनौ सत्यमेव वदतस्तथा ससभ्येन सभापतिना यतितव्यं सामादिभिरुपायैः । तथा सति साक्ष्यादिनिरपेक्ष्येणैव निर्णयो भवति ॥ अथ सर्वथापि भूतानुसरणं न शक्यते कर्तुं, तथा सति साक्ष्यादिभिर्निर्णयः कार्य इत्यनुकल्पः । यथोक्तम्- 'भूतच्छलानुसारित्वाद्द्विगतिः समुदाहृतः । भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ॥' इति । तत्र भूतानुसारी व्यवहारो मुख्यः, छलानुसारी स्वनुकल्पः । साक्षिलेख्यादिभिर्व्यवहारनिर्णये कदाचिद्वस्त्व- नुसरणं भवति, कदाचिन्न भवति; साक्ष्यादीनां व्यभिचारस्यापि संभवात् ॥१९॥ भाषा—छल (प्रमाद से कही हुई बात) को छोड़कर राजा वस्तुस्थिति के अनुसार व्यवहारों का निर्णय करे । सच्ची बात होने पर भी उसे न कहने पर व्यवहार में पराजित ही होता है ॥ १९ ॥ 'भूतमप्यनुपन्यस्तं हीयते व्यवहारतः' (व्य० १९) इत्यत्रोदाहरणमाह— निह्नुते³ लिखितं नैकमेकदेशे विभावितः । दाप्यः सर्वं नृपेणार्थे न ग्राह्यस्त्वनिवेदितः ॥ २० ॥ नैकमनेकं सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्वमेव निह्नुतेऽपजानीते तदर्थिनैकदेशे हिरण्ये साक्षादिभिः प्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्वलिखितं दाप्योऽर्थिने नृपेण । न ग्राह्यस्त्वनिवेदितः 'पूर्वं भाषाकाले अनिवेदितः पश्चादर्थिना पूर्वं मया विस्मृतः' इति निवेद्यमानो
१. तस्मात् । २. तत्त्वार्थयुक्तं यत्प्रमादाभि । ३. निह्नवे लिखि- तेऽनेकमेकदेशविभा ।
१८२ याज्ञवल्क्यस्मृतिः न ग्राह्यो १नोदर्तव्यो नृपेण । एतच्च न केवलं वाचनिकम् । एकदेशे प्रत्यर्थिनो मिथ्यावादित्वनिश्चयादेकदेशान्तरेऽपि मिथ्यावादित्वसंभवात् । एवं तर्कापरना- मसंभावनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनात्सर्वं दापनीयं नृपेणेति निर्णयः । एवं च तर्कवाक्यानुसारेण निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेऽपि व्यव- हारदर्शिनां न दोषः । तथा च गौतमः (११।२३, २४)-'न्यायाधिगमे तर्कोऽभ्यु- पायस्तेनाभ्यूह्य यथास्थानं '२गमयेत्' इत्युक्त्वा, 'तस्माद्राजाचार्यावनिन्द्यौ' (११। ३२) इत्युपसंहरति । न चैकदेशभावितोऽनुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते । 'एकदेशविभावितो नृपेण सर्वं दाप्यः' इति वचनात् ॥ यत्तु कात्यायनेनोक्तम्- 'अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । साक्षिभिस्तावदेवाऽसौ लभते साधितं धनम् ॥' इति, ३तत्पुत्रादिदेयपित्राद्यृणविषयम् । तत्र हि बहूनर्थानभियुक्तः पुत्रादिर्न जाना४मीति प्रतिवदन्निह्नववादी न भवतीत्येकदेशविभावितोऽपि न क्वचि- द्यसत्यवादीति 'निह्नुते लिखितं नैकम्' (व्य० १९) इति शास्त्रं तत्र न प्रवर्तते । निह्नवाभावादपेक्षिततर्काभावाच्च !-'अनेकार्थाभियोगेऽपि' इति कात्यायनवचनं तु सामान्यविषयं, विशेषशास्त्रस्य विषयं निह्नोत्तरं परित्यज्याऽज्ञानोत्तरे प्रवर्तते ॥ अनु 'ऋणादिषु विवादेषु स्थिरप्रायेषु निश्चितम् । ऊने वाऽप्यधिके वार्थे प्रोक्ते साध्यं न सिद्ध्यति ॥' इति वदता कात्यायनेनानेकार्थाभियोगे साक्षिभिरेकदेशे भावितेऽधिके वा भाविते साध्यं सर्वमेव न सिद्ध्यतीत्युक्तम् । तथा सत्येकदेशे भाविते अभावितैकदेशसिद्धिः कुतस्त्या ? उच्यते, -लिखितसर्वार्थसाधनतयो- पन्यस्तैः साक्षिभिरेकदेशाभिधानेऽधिकाभिधाने वा कृत्स्नमेव साध्यं न सिद्ध्यतीति तस्यार्थः । तत्रापि निश्चितं न सिद्ध्यतीति वचनात्पूर्ववत्संशय एवेति प्रमाणा- न्तरस्यावसरोऽस्त्येव; 'छलं निरस्य' इति नियमात् । साहसादौ तु सकलसा- ध्य५साधनतयोद्दिष्टैः साक्षिभिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव; तावतैव साहसादेः सिद्धत्वात् , कात्यायनवचनाच्च- 'साध्यार्थांशेऽपि गदिते साक्षिभिः सकलं भवेत् । स्त्रीसंगे साहसे चौर्ये यत्साध्यं परिकीर्तितम् ॥' इति ॥ २० ॥ भाषा-अर्थी द्वारा लिखाई गई (सुवर्ण, रजत आदि) वस्तुओं में यदि प्रत्यर्थी अनेक का लेना अस्वीकार करता है और इसका एक भी वस्तु लेना सिद्ध हो जाता है तो राजा उससे सभी धन या वस्तुएँ दिलवाये । अर्थी को भी वे वस्तुएँ नहीं लेनी चाहिए, जिनके लिये उसने निवेदन न किया हो ॥ २० ॥ १. न दापयितव्यो । २. न्यायज्ञाने तर्क उपायस्तेन तर्केण न्यायमभ्यूह्य निश्चित्य नाभ्युपेत्य । ३. तत्पुत्रादृण । ४. मीति वदन् । ५. उपदिष्टैः ।
[Header] व्यवहाराध्यायः १८३
ननु 'निह्नुते लिखितं नैकम्' (व्य० २०) इतीयं स्मृतिस्तथा 'अनेकार्थाभि- योगेऽपि' इतीयमपि स्मृतिरेव तत्रानयोः स्मृत्योः परस्परविरोधे सतीतरेतरबा- धनादप्रामाण्यं कस्मान्न भवति, विषयव्यवस्था किमित्याश्रीयत इत्यत आह— १स्मृत्योर्विरोधे न्यायस्तु बलवान् व्यवहारतः । यत्र स्मृत्योः परस्परतो विरोधस्तत्र विरोधपरिहारार्थ विषयव्यवस्थापना- दावुत्सर्गापवादादिलक्षणो न्यायो बलवान् समर्थः । स च न्यायः कुतः प्रत्येयव्य इत्यत आह—व्यवहारत इति । व्यवहाराद् वृद्धव्यवहारादन्वयव्यतिरेकलक्षणाद- वगम्यते । अतश्च प्रकृतोदाहरणेऽपि विषयव्यवस्थैव युक्ता । एवमन्यत्रापि विष- यव्यवस्थाविकल्पादि यथासंभवं योज्यम् ॥ एवं सर्वत्र च प्रसङ्गेऽपवादमाह— अर्थशास्त्रात्तु बलवद्धर्मशास्त्रमिति स्थितिः ॥ २१ ॥ 'धर्मशास्त्रानुसारेण' इत्यनेनैवौशनसाद्यर्थशास्त्रस्य निरस्तत्वात् धर्मशास्त्रान्त- र्गतमेव राजनीतिलक्षणमर्थशास्त्रमिह विवक्षितम् । अर्थशास्त्रधर्मशास्त्रस्मृत्यो- विरोधे अर्थशास्त्राद्धर्मशास्त्रं बलवदिति स्थितिर्मर्यादा । यद्यपि समानकर्तृकतया अर्थशास्त्रधर्मशास्त्रयोः स्वरूपगतो विशेषो नास्ति तथापि प्रमेयस्य धर्मस्य प्राधान्यादर्थस्य चाप्राधान्याद्धर्मशास्त्रं बलवदित्यभिप्रायः । धर्मस्य च प्राधान्यं शास्त्रादौ दर्शितम् । तस्माद्धर्मशास्त्रार्थशास्त्रयोर्विरोधेऽर्थशास्त्रस्य बाध एव न विषयव्यवस्था, नापि विकल्पः । किमत्रोदाहरणम् ? न तावत्—'गुरुं वा बाल- वृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनमायान्तं हन्यादेवाविचारयन् ॥ नाततायिवधे दोषो हन्तुर्भवति कश्चन । ३प्रच्छन्नं वा प्रकाशं वा मन्युस्तं मन्यु- मृच्छति ॥' ( मनुः ८।३५०-५१ ) तथा—'नाततायिनमायान्तमपि वेदान्तगं रणे । जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ।' इत्यर्थशास्त्रम्, 'इयं विशुद्धिरुदिता प्रमाप्याकामतॊ द्विजम् । कामतो ब्राह्मणवधे' निष्कृतिर्न विधीयते ॥' ( मनुः ११।