याज्ञवल्क्य स्मृति (मिताक्षरा टीका व हिन्दी व्याख्या सहित)
Yajnavalkya Smriti with Mitakshara Tika & Hindi Commentary
महर्षि याज्ञवल्क्य द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
१८६ याज्ञवल्क्यस्मृतिः उभयत्र प्रमाणसद्भावे प्रमाणगतबलाबलविवेके चासति पूर्वापरयोः कार्ययोः कस्य बलीयस्त्वमित्यत आह— सर्वेष्वर्थविवादेषु बलवत्युत्तरा क्रिया । ऋणादिषु सर्वेष्वर्थविवादेषु उत्तरा क्रिया—क्रियत इति क्रिया कार्यं बल- वती । उत्तरकार्ये साधिते तद्वादी विजयी भवति, पूर्वकार्ये सिद्धेऽपि तद्वादी पराजीयते । तद्यथा—कश्चिद् ग्रहणेन धारणं साधयति कश्चित्प्रतिदानेनाधारणम् , तत्र ग्रहणप्रतिपादनयोः प्रमाणसिद्धयोः प्रतिदानं बलवदिति प्रतिदानवादी जयी भवति । तथा पूर्वं द्विकं शतं गृहीत्वा कालान्तरे त्रिकं शतमङ्गीकृतवान् , तत्रो- भयत्र प्रमाणसद्भावेऽपि त्रिकशतग्रहणं बलवत् । पश्चाद्भावित्वात्पूर्वबाधेनानुत्पत्तेः । उक्तं च—'पूर्वबाधेन नोत्पत्तिरुत्तरस्य हि सेत्स्यति' इति ॥ अस्यापवादमाह— आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा ॥ २३ ॥ आध्यादिषु त्रिषु पूर्वमेव कार्यं बलवत् । तद्यथा—एकमेव क्षेत्रमन्यस्या- ऽऽधिं कृत्वा किमपि गृहीत्वा पुनरन्यस्याप्याधाय किमपि गृह्णाति; तत्र पूर्वस्यैव तद्भवति, नोत्तरस्य । एवं प्रतिग्रहे क्रये च ॥ नन्वाहितस्य तदानीमस्वत्वात्पुन- राधानमेव न संभवति । एवं दत्तस्य क्रीतस्य च दानक्रयौ नोपपद्येते तस्मादिदं वचनमनर्थकम् । उच्यते—अस्वत्त्वेऽपि यदि मोहात्कश्चिल्लोभाद्वा पुनराधानादिकं करोति तत्र पूर्वं बलवदिति न्यायमूलमेवेदं वचनमित्यवोचम् ॥ २३ ॥ भाषा—( ऋण आदि ) धन के सभी विवादों में उत्तर कार्य ( बाद का प्रमाण ) बलवान् होता है; किन्तु आधि ( बन्धक, रेहन ), दान और क्रय में पूर्व कार्य ( अपना अधिकार पहले का बताने वाला पक्ष ) ही बलवान होता है ॥ २३ ॥ भुक्तेः कैश्चिद्विशेषणैर्युक्तायाः प्रामाण्यं दर्शयिष्यन् कस्याञ्चिद्भुक्तेः कार्यान्तरमाह— पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी ॥ २४ ॥ परेणासंबद्धेन³ भुज्यमानां भुवं धनं वा पश्यतः अब्रुवतः 'मदीयेयं भूः न त्वया भोक्तव्या' इत्यप्रतिषेधयतः तस्या भूमेर्विंशतिवार्षिकी अप्रतिरवं विंशतिवर्षोपभोगनिमित्ता हानिर्भवति । धनस्य तु हस्त्यश्वादेर्दशवार्षिकी हानिः । नन्वेतदनुपपन्नम्, नह्यप्रतिषेधात्स्वत्वमपगच्छति । अप्रतिषिद्धस्य⁴ दान- १. सर्वेष्वेव विवादेषु । २. जयति । ३. असंबन्धेन । ४. अप्रति- षिद्धस्य ।
[Page Header] व्यवहाराध्यायः १८७
[Main Text] विक्रयादिस्वत्वनिवृत्तिहेतुत्वस्य लोकशास्त्रयोरप्रसिद्धत्वात् । नापि विंशतिवर्षोप- भोगात्स्वत्वम् ; उपभोगस्य स्वत्वे प्रमाणत्वात्, प्रमाणस्य च प्रमेयप्रत्यनुत्पादक- त्वात् , रिक्थक्रयादिषु स्वत्वकारकहेतुष्वपाठाच्च । तथा हि-स्वामी रिक्थक्रय- संविभागपरिग्रहाधिगमेषु ब्राह्मणस्याधिकं लब्धं, क्षत्रियस्य वर्जितम्, निर्विष्टं वैश्य- शूद्रयोः (गौ. २।१०, ३९-४२) इत्यष्टावेव स्वत्वकारकहेतून् गौतमः पठति न भोगम् । नैचेदमेव वचनं विंशतिवर्षोपभोगस्य स्वत्वापत्तिहेतुत्वं प्रतिपादयतीति युक्तम् । स्वत्वस्य स्वत्वहेतूनां च लोकप्रसिद्धत्वेन शास्त्रैकसमधिगम्यत्वाभावात् । एतच्च विभागप्रकरणे निपुणतरमुपपादयिष्यते, गौतमवचनं तु नियमार्थम् ॥ अपि च 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डये- त्पृथिवीपतिः ॥' इत्येतदनागमोपभोगस्य स्वत्वहेतुत्वे विरुध्यते । नच 'अनागमं तु यो भुङ्क्ते' इत्येतत्परोक्षभोगविषयम्, 'पश्यतोऽब्रुवत' इति प्रत्यक्षभोगविषय- मिति युक्तं वक्तुम् । 'अनागमं तु यो भुङ्क्ते' इत्यविशेषाभिधानात्, नोपभोगे बलं कार्यमाहत्र्रा तत्सुतेन वा । पशुस्त्रीपुरुषादीनामिति धर्मो व्यवस्थितः ॥' इति कात्यायनवचनाच्च । समत्त्वभोगे च हानिकारणाभावेन हानेरसंभवात् । न चैत- न्मन्तव्यम्-आधिप्रतिग्रहक्रयेषु पूर्वस्याः क्रियायाः प्राबल्यादपवादेन भूविषये विंशतिवर्षोपभोगयुक्तायाः, धनविषये दशवर्षोपभोगयुक्तायाः, उत्तरस्याः क्रियायाः प्राबल्यमनेनोच्यत इति । यतस्तेषूत्तरैव क्रिया तत्त्वतो नोपपद्यते, स्वैमेव ह्याधेयं देयं विक्रेयं च भवति । न चाहिप्तस्य दत्तस्य विक्रोतस्य वा स्वत्वमस्ति । ५अस्वत्व- दाने प्रतिग्रहे च दण्डः स्मर्यते— 'अदेयं यश्च गृह्णाति यश्चादेयं प्रयच्छति । उभौ तौ चौरवच्छास्यौ दाप्यौ चोत्तमसाहसम् ॥' इति । तथाऽऽध्यादीनां त्रया- णामपवादत्वेऽस्य श्लोकस्याधिसिमादीनामुत्तरश्लोकेऽपवादो नोपपद्यते । तस्मा- द्भूष्यादीनां हानिरनुपपन्नैव; नापि व्यवहारहानिः, यतः- 'उपेक्षां कुर्वतस्तस्य तूष्णींभूतस्य तिष्ठतः । काले विपन्ने पूर्वोक्ते व्यवहारो न सिद्ध्यति ॥' इति नार- देनोपेक्षालिङ्गाभावकृता व्यवहारहानिरुक्ता, मत्व वस्त्वभावकृता । तथा मनुनापि (८।१४८)-'अजडश्चेदपौगण्डो विषयेँश्चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्ध- नमर्हति ॥' इति व्यवहारतो भङ्गो दर्शितो न वस्तुतः । व्यवहारभङ्गश्चैव-भोक्ता किल वदति 'अजडोऽयमपौगण्डोऽबालोऽयमस्य संनिधौ विंशतिवर्षाण्यप्रतिरवं मया भुक्तं, तत्र बहवः साक्षिणः सन्ति; यद्यस्य स्वमन्वायेन मया भुज्यते तदायं किमित्येतावन्तं कालमुदास्ते' इति, तत्र चायं निरुत्तरो भवतीति । एवं निरुत्तर-
[Footnotes] १. विजितं । विनिर्जितम् । २. नचेदं वचनं । ३. उत्तरविषयक्रियायाः । ४. स्वत्वविशिष्टमेव-स्वयमेव । ५. अस्वश्वस्य । ६. विषये चास्य भुञ्जते । ७. समत्वेनापवादासम्भवात् ।
