याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 234, कुल 782 में से
संदर्भ में पढ़ें१७८ याज्ञवल्क्यस्मृतिः ततः 'अर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्' (व्य० ७) इति वदतोत्तरपाद- लेखने कालप्रतीक्षणं दर्शितं तत्रापवादमाह— साहसस्तेयपारुष्यगोभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥ १२ ॥ साहसं विषशस्त्रादिनिमित्तं प्राणव्यापादनादि, स्तेयं चौर्यम्, पारुष्यं वाग्दण्डपारुष्यं वक्ष्यमाणलक्षणम्, गौर्दोग्ध्री, अभिशापः पातकाभियोगः, अत्ययः प्राणधनातिपातस्तस्मिन्, द्वन्द्वैकवद्भावादेकवचनम् । स्त्रियां कुलस्त्रियां दास्यां च कुलस्त्रियां चारित्रविवादे, दास्यां स्वत्वविवादे, विवादयेत् उत्तरं दाप- येत्, सद्य एव, न कालप्रतीक्षणं कुर्यात् । अन्यत्र विवादान्तरेषु, काल उत्तरदानकालः, इच्छयाऽर्थिप्रत्यर्थिसभ्यसभापतीनां स्मृत उक्तः ॥ १२ ॥ भाषा—साहस (विष, शस्त्र आदि से प्राण लेना), चोरी, कठोर भाषण, दूध वाली गौ के महापातक, प्राण और धन का नाश तथा स्त्रियों के (हरण या चरित्रविषयक) विवादों में तत्काल उत्तर देना चाहिए । अन्य विवादों में इच्छानुसार समय बताया गया है ॥ १२ ॥ दुष्टलक्षणमाह— देशाद् देशान्तरं याति सृक्किणी परिलेढि च । ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥ १३ ॥ परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते । वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि ॥ १४ ॥ स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः । अभियोगेऽर्थे साक्ष्ये वा दुष्टः स परिकीर्तितः ॥ १५ ॥ मनोवाक्कायकर्मभिर्यः स्वभावादेव न भयादिनिमित्ताद्विकृतिं विकारं याति गच्छति असावभियोगे साक्ष्ये वा दुष्टः परिकीर्तितः । तां विकृतिं विभज्य दर्शयति—देशाद्देशान्तरं याति न क्वचिदवतिष्ठते । सृक्किणी ओष्ठपर्यन्तौ परिलेढि जिह्वाग्रेण स्पर्शयति घट्टयतीति कर्मणो विकृतिः । अस्य ललाटं स्विद्यते स्वेदबिन्दूङ्कितं भवति, मुखं च वैवर्ण्यं विवर्णत्वं पाण्डुत्वं कृष्णत्वं वा एति गच्छतीति कायस्य विकृतिः । परिशुष्यत्स्खलद्वाक्यः परिशुष्यत्सद्गद्गदं स्खलद्वयत्यस्तं वाक्यं यस्य स तथोक्तः । विरुद्धं पूर्वापरविरुद्धं बहु च भाषत इति वाचोविकृतिः । परोक्तां वाचं प्रतिवचनदानेन न पूज- यति, चक्षुर्वा प्रतीक्षणेन न पूजयतीति मनसो विकृतेर्लिङ्गम् । तथा १. योगे च । २. य वा साध्ये । ३. बिन्दुचितं ।