८९ ) इत्यादि धर्मशास्त्रं, तयोर्विरोधे धर्मशास्त्रं बल- वदिति युक्तम् ॥ अनयोरेकविषयत्वासंभवेन विरोधाभावान्न बलाबलचिन्ताऽ- वतरति । तथा हि—'शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते' (मनुः ८।३४८) इत्युपक्रम्य—'आत्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च ५घ्नन्धर्मेण न दण्डभाक् ॥' ( मनुः ८।३४९ ) इत्यात्मरक्षणे दक्षिणादीनां यज्ञोपकरणानां च रक्षणे युद्धे च स्त्रीब्राह्मणहिंसायां च—'आततायिनमुत्कृष्ट-
१. स्मृतेर्विरोधे । २. परस्परविरोध । ३. प्रकाशं वाऽप्रकाशं वा । ४. वेदान्तपारगम् । ५. न दुष्यति ।
१८४ याज्ञवल्क्यस्मृतिः
शास्त्रेण हनन्न दण्डभाक्' इत्युक्तवा तस्यार्थवादार्थमिदमुच्यते 'गुरुं वा बालवृद्धौ वा' इत्यादि । गुर्वादीनत्यन्तावध्यानप्यात्ततायिनो हन्यात्किमुतान्यानिति । 'वा'शब्दश्रवणात् 'अपि वेदान्तपारगम्' इत्यत्र 'अपि'शब्दश्रवणान्न गुर्वादीनां वध्यत्वप्रतीतिः; 'नाततायिवधे दोषोऽन्यत्र गोब्राह्मणवधात्' इति सुमन्तुवच- नाच्च, 'आचार्यं च प्रवक्तारं मातरं पितरं गुरुम् । न हिंस्याद् ब्राह्मणान्गाश्च सर्वांश्चैव तपस्विनः ॥' इति ( ४।१६२ ) मनुवचनाच्च । आचार्यादीनामा- ततायिनां हिंसाप्रतिषेधेनेदं वचनमर्थवन्नान्यथा; हिंसामात्रप्रतिषेधस्य सामान्य- शास्त्रेणैव सिद्धत्वात् । 'नाततायिवधे दोषो हन्तुर्भवति कश्चन' इत्येतदपि ब्राह्मणादिव्यतिरिक्तविषयमेव । यतः 'अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः । क्षेत्रदारहरश्चैव षडेते ह्याततायिनः ॥' यथा—'उद्यतासिविषाग्निश्च शापोद्यत- करस्तथा । आथर्वणेन हन्ता च पिशुनश्चापि राजनि ॥ भार्यातिक्रमकारी च रन्ध्रान्वेषणतत्परः । एवमाद्यान्विजानीयात्सर्वानैवाततायिनः ॥ इति सामान्ये- नाततायिनो दर्शिताः । अतश्च ब्राह्मणादय आततायिनश्च आत्मादित्राणार्थं हिंसानभिसंधिना निवार्यमाणाः प्रमादाद्यदि विपद्येरंस्तत्र लघु प्रायश्चित्तं राजदण्डाभावश्चेति निश्चयः । तस्मादन्यदिहोदाहरणं वक्तव्यम् । तदुच्यते,— 'हिरण्यभूमिलाभेभ्यो मित्रलब्धिर्वरा यतः । अतो यतेत तत्प्राप्तौ' (आ० ३५१) इत्यर्थशास्त्रम् ।—'धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः' ( व्य० १ ) इति धर्मशास्त्रम् । तयोः क्वचिद्विषये विरोधो भवति । यथा—'चतुष्पाद्व्यवहारे प्रवर्तमाने एकस्य जयेऽवधार्यमाणे मित्रलब्धिर्भवति, न धर्मशास्त्रमनुसृतं भवति । अन्यस्य जयेऽवधार्यमाणे धर्मशास्त्रमनुसृतं भवति, मित्रलब्धि- र्विपरीता, तत्रार्थशास्त्राद्धर्मशास्त्रं बलवत् । अत एव 'धर्मार्थसंनिपाते अर्थ- ग्राहिण एतदेव' इति प्रायश्चित्तस्य गुरुत्वं दर्शितमापस्तम्बेन । एतदेवेति द्वादशवार्षिकं प्रायश्चित्तं परामृश्यते ॥ २१ ॥
भाषा—जब दो स्मृतियों ( धर्मशास्त्र के वचनों ) में परस्पर विरोध हो तो व्यवहार से दिया गया न्याय बलवान् होता है । अर्थशास्त्र की अपेक्षा धर्मशास्त्र का प्रमाण अधिक सबल होता है, ऐसी ही व्यवस्था है ॥ २१ ॥
'ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' ( व्य० ७ ) इत्युक्तं, किं तत्सा- धनमित्यपेक्षित आह— प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषामन्यतमाभावे दिव्यान्द्यतममुच्यते ॥ २२ ॥ प्रमीयते परिच्छिद्यतेऽनेनेति प्रमाणम् । तच्च द्विविधं-मानुषं दैविकं चेति । तत्र मानुषं प्रमाणं त्रिविधं-लिखितं भुक्तिः साक्षिणश्चेति । कीर्तितं मह-
१. चतुर्णाङ्ग । २. मानवं ।
विधिः । तत्र लिखितं द्विविधं-शासनं चीरकं चेति । शासनमुक्तलक्षणम् । चीरकं तु वक्ष्यमाणलक्षणम् । भुक्तिरुपभोगः । साक्षिणो वक्ष्यमाणस्वरूपप्रकाराः । ननु लिखितस्य साक्षिणां च शब्दाभिव्यक्तिद्वारेण शब्देऽन्तर्भावादुक्तं प्रामाण्यम् । भुक्तेस्तु कथं प्रामाण्यम् ? उच्यते—भुक्तिरपि कैश्चिद्विशेषैर्युक्ता स्वत्वहेतुभूत- क्रयादिकमव्यभिचारादनुमापयन्त्यनुपपद्यमाना वा कल्पयन्तीत्यनुमानेऽर्थापत्तौ चान्तर्भवतीति प्रमाणमेव । एषां लिखितादीनां त्रयाणामन्यतमस्याप्यभावे दिव्यानां वक्ष्यमाणस्वरूपभेदानामन्यतमं जातिदेशकालद्रव्याद्यपेक्षया प्रमाण- मुच्यते । मानुषाभाव एव दिव्यस्य प्रामाण्यमस्मादेव वचनादवगम्यते; दिव्यस्य स्वरूपप्रामाण्ययोरागमगम्यत्वात् । अतश्च यत्र परस्परविवादेन युगपद्धर्माधि- कारिणं प्राप्तयोरेको मानुषीं क्रियामपरस्तु दैवीमवलम्बते तत्र मानुष्येव ग्राह्या । यथाह कात्यायनः—'यद्येको मानुषीं ब्रूयादन्यो ब्रूयात्तु दैविकम् । मानुषीं तत्र गृह्णीयान्नतु दैवीं क्रियां नृपः ॥' इति । यत्रापि प्रधानैकदेशसाधनं मानुषं संभ- वति तत्रापि न दैवमाश्रयणीयम् । यथा 'रूपकशतम नया वृद्ध्या गृहीत्वाऽयं न प्रयच्छती'त्यभियोगापह्नवे—'ग्रहणे साक्षिणः सन्ति नो संख्यायां वृद्धिविशेषे वा, अतो दिव्येन भावयामी'त्युक्ते तत्रैकदेशविभावितन्यायेनापि संख्यावृद्धि- विशेषसिद्धेर्न दिव्यस्यावकाशः । उक्तं च कात्यायनेन—'यद्येकदेशव्याप्तापि क्रिया विद्येत मानुषी । सा ग्राह्या नतु पूर्णापि दैविकी वदतां नृणाम् ॥' इति । यत्त—'गूढसाहसिकानां तु प्राप्तं दिव्यैः परीक्षणम्' इति, तदपि मानुषासंभव- कृतनियमार्थम् । यदपि नारदेनोक्तम्—'अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे । न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ॥' इति; तदपि मानुषासंभव एव । तस्मान्मानुषाभाव एव दिव्येन निर्णय इत्यौत्सर्गिकम् । अस्य चापवादो दृश्यते- 'प्रक्रान्ते साहसे वादे पारुष्ये दण्डवाचिके । बलोद्भूतेषु कार्येषु साक्षिणो दिव्य- मेव च ॥' इति । तथा लेख्यादीनामपि क्वचिन्नियमो दृश्यते । यथा—'पूगश्रेणी- गणादीनां या स्थितिः परिकीर्तिता । तस्यास्तु साधनं लेख्यं न दिव्यं न च साक्षिणः ॥' तथा—'द्वारमार्गक्रियाभोगजलवाहादिषु क्रिया । भुक्तिरेव तु गुर्वी स्यान्न दिव्यं न च साक्षिणः ॥' तथा—'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्णये सति । विक्रयादानसंबन्धे क्रीत्वा धनमनिच्छति ॥ द्यूते समाह्वये चैव विवादे समुपस्थिते । साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम् ॥' इति ॥ २२ ॥ भाषा—लिखित, भुक्ति (उपभोग, कब्जा) और साक्षी-ये प्रमाण होते हैं । इनमें से कोई (प्रमाण) न होये तब दिव्यों (एक प्रकार के शपथ) को प्रमाण विहित किया गया है ॥ २२ ॥
१. पूर्वेऽपि । २. वदतां वादिनां, दैवी विवदतां ।