स्थापि वास्तवो व्यवहारो भवत्येव । 'छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः' (व्य० १९) इति नियमात् ॥ अथ मतम् । यद्यपि न वस्तुहानिर्नापि व्यवहारहानिस्त- थापि पश्यतोऽप्रतिषेधतो व्यवहारहानिशङ्का भवतीति तन्निवृत्तये तूष्णीं न स्थात- व्यमित्युपदिश्यत इति । तच्च न-स्मार्तकालाया भुक्तेर्हानिशङ्काकारणत्वाभावात्, तूष्णीं न स्थातव्यमित्येतावन्मात्राभिधित्सायां विंशतिग्रहणमविवक्षितं स्यात् । अथोच्यते-विंशतिग्रहणमूर्ध्वं पत्रदोषोद्भावननिराकरणार्थम् । यथाह कात्यायनः- 'शक्तस्य संनिधावर्थो यस्य लेख्येन भुज्यते। विंशतिवर्षाम्यतिक्रान्तं तत्पत्रं दोषव- र्जितम् ॥' इति, तदपि न'-आध्यादिष्वपि विंशतेरूर्ध्वं पत्रदोषोद्भावननिराकरणस्य संत्वेनाधिसिमेत्याद्यपवादासम्भवात् । यथाह कात्यायनः-'अथ विंशतिवर्षाणि आधिर्भुक्तः सुनिश्चितः । तेन लेख्येन तत्सिद्धिलेंख्यदोषविवर्जिता ॥' तथा-सी- माविवादे निर्णीते सीमापत्रं विधीयते । तस्य दोषाः प्रवक्तव्या यावद्वर्षाणि विंशतिः ॥' इति । एतेन 'धनस्य दशवार्षिकी' इत्येतदपि प्रयुक्तम् । तस्मादस्य श्लोकस्य सम्योऽर्थो वक्तव्यः। उच्यते-भूमेर्धनस्य च फलहानिरिह विवक्षिता, न वस्तुहानिर्नापि व्यवहारहानिः । तथा हि-निराक्रोशं विंशतिवर्षोपभोगादूर्ध्वं यद्यपि स्वामी न्यायतः क्षेत्रं लभते, तथापि फलानुसरणं न लभते; अप्रतिषेधलक्षणा- स्वापराधादस्माच्च वचनात् । परोक्षभोगे तु विंशतेरूर्ध्वमपि फलानुसरणं लभत एव; 'पश्यतः' इति वचनात् । प्रत्यक्षभोगे च साक्रोशे, 'अब्रुवतः' इति वचनात् । विंशतेः प्राक् प्रत्यक्षे निराक्रोशे च लभते; विंशतिग्रहणात् । ननु तदुत्पन्नस्यापि कुलस्थ स्वत्वात्तद्धानिरनुपपन्नैव । बाढम्, तस्य स्वरूपाविनाशेन तथैवावस्थाने यथा-तदुत्पन्नपूगपनसवृक्षादीनां यत्पुनस्तदुत्पन्नमुपभोगाम्नष्टं तत्र स्वरूपनाशा- देव स्वत्वनाशः । 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि। चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः ॥' इत्यनेन वचनेन निष्क्रयरूपेण गणयित्वा चौरवत्तत्समं द्रव्यदानं प्राप्तं, 'हानिर्विशतिवार्षिकी' इत्यनेनापोद्यते । राजदण्डः पुनरस्त्येव विंशतेरूर्ध्वमपि, अनागमोपभोगादपवादाभावाच्च । तस्मात्स्वाम्युपेक्षालक्षणस्वा- पराधादस्माच्च वचनाद्विंशतेरूर्ध्वं फलं नष्टं न लभत इति स्थितम् । एतेन 'धनस्य दशवार्षिकी, इत्येतदपि व्याख्यातम् ॥ २४ ॥ भाषा-स्वामी के देखते रहने और आपत्ति न करने पर भूमि दूसरे व्यक्ति द्वारा जोती जाने पर बीस वर्ष में उसके (स्वामी के) अधिकार से निकल जाती है और इस प्रकार धन का उपभोग दूसरा करे तो दस वर्ष के बाद स्वामी का अधिकार नष्ट हो जाता है ॥ २४ ॥ १. सम्योऽर्थो निर्दुष्टोऽर्थः सम्योऽन्योऽर्थो ।
व्यवहाराध्यायः १८६ अस्यापवादमाह- आधिसीमोप निक्षेपजडबालधनैर्विना । ^१तथोपनिधिराजस्त्रीश्रोत्रियाणां धनैरपि ॥ २५ ॥ आधिश्च सीमा च उपनिक्षेपश्च आधिसीमोपनिक्षेपाः । जडश्च बालश्च जडबालौ, तयोर्धने जडबालधने; आधिसीमोपनिक्षेपाश्च जडबालधने च आधिसीमोपनिक्षेपजडबालधनानि तैर्विना । उपनिक्षेपो नाम रूपकसंख्याप्रदर्श- नेन रक्षणार्थं परस्य हस्ते निहितं द्रव्यम् । यथाह नारदः- 'स्वं द्रव्यं यत्र विश्र- म्भान्निचिपेत्यविशङ्कितः । निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः ॥' इति उप- निधानमुपनिधिः । आध्यादिषु पश्यतोऽब्रुवतोऽपि भूमेर्विंशतेरूर्ध्वं धनस्य च दशभ्यो वर्षेभ्य ऊर्ध्वमप्युपचयहानिर्न भवति; पुरुषापराधस्य तथाविधस्या- भावात् , उपेक्षाकारणस्य तत्र तत्र संभवात् । तथा हि-आधेराधिस्वोपाधिक एव भोग इत्युपेक्षायामपि न पुरुषापराधः । सीम्नश्चिरकृततुषाङ्गारादिचिह्नैः सुसाध्यत्वादुपेक्षा संभवति; उपनिक्षेपोपनिध्योर्भुक्तेः प्रतिषिद्धत्वात्, प्रतिषेधाति- क्रमोपभोगे च सोद्वैयफललाभादुपैक्षोपपत्तिः । जडबालयोर्जडत्वाद्वालत्वादुपेक्षा युक्तैव; राज्ञो बहुकार्यव्याकुलत्वात् , स्त्रीणामज्ञानात्प्रागल्भ्याच्च । श्रोत्रिय- स्याध्ययनाध्यापनतदर्थविचारानुष्ठानव्याकुलत्वादुपेक्षा युक्तैव । तस्मादाध्यादिषु सर्वत्रोपेक्षाकारणसंभवात्समक्षभोगे निराक्रोशे च न कदाचिदपि फलहानिः॥२५॥ भाषा-आधि ( बन्धक ), सीमा, उपनिक्षेप, जड़ ( मन्दबुद्धि ), बालक का धन, उपनिधि, राजधन, स्त्रीधन, श्रोत्रिय का धन दूसरे द्वारा दस या बीस वर्ष तक भोगे जाने पर भी अपने स्वामी के अधिकार से हीन नहीं होते हैं ॥ २५ ॥ आध्यादिषु दण्डविशेषप्रतिपादनार्थमाह- ^४आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षमथापि वा ॥ २६ ॥ य आध्यादीनां श्रोत्रियद्रव्यपर्यन्तानां चिरकालोपभोगबलेनापहर्ता तं विवा- दास्पदीभूतं धनं स्वामिने दापयेदित्यनुवादः । दण्डं च तत्समं विवादा- स्पदीभूतद्रव्यसमं राज्ञे दापयेदिति विधिः । यद्यपि गृहक्षेत्रादिषु तत्समो दण्डो न संभवति तथापि-'मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा' ( व्य० १५५) इत्यादिवक्ष्यमाणो दण्डो द्रष्टव्यः । अथ तत्समदण्डेनापहर्तुर्दमनं न भवति बहु- १. तथोवनिधि । २. आधित्वनिमित्तकः ३. सोदयफलभा- वात् । ४. आध्यादीनां निहन्तारं दापयेद्धनिने धनम् ।
१६० याज्ञवल्क्यस्मृतिः धनत्वेन, तदा शक्त्यपेक्षं धनं दापयेत् । यावता तस्य दर्पोपशमो भवति तावद्दापयेत् । ‘दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत्’ ( गौ० ११।२८ ) इति दण्डग्रहणस्य दमनार्थत्वात् । यस्य तु तत्सममपि द्रव्यं नास्ति, सोऽपि यावता पीड्यते तावद्वाप्यः । यस्य पुनः किमपि धनं नास्ति असौ धिग्दण्डादिना दम- नीयः । तथा च मनुः ( ८।१२९ )—‘धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्त- रम् । तृतीयं धनदण्डं तु वधदण्डमतः परम् ॥’ इति । वधदण्डोऽपि शारीरो ब्राह्मणव्यतिरिक्तानां दशधा दर्शितः । तथाह मनुः (८।१२५)—‘दश स्थानानि दण्डस्य मनुः स्वायंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् ॥ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥’ इति । एतेषां यन्निमित्तापराधस्तत्रैवो पस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । यथोक्तं कात्यायनेन— ‘धनदानासहं बुद्ध्वा स्वाधीनं कर्म कारयेत् । अशक्तौ बन्धनागारं प्रवेश्यो ब्राह्मणाहते ॥’ इति । ब्राह्मणस्य पुनर्द्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । यथाह गौतमः ( १२।४७ )—‘कर्मवियोगविख्यापननिर्वासनाङ्ककरणान्यवृत्तौ ।’ इति । नारदेनापि ( १४।८ )—‘वधः सर्वस्वहरणं पुरान्निर्वासनाङ्कने । तदङ्ग- च्छेद इत्युक्तो दण्ड उत्तमसाहसः ॥ अविशेषेण सर्वेषामेष दण्डविधिः स्मृतः ॥’ इत्युक्त्वोक्तम्— ‘वधाहते ब्राह्मणस्य, न वधं ब्राह्मणोऽर्हति ॥’ इति ।—शिरसो मुण्डनं दण्डस्तस्य निर्वासनं पुरात् । ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन च ॥’ ( नारदः १४।९ ) इति ॥ अङ्कने च व्यवस्था दर्शिता ( ९।२३७ )—‘गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्तेये तु श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ॥’ इति । यत्तु—‘चक्षुर्निंरोधो ब्राह्मणस्य’ ( २।२७।१७ ) इत्यापस्तम्बवचनं, ब्राह्मणस्य पुरान्निर्वासनसमये वस्त्रादिना चक्षुर्निंरोधः कर्तव्य इति तस्यार्थः, न तु चक्षुरुद्ध- रणम्; ‘अक्षतो ब्राह्मणो व्रजेत्’ ( मनुः ८।१२३ ) ‘न शारीरो ब्राह्मणे दण्डः’ ( गौतमः १२।४६ ) इत्यादिमनुगौतमादिवचनविरोधादित्यलं प्रसङ्गेन ॥ २६ ॥ भाषा—आधि ( बन्धक ) आदि के हरण करने वाले से धन के अधिकारी को धन दिलवाये; उसके समान ही दण्ड राजा को दिलवाये अथवा उसकी शक्ति देखकर उसके अनुसार दण्ड निर्धारित करे ॥ २६ ॥ स्वत्वाव्यभिचारस्त्वेन भोगस्य स्वत्वे प्रामाण्यमुक्तम् । भोगमात्रस्य स्वत्व- व्यभिचारित्वात्कीदृशो भोगः प्रमाणमित्यत आह— आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतम् । १. आगमोऽप्यधिको ।
व्यवहाराध्यायः १६१ स्वत्वहेतुः प्रतिग्रहक्रयादिः आगमः । स भोगादप्यधिको बलीयान्; स्वत्व- बोधने भोगस्यागमसापेक्षत्वात् । यथाह नारदः ( १।८५ )—'आगमेन विशुद्धेन भोगो याति प्रमाणताम् । अविशुद्धागमो भोगः प्रामाण्यं नैव गच्छति ॥' इति । न च भोगमात्रात्स्वत्वागमः; परकीयस्याप्यपहारादिनोपभोगसंभवात् । अतएद— 'भोगं केवलतो यस्तु कीर्तयेन्नागमं क्वचित् । भोगच्छलापदेशेन विज्ञेयः स तु तस्करः ॥' (नारदः १८।६) इति स्मर्यते । अतश्च सागमो दीर्घकालो निरन्तरो निराक्रोशः प्रत्यर्थिप्रत्यक्षश्चेति पञ्चविशेषणयुक्तो भोगः प्रमाणमित्युक्तं भवति । तथा च स्मर्यते—'सागमो दीर्घकालश्चाविच्छेदोऽपरवोजित्तः । प्रत्यर्थिसंनिधानश्च परिभोगोऽपि पञ्चधा ॥' इति । क्वचिच्चागमनिरपेक्षस्यापि भोगस्य प्रामाण्य- मित्याह—विना पूर्वक्रमागतादिति । पूर्वेषां पित्रादीनां त्रयाणां क्रमः पूर्वक्रमः, तेनागतो यो भोगस्तस्माद्विना । आगमोऽभ्यधिक इति संबन्धः । स पुनरागमादभ्यधिकः आगमनिरपेक्षः । प्रमाणमित्यर्थः । तत्राप्यागमोऽज्ञातनिर- पेक्षो न सत्तानिरपेक्षः । सत्ता तु तेनैवावगम्यत इति बोद्धव्यम् । 'विना पूर्व- क्रमागतात्' इत्येतच्च स्मार्तकालप्रदर्शनार्थम् । 'आगमोऽभ्यधिको भोगात्' इति च स्मार्तकालविषयम् । अतश्च स्मरणयोग्ये काले योग्यानुपलब्ध्या आगमाभाव- निश्चयसंभवादागमज्ञानसापेक्षस्यैव भोगस्य प्रामाण्यम् । अस्मार्ते तु काले योग्या- नुपलब्ध्यभावेनागमाभावनिश्चयासंभवादागमज्ञाननिरपेक्ष एव संततो भोगः प्रमाणम् । एतदेव स्पष्टीकृतं कात्यायनेन—'स्मार्तकाले क्रिया भूमेः सागमा भुक्तिरिष्यते । अस्मार्तेऽनुगमाभावात्क्रमात्त्रिपुरुषागता ॥' इति । स्मार्तश्च कालो वर्षशतपर्यन्तः; 'शतायुर्वे पुरुषः' इति श्रुतेः । अनुगमाभावादिति योग्यानु- पलब्ध्यभावेनागमाभावनिश्चयासंभवादित्यर्थः । अतश्च वर्षशताधिको भोगः संततोऽप्रतिरवः प्रत्यक्षश्चागमाभावे वाऽनिश्चितेऽव्यभिचारादाच्छिन्नागमः स्वत्वं गमयति । अस्मार्तेऽपि कालेऽनागमस्मृतिपरंपरायां सत्यां न भोगः प्रमाणम् । अत एव 'अनागमं तु यो भुङ्क्ते बहून्यब्दशतान्यपि । चौरदण्डेन तं पापं दण्डयेत्पृथिवीपतिः॥' इत्युक्तम् । न च 'अनागमं तु यो भुङ्क्ते' इत्येकवचननिर्देशात् 'बहून्यब्दशतान्यपि' इति 'अपि'शब्दप्रयोगात्प्रथमस्यैव^२ पुरुषस्य निरागमे चिर- कालोपभोगेऽपि दण्डविधानमिति मन्तव्यम् । द्वितीये वा पुरुषे निरागमस्य भोगस्य प्रामाण्यप्रसङ्गात् । न चैतदिष्यते—'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा' ( नारदः २।८७ ) इति नारदस्मरणात् । तस्मात्सर्वत्र निरागमोपभोगे 'अनागमं तु यो भुङ्क्ते' इत्येतद् द्रष्टव्यम् । यदपि 'अन्यायेनापि यद्भुक्तं पित्रा पूर्व- तरैस्त्रिभिः । न तच्छक्यमपहतुं क्रमात्त्रिपुरुषागतम् ॥' इति, तदपि पित्रा सह १. अपरिवर्जित । २. प्रथमस्य पुरुषस्य ।
पूर्वंतरैस्त्रिभिरिति योज्यम् । तत्रापि 'क्रमात्त्रिपुरुषागत' मित्यस्मार्तकालोपभोग- लक्षणम् । त्रिपुरुषविवक्षायामेकवर्षाभ्यन्तरेऽपि पुरुषत्रयातिक्रमसंभवात्, द्वितीये वर्षे निरागमस्य भोगस्य प्रामाण्यप्रसंगः । तथा सति 'स्मार्तकाले क्रिया भूमेः सा- गमा भुक्तिरिष्यते' इति स्मृतिविरोधः, 'अन्यायेनापि यद्भुक्तम्' इत्येतच्चान्याये- नापि भुक्तमपहर्तुं न शक्यं, किं पुनरन्यायानिश्चये इति व्याख्येयम्; 'अपि' शब्द- श्रवणात् । यच्चोक्तं हारीतेन - 'यद्विनाऽऽगममत्यन्तं १भुक्तं पूर्वैस्त्रिभिर्भवेत् । न तच्छक्यमपाहर्तुं क्रमात्त्रिपुरुषागतम् ॥' इति, तत्राप्यत्यन्तन्तमागमं विनेति । अत्यन्तमुपलभ्यमानमागमं विनेति व्याख्येयं, न पुनरागमस्वरूपं विनेति । आगमस्वरूपाभावे भोगशतेनापि न स्वत्वं भवतीत्युक्तम् । 'क्रमात्त्रिपुरुषागतम्'- त्येतदुक्तार्थम् । ननु स्मरणयोग्ये काले भोगस्यागमसापेक्षस्य प्रामाण्यमनुपपन्नम् । तथा हि - यद्यागमः प्रमाणान्तरेणावगतस्तदा तेनैव स्वत्वावगमान्न भोगस्य स्वत्वं आगमे वा प्रामाण्यम् । अथ प्रमाणान्तरेणागमो नावगतः कथं तद्विशिष्टो भोगः प्रमाणम् ? उच्यते, - प्रमाणान्तरेणावगतागमसहित एव निरन्तरो भोगः कालान्तरे स्वत्वं गमयति । अवगतोऽप्यागमो भोगरहितो न कालान्तरे स्वत्वं गमयितुमलम् । मध्ये दानविक्रयादिना स्वत्वापगमसंभवादिति सर्व- मनवद्यम् ॥ आगमसापेक्षो भोगः प्रमाणमित्युक्तम् , आगमस्तर्हि भोगनिरपेक्ष एव प्रमाणमित्यत आह- आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो ॥ २७ ॥ यस्मिन्नागमे स्वल्पापि भुक्तिर्भोगो नास्ति तस्मिन्नागमे बलं संपूर्णं नैवा- स्ति । अयमभिसंधिः-स्वस्वत्वनिवृत्तिः परस्वत्वापादनं च दानम् ; परस्व- त्वापादनं च परो यदि स्वीकरोति तदा संपद्यते, नान्यथा । स्वीकारश्च त्रिविधः- मानसः, वाचिकः, कायिकश्चेति । तत्र मानसो ममेदमिति संकल्परूपः । वाचिकस्तु ममेदमित्याद्यभिव्याहारोल्लेखी सविकल्पकः प्रत्ययः । २कायिकः पुनरुपादानाभिमर्श- नादिरूपोऽनेकविधः । तत्र च नियमः स्मर्यते - 'दद्यात्कृष्णजिनं पृष्ठे गां पुच्छे करिणं करे । केसरेषु तथैवाश्वं दासीं शिरसि दापयेत् ॥' इति । आश्वलायनोऽ- प्याह- 'अनुमन्त्रयेत प्राप्यभिमृशेद्विप्राणि कन्यां च' इति । तत्र हिरण्यवस्त्रादा- वुदकदानान्तरमेवोपादानादिसंभवात् त्रिविधोऽपि स्वीकारः संपद्यते । क्षेत्रादौ पुनः फलोपभोगव्यतिरेकेण कायिकस्वीकारासंभवात्स्वल्पेनाप्युपभोगेन भवित- व्यम् ; अन्यथा दानक्रयादेः संपूर्णता न भवतीति फलोपभोगलक्षणकायिक-
१. भुक्तं पूर्वंतरैस्त्रिभिः । २. कायिकस्तु ।
व्यवहारोऽध्यायः १६३ स्वीकारविकल आगमो दुर्बलो भवति तत्सहितो१दागमात् । एतच्च द्वयोः पूर्वापर- कालापरिज्ञाने । पूर्वापरकालपरिज्ञाने तु विगुणोऽपि पूर्वकालागम एव बलीया- निति । अथवा—'लिखितं साक्षिणो भुक्तिः प्रमाणं त्रिविधम्' इत्युक्तं एतेषां समवाये कुत्र यस्य वा प्राबल्यमित्यत्रेदमुपतिष्ठते—'आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमाद्गतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यन्न नो ॥' इति । अय- मर्थः—आद्ये पुरुषे साक्षिभिर्भावित आगमो भोगादप्यधिको बलवान् । पूर्वक्रमा- गताद्भोगाद्विना । स पुनः पूर्वक्रमागतो भोगश्चतुर्थे पुरुषे लिखितेन भावितादा- गमाद्बलवान् । मध्यमे तु भोगरहितादागमात्स्तोकभोगसहितोऽप्यागमो बलवा- निति । एतदेव नारदेन स्पष्टीकृतम्—'आदौ तु कारणं दानं मध्ये भुक्तिस्तु सागमा । कारणं भुक्तिरेवैका संतता या चिरन्तनी ॥' इति ॥ २७ ॥ भाषा—तीन पीढ़ी पहले से चले आते हुए भोग (कब्जे) की अपेक्षा आगम (लेख) अधिक प्रामाणिक होता है। (आगम-सापेक्ष भोग ही प्रमाण होता है। किन्तु जहाँ थोड़ा भी भोग नहीं होता वहाँ आगम में वो दम नहीं रह जाता है) ॥ २७ ॥ 'पश्यतोऽब्रुवत' (व्य० २४) इत्यत्र विंशतिवर्षोपभोगादूर्ध्वं भूमेर्धनस्या- पि दशवर्षोपभोगादूर्ध्वं फलानुसरणं न भवतीत्युक्तम्, तत्र फलानुसरणवद्दण्डा- नुसरणमपि न भविष्यतीत्याशङ्क्य पुरुषव्यवस्थया च दण्डव्यवस्थां दर्शयि- तुमाह— आगमस्तु कृतो येन सोऽभियुक्तस्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी ॥ २८ ॥ येन पुरुषेण भूम्यादेरागमः स्वीकारः कृतः स पुरुषः 'कुतस्ते क्षेत्रादिकम्' इत्यभियुक्तस्तमागमं प्रतिग्रहा२दिकं लिखितादिभिरुद्धरेत् भावयेत् । अनेन चाद्य- स्य पुरुषस्यागममनुद्धरतो दण्ड इत्युक्तं भवति । तत्सुतो द्वितीयोऽभियुक्तो नागममुद्धरेत्, किन्तु अविच्छिन्नाऽप्रतिरव-समक्षं भोगम् । अनेन चागममनु- द्धरतो द्वितीयस्य न दण्डोऽपि तु विशिष्टं भोगमनुद्धरतो इति प्रतिपादितम् । तत्सुतस्तृतीयो नागमं नापि विशिष्टं भोगमुद्धरेत्, अपि तु क्रमागतं भोगमा- त्रम् । अनेनापि तृतीयस्य क्रमायातभोगानुद्धरणे दण्डो नागमानुद्धरणे न विशि- ष्टभोगानुद्धरणे चेत्यभिहितम् । तत्र तयोर्द्वितीयतृतीययोर्भुक्तिरेव गरीयसी । तत्रापि द्वितीये गुरुस्तृतीये गरीयसीति विवेक्तव्यम् । त्रिष्वप्यागमानुद्धरणेऽर्थ- हानिः समानैव, दण्डे तु विशेष इति तात्पर्यार्थः । उक्तं च हारीतेन—'आगमस्तु १. सहितादागमाभावात् ; दनुमन्त्रयेत् । २. प्रतिग्रहादेरिति ।
१६४ याज्ञवल्क्यस्मृतिः कृतो येन स दण्ड्यस्तमनुद्धरन् । न तत्सुतस्तत्सुतो वा भोग्यहानिस्तयोरपि ॥' इति ॥ २८ ॥ भाषा—जिस व्यक्ति ने आगम (लेख) करवाया है वह अभियोग चलाये जाने पर उसे प्रस्तुत करे । उसके पुत्र या पौत्रों को वह आगम प्रस्तुत करने का अधिकार नहीं रहता, उनके संबन्ध में भोग ही प्रमाण होता है ॥२८॥ अस्मार्तकालोपभोगस्यागमज्ञाननिरपेक्षस्य प्रामाण्यमुक्तं 'विना पूर्वक्रमागा- तात्' (व्य० २७) इत्यत्र, तस्यापवादमाह— योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तमुद्धरेत् । न तत्र कारणं भुक्तिरागम्रेन विना कृता ॥ २९ ॥ यदा पुनराहर्त्रादिरभियुक्तोऽकृतव्यवहारनिर्णय एव परेतः स्यात् परलोकं गतो भवेत्तदा तस्य रिक्थी पुत्रादिस्तमागममुद्धरेत् । यस्मात्तत्र तस्मिन्व्ववहारे भुक्तिरागमसहिता साक्ष्यादिभिः साधितापि न प्रमाणम् ; पूर्वाभियोगेन भोगस्य सापवादत्वात् । नारदेनाप्युक्तम् ( १।९३) —'तथा१रूढविवादस्य प्रेतस्य व्यव- हारिणः । पुत्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्तयेत् ॥' इति ॥ २९ ॥ भाषा—यदि अभियुक्त (अभियोग चलते समय ही) मर जावे तब उसके उत्तराधिकारी (पुत्र इत्यादि) उस आगम को प्रस्तुत करें । उस स्थिति में विना आगम के भोग प्रमाण नहीं माना जाता ॥ २९ ॥ अनिर्णीतव्यवहारे व्यवहारि प्रेते व्यवहारो न निवर्तत इति स्थितम् । निर्णीतेऽपि व्यवहारे, स्थिते च व्यवहारिणि व्यवहारः क्वचित्प्रवर्तते क्वचिन्न प्रवर्तत इति व्यवस्थासिद्धये व्यवहारदर्शिनां बलाबलमाह— नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् ॥ ३० ॥ नृपेण राज्ञा अधिकृताः व्यवहारदर्शने नियुक्ताः—'राज्ञा सभासदः कार्याः' (व्य० २) इत्यादिनोक्ताः पूगाः समूहाः, भिन्नजातीनां भिन्नवृत्तीनां एकस्था- ननिवासिनां,—यथा ग्रामनगराद्यः, श्रेणयो नानाजातीनामेकजातीनामप्येकक- र्मोपजीविनां संघाताः,—यथा हेडाबुकादीनां ताम्बूलिककुविन्दचर्मकारादीनां च, कुलानि जातिसंबन्धिबन्धूनां समूहाः, एतेषां नृपाधिकृतादीनां चतुर्णां पूर्वं पूर्वं यद्यत्पूर्वं पठितं तत्तद्गुरु बलवज्ज्ञेयं वेदितव्यम् । नृणां व्यवहर्तॄणां, व्यवहारविधौ व्यवहारदर्शनकार्ये । एतदुक्तं भवति—नृपाधिकृतैर्निर्णीते व्यवहारे पराजितस्य यद्यप्यसंतोषः कुदृष्टिवुद्ध्या भवति, तथापि न पूगादिषु पुनर्व्यवहारो भवति । १. नवारूढः । २. निवारयेत् ।
व्यवहारोध्यायः १६५ एवं पूगनिणीतेऽपि न श्रेण्यादिगमनम् । तथा श्रेणिनिर्णीते कुलगमनं न भवति । कुलनिणीते तु श्रेण्यादिगमनं भवति । श्रेणिनिर्णीते पूगादिगमनम् । पूगनिर्णीते नृपाधिकृतगमनं भवतीति । नारदेन पुनर्नृपाधिकृतैर्निर्णीतेऽपि व्यव- हारे नृपगमनं भवतीत्युक्तम्—'कुलानि श्रेणयश्चैव गणाश्चाधिकृता १नृपाः । प्रतिष्ठा व्यवहाराणां गुर्वेषामुत्तरोत्तरम्' इति । तत्र च नृपगमने सोत्तरसभ्येन राज्ञा पूर्वैः सभ्यैः सपणव्यवहारे निर्णीयमाने यद्यसौ कुदृष्टवादी पराजितस्तदासौ दण्ड्यः । अथासौ जयति तदाऽधिकृताः सभ्या दण्ड्याः ॥ ३० ॥ भाषा—मनुष्यों का व्यवहार देखने के कार्य में राजा द्वारा नियुक्त व्यक्ति, पूगा ( समूह ), एक कार्य करने वालों की बिरादरी और जाति तथा संबन्धियों का समूह ( कुल ) को क्रमशः श्रेष्ठ समझना चाहिए ॥ ३० ॥ दुर्बलैर्व्यवहारदर्शिभिर्दृष्टो व्यवहारः परावर्तते, प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् ; इदानीं प्रबलदृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह— बलोपधिविनिवृत्तान्व्यवहारान्निवर्तयेत् । स्त्रीनक्तमन्तरागारबहिःशत्रुकृतांस्तथा ॥ ३१ ॥ बलेन बलात्कारेण उपाधिना भयादिना विनिर्वृत्तान्निष्पन्नान्व्यवहारान्वि- वर्तयेत् । तथा स्त्रीभिः, नक्तं रात्रावस्त्रीभिरपि, अन्तरागारे गृहाभ्यन्तरे, बहिर्ग्रामा- दिभ्यः, शत्रुभिश्च कृतान् व्यवहारान् 'निवर्तयेत्' इति संबन्धः ॥ ३१ ॥ भाषा—बलपूर्वक एवं भय आदि द्वारा निष्पन्न व्यवहारों एवं स्त्रियों के साथ, रात्रि को, घर के भीतर, ग्राम आदि के बाहर और शत्रुओं द्वारा किये गये व्यवहारों पर पुनः विचार करे ॥ ३१ ॥ असिद्धव्यवहारिण आह— मत्तोन्मत्तार्त्तव्यसनिबालभीतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिद्ध्यति ॥ ३२ ॥ अपि च, मत्तो मदनीयद्रव्येन, उन्मत्त उन्मादेन पञ्चविधेन वातपित्तश्लेष्म- संनिपातग्रहसंभवेनोपसृष्टः, आर्तौ व्याध्यादिना, व्यसनमिष्टवियोगाऽनिष्टप्राप्ति- जनितं दुःखं, तद्वान् व्यसनी; बालो व्यवहारायोग्यः, भीतोऽरातिभ्यः, 'आदि' ग्रहणात्पुरराष्ट्रादिविरुद्धः ।—'पुरराष्ट्रविरुद्धश्च यश्च राज्ञा विसर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति मनुस्मरणात् । एतैर्यांजितः कृतो १. नृपैः। २. सोत्तरेति उत्तरश्चासौ सभ्यश्चेति तत्सहितेन-स्वोत्तर । ३. बलोपधि । तत्रोपधिः कैतवं ४. उपधिना भयेन । ५. असंबन्द्धकृतः । ६. वियोगोऽनिष्टप्राप्तिस्तज्जनितं । १३ या०
१६६ याज्ञवल्क्यस्मृतिः
व्यवहारो न सिद्धयति । अनियुक्तकासंबद्धकृतोऽपि व्यवहारो न सिद्धयतीति संबन्धः । यत्तु स्मरणम्—'गुरोः शिष्ये पितुः पुत्रे दम्पत्योः स्वामिभृत्ययोः । विरोधे तु मिथस्तेषां व्यवहारो न सिद्धयति ॥' इति, तदपि गुरुशिष्यादीना- मात्यन्तिकव्यवहारप्रतिषेधपरं न भवति; तेषामपि कथंचिद्व्यवहारस्येष्टत्वात् । तथा हि—'शिष्यादिशिष्टिरवधेन शक्तौ रज्जुवेणुविदलाभ्यां तनुभ्यां, अन्येन घ्नन् राज्ञा शास्यः' ( २।४२।४ ) इति गौतमस्मरणात् । 'नोत्तमाङ्गे कथंचन' ( ८।३०० ) इति मनुस्मरणाच्च । यदि गुरुः कोपावेशवशान्महता दण्डेनोत्तमाङ्गे ताडयति, तदा स्मृतिव्यपेतेन मार्गेणाधर्षितः शिष्यो यदि राज्ञे निवेदयति, तदा भवत्येव व्यवहारपदम् ॥ तथा—'भूर्या पितामहोपात्ता' ( व्य० १२१ ) इत्यादिवचनात्पितामहोपात्ते भूम्यादौ पितापुत्रयोः स्वाम्ये समाने, यदि पिता विक्रयादिना पितामहोपात्तं भूम्यादि नाशयति तदा पुत्रो यदि धर्माधिकरणं प्रवेशयति तदा पितापुत्रयोरपि भवत्येव व्यवहारः ॥ यथा—'दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । गृहीतं स्त्रीधनं भर्त्ता नाकामो दातुमर्हति ॥' इति स्मरणात्, दुर्भिक्षादिव्यतिरेकेण यदि स्त्रीधनं भर्त्ता व्ययीकृत्य विद्यमानधनोऽपि याच्यमानो न ददाति तदा दम्पत्योरपीष्यत एव व्यवहारः । तथा भक्तदासस्य स्वामिना सह व्यवहारं वक्ष्यति । गर्भदासस्यापि, गर्भदासादीनधिकृत्य— 'यश्चैषां स्वामिनं कश्चिन्मोचयेत्प्राणसंशयात् । दासत्वात्स विमुच्येत पुत्रभागं लभेत च ॥' इति नारदोक्तत्वात्, तन्मोचने पुत्रभागादाने च स्वामिना सह व्यवहारः केन वार्यते ? तस्मादृष्टादृष्टयोः श्रेयस्करो न भवति गुर्वादिभिर्व्यवहार इति प्रथमं शिष्यादयो निवारणीयाः राज्ञा सभ्यैनेति 'गुरोः शिष्ये' इत्यादि- श्लोकस्य तात्पर्यार्थः । अत्यन्तनिर्बन्धे तु शिष्यादीनामप्युक्तरीत्या प्रवर्तनीयो व्यवहारः । यदपि—'एकस्य बहुभिः सार्धं स्त्रीणां प्रेष्यजनस्य च । अनादेयो भवेद्वादो धर्मविद्भिरुदाहृतः ॥' इति नारदवचनम्, तत्रैकस्यापि—'गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेच्च यः' । ( व्य० १८७ ) तथा—'एकं घ्नतां बहूनां च' ( व्य० २२१ ) इत्यादिरमरणादेकार्थैर्बहुभिः सार्धं व्यवहार इष्यत एवेति भिन्नार्थैर्बहुभिरेकस्य युगपद्व्यवहारो न भवतीति द्रष्टव्यम् । स्त्रीणामित्यपि गोपशौण्डिकादिस्त्रीणां स्वातन्त्र्याद्व्यवहारो भवत्येवेति, तदन्यासां कुलस्त्रीणां पतिषु जीवत्सु तत्पारतन्त्र्यादनादेयो व्यवहार इति व्याख्येयम् । 'प्रेष्यजनस्य स्वामिपारतन्त्र्यात्स्वार्थव्यवहारेऽपि स्वाम्यनुज्ञयैव व्यवहारो नान्यथेति व्याख्येयम् ॥ ३२ ॥
१. धिकारिणं प्रविशति । २. व्यवहारान् । व्यवहारपदं । ३. जीवत्सु सरसु । ४. योजनीयम् ।
·व्यवहाराध्यायः १८० भाषा—मत्त (नशे में बुत्त), उन्मत्त (पागल), रोगी, प्रियजन की मृत्यु आदि से विपत्तिग्रस्त, बालक, त्रस्त (शत्रु से भयातुर) व्यक्तियों के ऊपर चलाया गया व्यवहार एवं असंबद्ध व्यक्ति द्वारा चलाया गया व्यवहार सिद्ध या विचारणीय नहीं होता ॥ ३२ ॥ परावस्थ्यं व्यवहारमुक्त्वा इदानीं परावस्थ्यं द्रव्यमाह— प्रणष्टाधि गतं देयं नृपेण धनिने धनम् । विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ ३३ ॥ प्रणष्टं हिरण्यादि शौल्किकस्थानपालादिभिरधिगतं राज्ञे समर्पितं यत्तद्राज्ञा धनिने दातव्यम् । यदि धनी रूपसंज्ञादिभिर्लिङ्गैर्भावयति । यदि न भावयति तदा तत्समं दण्ड्यः; असत्यवादित्वात् । अधिगमस्य स्वत्वनिमित्तत्वात्स्वस्वे प्राप्ते तत्परावृत्तिरनेनोक्ता। अत्र च कालावधिं वक्ष्यति (व्य० १७३)—'शौल्किकैः स्थानपालैर्वा नष्टापहृतमाहृतम् । अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः ॥' इति । मनुना पुनः संवत्सरत्रयमवधित्वेन निर्दिष्टम् (८।३०)-'प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक् त्र्यब्दाद्धरेत्स्वामी परतो नृपतिर्हरेत् ॥' इति । तत्र वर्षत्रयपर्यन्तमवश्यं रक्षणीयम् । तत्र यदि संवत्सरादर्वाक् स्वाम्यागच्छेत्तदा कृत्स्नमेव दद्यात् । यदा पुनः संवत्सरादूर्ध्वमागच्छति, तदा किंचिदङ्गं रक्षण- मूल्यं गृहीत्वा शेषं स्वामिने दद्यात् , यथाह—'आददीताथ षड्भागं प्रणष्टाधि- गतान्नृपः । दशमं द्वादशं वापि सतां धर्ममनुस्मरन् ॥' (मनु० ८।३०) इति । तत्र प्रथमे वर्षे कृत्स्नमेव दद्यात्, द्वितीये द्वादशं भागं, तृतीये दशमं, चतुर्थादिषु षष्ठं भागं गृहीत्वा शेषं दद्यात् । राजभागस्य चतुर्थोऽशोऽधिगन्त्रे दातव्यः । स्वाम्यनागमे तु कृत्स्नस्य धनस्य चतुर्थमंशमधिगन्त्रे दत्त्वा शेषं राजा गृह्णीयात् । तथाह गौतमः ( १०।३६-३८)—'प्रणष्टस्वामिकमधिगम्य संवत्सरं राज्ञा रक्ष्यम् । ऊर्ध्वमधिगन्तुश्चतुर्थोऽशो राज्ञः शेषम्' इत्यत्र संवत्सरमित्येक- वचनमविवक्षितम् । 'राजा त्र्यब्दं निधापयेत्' इति स्मरणात् 'हरेत परतो नृपः' इत्येतदपि स्वामिन्यनागते त्र्यब्दादूर्ध्वं व्ययीकरणाम्यनुज्ञानपरम् । ततः पश्चागते तु स्वामिनि व्ययीभूतेऽपि द्रव्ये राजा स्वांशमवतार्य तत्समं दद्यात् । एतच्च हिरण्यादिविषयम् । गवादिविषये वक्ष्यति (व्य० १७४)— 'पणामेकशफे दद्यात्' इत्यादिना ॥ ३३ ॥ भाषा—किसी की खोई हुई वस्तु पाकर राजा उस धन के अधिकारी को वह वस्तु (धन) देवे और यदि वह चिह्नों द्वारा उसे (अपना) प्रमाणित न कर सके तो उसके समान दण्ड का भागी होता है ॥ ३३ ॥ १. रूपकसंख्या । २. षड्भागं । ३. चतुर्थो भागः शेषं राज्ञ इति ।
१६८ याज्ञवल्क्यस्मृतिः
रथ्याशुल्कशालादिनिपतितस्य सुवर्णादेर्नष्टस्याधिगमे विधिमुक्त्वा अधुना भूमौ चिरनिखातस्य सुवर्णादेर्निधिशब्दवाच्यस्याधिगमे विधिमाह— राजा लब्ध्वा निधिं दद्याद् द्विजेभ्योऽर्धं द्विजः पुनः । विद्वानशेषमादद्यात्स सर्वस्य प्रभुर्यतः ॥ ३४ ॥ इतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डमेव च ॥ ३५ ॥ उक्तलक्षणं निधिं राजा लब्ध्वा अर्धं ब्राह्मणेभ्यो दत्त्वा शेषं कोशे निवेशयेत् । ब्राह्मणस्तु विद्वान् श्रुताध्ययनसंपन्नः सदाचारो यदि निधिं लभेत तदा सर्वमेव गृह्णीयात्, यस्मादसौ सर्वस्य जगतः प्रभुः । इतरेण तु राजविद्वद्ब्राह्मणव्यति- रिक्तेन अविद्वद्ब्राह्मणक्षत्रियादिना निधौ लब्धे राजा षष्ठांशमधिगन्त्रे दत्त्वा शेषं निधिं स्वयमाहरेत् । यथाह वसिष्ठः—'अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तद्ध- रेत्, अधिगन्त्रे षष्ठमंशं, प्रदद्यात्' इति । गौतमोऽपि ( १०।३३।५ )—'निध्य- धिगमो राजधनं भवति, न ब्राह्मणस्याभिरूपस्य, अब्राह्मणोऽप्याख्याता षष्ठमंशं लभेतेत्येके' इति । अनिवेदित इति कर्तरि निष्ठा । अनिवेदितश्चासौ विज्ञातश्च राज्ञेऽप्यनिवेदितविज्ञातः, यः कश्चिन्निधिं लब्ध्वा राज्ञे न निवेदितवान् विज्ञातश्च राज्ञा स सर्वं निधिं दाप्यो दण्डं च शक्त्यपेक्षया । अथ निधेरपि स्वाम्यागत्य रूपकसंख्यादिभिः स्वत्वं भावयति तदा तस्मै राजा निधिं दत्त्वा षष्ठं द्वादशं वाऽंशं स्वयमाहरेत् । यथाह मनुः ( ८।३५ )—'ममायमिति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशमेव वा ॥' इति । अंशविकल्प- स्तु वर्णकालाद्यपेक्षया वेदितव्यः ॥ ३४-३५ ॥ भाषा—राजा (इस प्रकार का) धन लेकर उसका आधा ब्राह्मणों को दान कर दे । विद्वान् ब्राह्मण यदि ऐसी निधि पावे तो सम्पूर्ण स्वीकार करे, क्योंकि वह सम्पूर्ण जगत् का स्वामी होता है । (राजा, विद्वान् ब्राह्मण के अतिरिक्त) किसी और से धन लेवे तो उसका छठा अंश लाने वाले को देकर शेष राजा स्वयं ले लेवे । न बताई गई निधि ज्ञात हो जाय तो उसे सम्पूर्ण निधि दण्ड के रूप में दिलवाये ॥ ३४-३५ ॥ चौरहृतं प्रत्याह— देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् ॥ ३६ ॥ चौरैर्हृतं द्रव्यं चौरेभ्यो विजित्य जानपदाय स्वदेशनिवासिने यस्य तत् द्रव्यं तस्मै राज्ञा दातव्यम् । हि यस्मात् अददत् अप्रयच्छन् यस्य तदपहृतं १. दद्याद्द्विजेभ्योऽर्धं । २. राजधनं न ब्राह्मणस्य । ३. रूपकसंख्याविधिभिः ।
व्यवहाराध्यायः १६६ द्रव्यं तस्य किल्बिषमाप्नोति । तस्य चौरस्य च । यथाह मनुः ( ८।४० ) - 'दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् ॥' इति । यदि चौरहस्तादादाय स्वयमुपभुङ्क्ते तदा चौरस्य किल्बिषमाप्नोति । अथ चौरहृतमुपेक्षते तदा जानपदस्य किल्बिषम् । अथ चौर- हृताहरणाय यतमानोऽपि न शक्नुयादाहर्तुं तदा तावद्धनं स्वकोशाद्दद्यात् । यथाह गौतमः - (१०।४६) 'चौरहृतमवजित्य यथास्थानं गमयेत्कोशाद्वा दद्यात्' इति । कृष्णद्वैपायनोऽपि - 'प्रत्याहर्तुं न शक्तस्तु धनं चौरैर्हतं यदि । स्वकोशा- तद्धि देयं स्यादशक्तेन महीक्षिता ॥' इति ॥ ३६ ॥ भाषा - चोरों से छीने गये धन को राजा अपने देश के निवासी को ( जिसका वह धन हो ) देवे । यदि उसका धन नहीं देता तो उस धन के अधिकारी के सभी पाप उसे लग जाते हैं ॥ ३६ ॥ इत्यसाधारणव्यवहारमातृकाप्रकरणम् । अथ ऋणादानप्रकरणम् ३ साधारणासाधारणरूपां व्यवहारमातृकामभिधायाधुनाष्टादशानां व्यवहारा- पदानामाद्यमृणादानपदं दर्शयति - 'अशीतिभागो वृद्धिः स्यात्' इत्यादिना, 'मोच्य आधिस्तदुत्पन्ने प्रविष्टे द्विगुणे धने' ( व्य० ६४ ) इत्येवमन्तेन । तच्च ऋणादानं सप्तविधम् - ईदृशमृणं देयं, ईदृशमदेयं, अनेनाधिकारिणादेयं, अस्मिन् समये देयं, अनेन प्रकारेण देयम् , इत्यधमर्णे पञ्चविधम् । उत्तमर्णे दानविधिः, आदानविधिश्चेति द्विविधमिति । एतच्च नारदेन स्पष्टीकृतम् (१।१।४) - 'ऋणं देयमदेयं च येन यत्र यथा च यत् । दानग्रहणधर्माभ्यामृणादानमिति स्मृतम् ॥' इति । तत्र प्रथममुत्तमर्णस्य दानविधिमाह, तत्पूर्वकत्वादितरेषाम् - अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धके । वर्णक्रमाच्छतं द्वित्रिचतुष्पञ्चकमन्यथा ॥ ३७ ॥ मासि मासि प्रतिमासं बन्धकं विश्वासार्थं यदाधीयते, आधिरिति यावत् । बन्धकेन सह वर्तत इति सबन्धकः प्रयोगः, तस्मिन्सबन्धके प्रयोगे प्रयुक्तस्य द्रव्यस्य अशीतितमो भागो वृद्धिर्धर्म्या भवति । अन्यथा बन्धकरहिते प्रयोगे वर्णानां ब्राह्मणादीनां क्रमेण द्वित्रिचतुष्पञ्चकं शतं धर्म्यं भवति । ब्राह्मणेऽधमर्णे द्विकं शतं, क्षत्रिये त्रिकं, वैश्ये चतुष्कं, शूद्रे पञ्चकम् । मासि मासीत्येव द्वौ वा त्रयो वा चत्वारो वा पञ्च वा द्वित्रिचतुःपञ्चाः, अस्मिन् शते वृद्धिर्दीयते इति १. तदुपभुञ्जानः । २. व्यवहाराणामाद्य । ३. धर्मश्च ऋणादान ।
२०० याज्ञवल्क्यस्मृतिः द्वित्रिचतुष्पञ्चकं शतम् । 'संख्याया अतिशदन्तायाः कन्' (पा. ५।१।२२) इत्यनुवृत्तौ 'तदस्मिन्वृद्ध्यायलाभशुल्कोपदा दीयते' (पा. ५।१।४७) इति कन् । (वृद्धेर्वृद्धिश्चक्रवृद्धिः प्रतिमासं तु कालिका । इच्छाकृता कारिता स्यात्कायिका कार्यकर्मणा) इयं च वृद्धिर्मासि मासि गृह्यत इति कालिका । इयमेव वृद्धिर्दि- वसगणनया विभज्य प्रतिदिवसं गृह्यमाणा कायिका भवति । तथा च नारदेन (१।१०२, ४) - 'कायिका कालिका चैव कारिता च तथा परा । चक्रवृद्धिश्च शास्त्रेषु तस्य वृद्धिश्चतुर्विधा ॥' इत्युक्त्वोक्तम् - 'कायाविरोधिनी शश्वत्पणपादा- दिकायिका । प्रतिमासं स्रवन्ती या वृद्धिः सा कालिका मता ॥ वृद्धिः सा कारिता याऽधमर्णेन स्वयं कृता । वृद्धेरपि पुनर्द्धिश्चक्रवृद्धिरुदाहृता ॥' (१। १०३-४) इति ॥ ३७ ॥ भाषा-बन्धक रखे हुए धन पर उसका अस्सीवाँ भाग प्रत्येक मास में ब्याज होता है। अन्यथा (बन्धक न होने पर) वर्ण के अनुसार (ब्राह्मण आदि से क्रमशः) दो, तीन, चार और पाँच प्रतिशत ब्याज लेना चाहिए ॥ ३७ ॥ ग्रहीतृविशेषेण वृद्धेः प्रकारान्तरमाह- कान्तारगास्तु दशकं सामुद्रा विंशकं शतम् । कान्तारमरण्यं तत्र गच्छन्तीति कान्तारगाः । ये वृद्ध्या धनं गृहीत्वाधिक- लाभार्थमतिगहनं प्राणधनविनाशशङ्कास्थानं प्रविशन्ति ते दशकं शतं दद्युः । ये च समुद्रगास्ते विंशकं शतम् । मासि मासीत्येव । एतदुक्तं भवति-कान्तार- गेभ्यो दशकं शतं, सामुद्रेभ्यश्च विंशकं शतं, उत्तमर्ण आदद्यात् ; मूलविनाश- स्यापि शङ्कितत्वादिति ॥ इदानीं कारितां वृद्धिमाह - दद्युर्वा स्वकृतां वृद्धिं सर्वे सर्वासु जातिषु ॥ ३८ ॥ सर्वे वा ब्राह्मणादयोऽधमर्णाः अबन्धके सबन्धके वा स्वकृतां स्वाभ्यु- पगतां वृद्धिं सर्वासु जातिषु दद्युः । क्वचिदकृतापि वृद्धिर्भवति; यथाह नारदः (१।१०८)-'न वृद्धिः प्रीतिदत्तानां स्यादानाकारिता क्वचित् । अनाकारित- मप्यूर्ध्वं वत्सराधद्विर्द्धते ॥' इति । यस्तु याचितकं गृहीत्वा; देशान्तरं गतस्तं प्रति कात्यायनेनोक्तम् - 'यो याचितकमादाय तमदत्त्वा दिशं व्रजेत् । ऊर्ध्वं संवत्सरात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यश्च याचितकमादाय याचितोऽ- प्यदत्त्वा देशान्तरं व्रजति तं प्रति तेनैवोक्तम्-कृतोद्धारमदत्त्वा यो याचितस्तु १' पुस्तकेऽधिकोऽयं पाठः। २ नैवाधिकं । ३ याति ।
दिशं व्रजेत् । ऊर्ध्वं मासत्रयात्तस्य तद्धनं वृद्धिमाप्नुयात् ॥' इति । यः पुनः स्वदेशे स्थित एव याचितो याचितकं न ददादि तं याचितकालादार- भ्योऽकारितां वृद्धिं दापयेद्राजा । यथाह—'स्वदेशेऽपि स्थितो यस्तु न दद्याद्या- चितः क्वचित् । तं ततोऽकारितां वृद्धिमनिच्छन्तं च दापयेत् ॥' इति । अना- कारितवृद्धेरपवादो नारदेनोक्तः–'पण्यमूल्यं भृतिर्न्यासो दण्डो यश्च प्रकल्पितः । वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ॥' इति । अविवक्षिता अनाकारिता इति ॥ ३८ ॥ भाषा—(अधिक लाभ के लिये ऋण लेकर) गहन वन में जाने वाले से दश प्रतिशत और समुद्र की यात्रा करने वाले से बीस प्रतिशत वृद्धि (ब्याज) लेनी चाहिए । अथवा सभी जातियों के लिये जो जितनी वृद्धि देना स्वीकार करे उतनी देवे ॥ ३८ ॥ अधुना द्रव्यविशेषेण वृद्धिविशेषमाह— सन्ततिस्तु पशुस्त्रीणां— पशुस्त्रीणां सन्ततिरेव वृद्धिः । पशूनां स्त्रीणां दोहणासमर्थस्य तत्पुष्टिसन्त- तिकामस्य प्रयोगः संभवति । ग्रहणं च क्षीरपरिचर्यार्थिनः ॥ अधुना प्रयुक्तस्य द्रव्यस्य वृद्धिग्रहणमन्तरेणापि चिरकालावस्थितस्य कस्य द्रव्यस्य कियती परा वृद्धिरित्यपेक्षित आह— —रसस्याष्टगुणा परा । वस्त्रधान्यहिरण्यानां चतुस्त्रिद्विगुणा परा ॥ ३९ ॥ रसस्य तैलघृतादेर्वृद्धिग्रहणमन्तरेण चिरकालावस्थितस्य स्वकृतया वृद्धया वर्धमानस्य अष्टगुणा वृद्धिः परा, नातः परं वर्धते । तथा वस्त्रधान्यहिरण्यानां यथासंख्यं चतुर्गुणा त्रिगुणा द्विगुणा च वृद्धिः परा । वसिष्ठेन तु रसस्य त्रैगुण्य- मुक्तम् ( २।४४।७ ) 'द्विगुणं हिरण्यं त्रिगुणं धान्यं । धान्येनैव रसा व्याख्याताः पुष्पमूलफलानि च । तुलाधृतं मष्टगुणम्' इति । मनुना तु धान्यस्य पुष्पमूल- फलादीनां च पञ्चगुणत्वमुक्तम्—'धान्ये शदे लवे बाह्ये नातिक्रामति पञ्चताम्' इति । शदः क्षेत्रे फलं पुष्पमूलफलादि, लवो मेषोर्णाचमरीकेशादिः, बाह्यो बलीवर्दतुरगादिः । धान्यशदलववाह्यविषया वृद्धिः पञ्चगुणत्वं नातिक्रामतीति । तत्राधमर्णयोग्यतावशेन दुर्भिक्षादिकालवशेन च व्यवस्था द्रष्टव्या । एतच्च सकृ- त्प्रयोगे सकृदाहरणे च वेदितव्यम् । पुरुषान्तरसंक्रमणेन प्रयोगान्तरकरणे तस्मिन्नेव
१. याचन । २. रभ्य वृद्धि । ३. विशेषे । ४. तुलधृतं त्रितय । तृतीयमष्ट । ५. वृत्तफलं ।
२८२ याज्ञवल्क्यस्मृतिः
वा, पुरुषे अनेकशः रेकसेकाभ्यां प्रयोगान्तरकरणे सुवर्णादिकं द्वैगुण्याद्यतिक्रम्य पूर्ववद्वर्धते । सकृत्प्रयोगेऽपि प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वा वृद्ध्याहरणे- ऽधमर्णदेयस्य द्वैगुण्यासंभवात्पूर्वाहितवृद्ध्या सह द्वैगुण्यमतिक्रम्य वर्धत एव । यथाह मनुः (८।१५१)—'कुसीदवृद्धिद्वैगुण्यं नात्येति सकृदा- हिता ।' इति । सकृदाहृतेत्यपि पाठोऽस्ति । उपचयार्थं प्रयुक्तं द्रव्यं कुसीदं, तस्य वृद्धिः कुसीदवृद्धिः, सा द्वैगुण्यं नात्येति नातिक्रामति । यदि सकृदाहिता सकृत्प्र- युक्ता । पुरुषान्तरसंक्रमणादिना प्रयोगान्तरकरणे द्वैगुण्यमभ्येति । सकृदाहृतेति पाठे तु शनैः शनैः प्रतिदिनं प्रतिमासं प्रतिसंवत्सरं वाऽधमर्णादाहृता द्वैगुण्य- मभ्येतीति व्याख्येयम् । तथा गौतमेनाप्युक्तम् ( १२।३१ )—'चिरस्थाने द्वैगुण्यं प्रयोगस्य' इति । 'प्रयोगस्य' इत्येकवचननिर्देशात्प्रयोगान्तरकरणे द्वैगुण्याति- क्रमोऽभिप्रतः । 'चिरस्थान' इति निर्देशात् शनैः शनैर्वृद्धिग्रहणे द्वैगुण्यातिक्रमो दर्शितः ॥ ३९ ॥
भाषा—पशु और स्त्री के लिये उनकी सन्तान ही वृद्धि (ब्याज) होती है । रस (तेल, घृत आदि) लेने पर उसकी वृद्धि स्वीकृत वृद्धि से अधिक से अधिक अठगुना हो सकती है । वस्त्र, धान्य और सोने की वृद्धि अधिक से अधिक क्रमशः चौगुनी, तिगुनी या दुगुनी होती है ॥ ३९ ॥
ऋणप्रयोगधर्मा उक्ताः; सांप्रतं प्रयुक्तस्य धनस्य ग्रहणधर्मा उच्यन्ते—
प्रपन्नं साधयन्नर्थं न वाच्यो नृपतेर्भवेत् । साध्यमानो नृपं गँच्छन्दण्ड्यो दाप्यश्च तद्धनम् ॥ ४० ॥
प्रपन्नमभ्युपगतमधमर्णेन धनं साक्ष्यादिभिर्भावितं वा साधयन् प्रत्याह- रन् धर्मादिभिरुपायैरुत्तमर्णो नृपतेर्वाच्यो निवारणीयो न भवति ॥ धर्मा- दयश्चोपाया मनुना दर्शिताः (मनुः ८।४९) —'धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च ॥' इति । धर्मेण प्रीतियुक्तेन सत्यवच- नेन, व्यवहारेण साक्षिलेख्याद्युपायेन, छलेन उत्सवादिव्याजेन भूषणादिग्रह- णेन, आचरितेन अभोजनेन, पञ्चमेनोपायेन बलेन निगडबन्धनादिना, उप- चयार्थं प्रयुक्तं द्रव्यमेतैरुपायैरात्मसात्कुर्यादिति । 'प्रपन्नं साधयन्नर्थं न वाच्य' इति वदन् अप्रतिपन्नं साधयन् राज्ञा निवारणीय इति दर्शयति । एतदेव स्पष्टी- कृतं कात्यायनेन—'पीडयेद्यो धनी कश्चिदृणिकं न्यायवादिनम् । तस्मादर्थात्स हीयेत तत्समं चौप्नुयाद्दमम् ॥' इति । यस्तु धर्मादिभिरुपायैः प्रपन्नमर्थं साधय-
१. गान्तरीकरणे । २. गच्छेत् । ३. प्रपन्नं साधयन्नर्थं । ४. लेखाद्युपन्यासेन । ५. प्राप्नुयात् ।
ऽव्यवहाराध्यायः २०३ मानो याच्यमानो नृपं गच्छेद्राजानमभिगम्य साधयन्तमभियुङ्क्ते स दण्ड्यो भवति, शक्त्यनुसारेण धनिने तद्धनं दाप्यश्च । राज्ञा दापने च प्रकारा दर्शिताः- 'राजा तु स्वामिने विप्रं सान्त्वेनैव प्रदापयेत् । देशाचारेण चान्यांस्तु दुष्टान्सं- पीड्य दापयेत् ॥ रिक्थिनं सुहृदं वापि छलेनैव प्रदापयेत् ॥' इति । 'साध्यमानो नृपं गच्छन्' इत्येतत् 'स्मृत्याचारव्यपेतेन' इत्यस्य प्रत्युदाहरणं बोद्धव्यम् ॥४०॥ भाषा—दिये गये धन को धर्मपूर्वक लेने का प्रयत्न करने वाले के बीच में राजा दखल न देवे । यदि वह उसके लिये राजा के समीप निवेदन करता है तो दण्ड्य होता है और राजा को धनी के धन दिला देना चाहिए ॥ ४० ॥ बहूषूत्तमर्णिकेषु युगपत्प्राप्तेष्वेकोऽधमर्णिकः केन क्रमेण दाप्यो राज्ञेत्यपेक्षित आह— गृहीतानुक्रमाद्दाप्यो धनिनामधमर्णिकः । दत्त्वा तु ब्राह्मणाद्यैव नृपतेस्तदनन्तरम् ॥ ४१ ॥ समानजातीयेषु धनिषु येनैव क्रमेण धनं गृहीतं तेनैव क्रमेणाधम- र्णिको राज्ञा दाप्यः । भिन्नजातीयेषु तु ब्राह्मणादिक्रमेण ॥ ४१ ॥ भाषा—समान जाति के धनियों में जिस क्रम से ( जिस-जिस का ) धन लिया हो उस-उस को ऋणी से दिलवाये । (यदि भिन्न जाति के ऋणदाता हों तो ) पहले ब्राह्मण का धन दिलवा कर तब क्षत्रिय आदि का दिलावे ॥ ४१ ॥ यदा पुनरुत्तमर्णो दुर्बलः प्रतिपन्नमर्थं धर्मादिभिरुपायैः साधयितुमशक्नु- वन्त्राज्ञा साधितार्थो भवति तदाऽधमर्णस्य दण्डमुत्तमर्णस्य च भृतिदानमाह— राज्ञाऽधमर्णिको दाप्यः साधिताद् दशकं शतम् । पञ्चकं च शतं दाप्यः प्राप्तार्थो ह्युत्तमर्णिकः ॥ ४२ ॥ अधमर्णिको राज्ञा प्रतिपन्नार्थात्साधिताद्दशकं शतं दाप्यः । प्रतिपन्नस्य साधितार्थस्य दशममंशं राजाऽधमर्णिकाद्दण्डरूपेण गृह्णीयादित्यर्थः । उत्तमर्णस्तु प्राप्तार्थः पञ्चकं शतं भृतिरूपेण दाप्यः । साधितार्थस्य विंशतितमं भागमुत्त- मणद्राजा भृत्यर्थं गृह्णीयादित्यर्थः । अप्रतिपन्नार्थसाधने तु दण्डविभागो दर्शितः—'निह्नवे भावितो दद्यात्' (व्य० ५) इत्यादिना ॥ ४२ ॥ भाषा—यदि राजा ऋणी से वसूल करके ऋणदाता को धन दिलावे तो ऋणी से दस प्रतिशत और धन पाने वाले धनी से पाँच प्रतिशत भृति- रूप में ले ॥ ४२ ॥
२०४ याज्ञवल्क्यस्मृतिः सधनमधमर्णिकं प्रत्युक्तम्, अधुना निर्धनमधमर्णिकं प्रत्याह - हीनजातिं परिक्षीणमृणार्थं कर्म कारयेत् । ब्राह्मणस्तु परिक्षीणः शनैर्दाप्यो यथोदयम् ॥ ४३ ॥ ब्राह्मणादिजातिरुत्तमर्णो हीनजातिं क्षत्रियादिजातिं परिक्षीणं निर्धनमृणार्थं ऋणनिवृत्त्यर्थं कर्म स्वजात्यनुरूपं कारयेत् तत्कुटुम्बाविरोघेन । ब्राह्मणस्तु पुनः परिक्षीणो निर्धनः शनैःशनैः यथोदयं यथासंभवमृणं दाप्यः । अत्र च 'हीनजाति' ग्रहणं समानजातेरप्युपलक्षणम् । अतश्च समानजातिमपि परिक्षीणं यथोचितं कर्म कारयेत् । 'ब्राह्मण'ग्रहणं च श्रेयो जातेरुपलक्षणम् । अतश्च क्षत्रियादिरपि परिक्षीणो वैश्यादेः शनैःशनैर्दाप्यो यथोदयम् । एतदेव मनुना स्पष्टीकृतम् (८।१७७) -'कर्मणापि समं कुर्याद्धनिकेनाधमर्णिकः । समोऽपकृष्टजातिश्च दद्याच्छ्रेयांस्तु तच्छनैः ॥' इति । उत्तमर्णेन समं निवृत्तोत्तमर्णाधमर्णव्यपदेश- मात्मानमधमर्णः कर्मणा कुर्यादित्यर्थः ॥ ४३ ॥ भाषा-(धनी से) निम्नजाति के ऋणी से जिसके पास ऋण लौटाने के लिए धन न हो, धनी व्यक्ति के यहाँ उसकी जाति के अनुरूप कार्य करावे । यदि इस प्रकार का असमर्थ ऋणी ब्राह्मण हो तो शनैः-शनैः (थोड़ा- थोड़ा करके) उसकी आय के अनुसार धन वसूल करे ॥ ४३ ॥ मध्यस्थस्थापितं न वर्धते- दीयमानं न गृह्णाति प्रयुक्तं यः स्वकं धनम् । मध्यस्थस्थापितं ४चेत्स्याद्वर्धते न ततः परम् ॥ ४४ ॥ किंच, उपचयार्थं प्रयुक्तं धनं अधमर्णेन दीयमानमुत्तमर्णो वृद्धिलोभाद्यदि न गृह्णाति तदाऽधमर्णेन मध्यमहस्ते स्थापितं यदि स्यात्तदा ततः स्थापनादूर्ध्वं न वर्धते । अथ स्थापितमपि याच्यमानो न ददाति ततः पूर्ववद्वर्धत एव ॥४४॥ भाषा-यदि धन देने वाला व्यक्ति ब्याज के लिये ऋण दिये गये धन को ऋणी द्वारा लौटाये जाने पर भी (ब्याज के लोभ से) ग्रहण नहीं करता और उस धन को ऋणी किसी मध्यस्थ के पास जमा कर दे तो उसके बाद उसकी वृद्धि (ब्याज) नहीं लगती ॥ ४४ ॥ इदानीं देयमृणं यद्वा येन च देयं तदाह- अविभक्तैः कुटुम्बार्थे यहणं तु कृतं भवेत् । दद्युस्तद्रिक्थिनः प्रेते प्रोषिते वा कुटुम्बिनि ॥ ४५ ॥ १. मृणार्थं कर्म । २. द्वनिकायाधमर्णिकः । ३. पितं यत्स्यात् ४. तत्स्यात् । ५. पूर्वं वर्धत एव ।
व्यवहाराध्यायः २०५ अविभक्तैर्बहुभिः कुटुम्बार्थमेकैकेन वा यदृणं कृतं तदृणं कुटुम्बी दद्यात् । तस्मिन्प्रेते प्रोषिते वा तद्रिक्थिनः सर्वे दद्युः ॥ ४५ ॥ भाषा—संयुक्त परिवार में (एक साथ रहने वाले) अनेक व्यक्तियों या एक व्यक्ति द्वारा जो ऋण कुटुम्ब के पालन के लिये लिया गया हो, उसे उसकी मृत्यु के उपरान्त उसके सभी उत्तराधिकारी (सम्पत्ति के भागीदार) लौटावें ॥ ४५ ॥ येन देयमित्यत्र प्रत्युदाहरणमाह— न योषित्पतिपुत्राभ्यां न पुत्रेण कृतं पिता । दद्यादृते कुटुम्बार्थान्न पतिः स्त्रीकृतं तथा ॥ ४६ ॥ पत्या कृतमृणं योषिद्भार्या नैव दद्यात् । पुत्रेण कृतं योषिन्माता न दद्यात् । तथा पुत्रेण कृतं पिता न दद्यात् । तथा भार्याकृतं पतिर्न दद्यात् । 'कुटुम्बार्थाहते' इति सर्वशेषः । अतश्च कुटुम्बार्थे येन केनापि कृतं तत् कुटुम्बिना देयम् । तद- भावे तद्दायहरैर्देयमित्युक्तमेव ॥ ४६ ॥ भाषा—जो ऋण कुटुम्ब के भरणपोषण के लिये नहीं लिया गया हो (किसी अन्य प्रयोजन से लिया गया हो) ऐसे पति द्वारा लिये गये ऋण को स्त्री न लौटावे, पुत्र द्वारा लिये गये ऋण को माता न भरे, पिता न भरे, और पत्नी द्वारा लिये गये ऋण को पति लौटाने का अधिकारी नहीं होता ॥४६॥ 'पुत्रपौत्रैर्ऋणं देयम्' (व्य० ५०) इति वक्ष्यति तस्य पुरस्तादपवादमाह— सुराकामद्यूतकृतं दण्डशुल्कावशिष्टकम् । वृथादानं तथैवेह पुत्रो दद्यान्न पैतृकम् ॥ ४७ ॥ सुरापानेन यत्कृतमृणं कामकृतं स्त्रीव्यसननिमित्तं द्यूते पराजयनिमित्तं दण्डशुल्कयोरवशिष्टं वृथादानं धूर्तबन्दिमल्लादिभ्यो यत्प्रतिज्ञातम्—'धूर्ते बन्दिनि मल्ले च कुवैद्ये कितवे शठे । चाटचारणचौरेषु दत्तं भवति निष्फलम् ॥' इति स्मरणात् । एतदृणं पित्रा कृतं पुत्रादिः शौण्डिकादिभ्यो न दद्यात् । अत्र 'दण्ड- शुल्कावशिष्टक' मित्यवशिष्टग्रहणात्सर्वं दातव्यमिति न मन्तव्यम् ।—'दण्डं वा दण्डशेषं वा शुल्कं तच्छेषमेव वा । न दातव्यं तु पुत्रेण यच्च न व्यावहारिक- म् ॥' इत्यौशनसस्मरणात् । गौतमेनाप्युक्तम्—'मद्यशुल्कद्यूतदण्डा न पुत्रा- नधर्भवेयुः' इति । न पुत्रस्योपरि भवन्तीत्यर्थः । अनेनादेयमृणमुक्तम् ॥ ४७ ॥ भाषा—मदिरापान एवं जुआ खेलने के निमित्त लिये गये ऋण, दण्ड और शुल्क की निधि के अवशिष्ट भाग, वृथादान के (धूर्त बन्दी, मल्ल आदि १. सर्वविशेषणं । २. निर्वृत्तं । ३. पुत्रानध्यावहेयुः ।